अध्याय 196, Verse 1
व्यास उवाच ।
गार्ग्यं गोष्ठे द्विजो श्यालः षण्ढ इत्युक्तवान् द्विजाः ।
यदूनां संनिधौ सर्वे जहसुर्यादवास्तदा ॥ १९६.१॥
Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
गार्ग्यं गोष्ठे द्विजो श्यालः षण्ढ इत्युक्तवान् द्विजाः ।
यदूनां संनिधौ सर्वे जहसुर्यादवास्तदा ॥ १९६.१॥
ततः कोपसमाविष्टो दक्षिणापथमेत्य सः ।
सुतमिच्छंस्तपस्तेपे यदुचक्रभयावहम् ॥ १९६.२॥
आराधयन् महादेवं सोऽयश्चूर्णमभक्षयत् ।
ददौ वरं च तुष्टोऽसौ वर्षे द्वादशके हरः ॥ १९६.३॥
सम्भावयामास स तं यवनेशो ह्यनात्मजम् ।
तद्योषित्संगमाच्चास्य पुत्रोऽभूद् अलिसप्रभः ॥ १९६.४॥
तं कालयवनं नाम राज्ये स्वे यवनेश्वरः ।
अभिषिच्य वनं यातो वज्राग्रकठिनोरसम् ॥ १९६.५॥
स तु वीर्यमदोन्मत्तः पृथिव्यां बलिनो नृपान् ।
पप्रच्छ नारदश्चास्मै कथयामास यादवान् ॥ १९६.६॥
म्लेच्छकोटिसहस्राणां सहस्रैः सोऽपि संवृतः ।
गजाश्वरथसम्पन्नैश्चकार परमोद्यमम् ॥ १९६.७॥
प्रययौ चातवच्छिन्नैः प्रयाणैः स दिने दिने ।
यादवान् प्रति सामर्षो मुनयो मथुरां पुरीम् ॥ १९६.८॥
कृष्णोऽपि चिन्तयामास क्षपितं यादवं बलम् ।
यवनेन समालोक्य मागधः सम्प्रयास्यति ॥ १९६.९॥
मागधस्य बलं क्षीणं स कालयवनो बली ।
हन्ता तद् इदमायातं यदूनां व्यसनं द्विधा ॥ १९६.१०॥
तस्माद् दुर्गं करिष्यामि यदूनामतिदुर्जयम् ।
स्त्रियोऽपि यत्र युध्येयुः किं पुनर्वृष्णियादवाः ॥ १९६.११॥
मयि मत्ते प्रमत्ते वा सुप्ते प्रवसितेऽपि वा ।
यादवाभिभवं दुष्टा मा कुर्वन् वैरिणोऽधिकम् ॥ १९६.१२॥
इति संचिन्त्य गोविन्दो योजनानि महोदधिम् ।
ययाचे द्वादश पुरीं द्वारकां तत्र निर्ममे ॥ १९६.१३॥
महोद्यानां महावप्रां तडागशतशोभिताम् ।
प्राकारशतसम्बाधामिन्द्रस्येवामरावतीम् ॥ १९६.१४॥
मथुरावासिनं लोकं तत्रानीय जनार्दनः ।
आसन्ने कालयवने मथुरां च स्वयं ययौ ॥ १९६.१५॥
बहिरावासिते सैन्ये मथुराया निरायुधः ।
निर्जगाम स गोविन्दो ददर्श यवनश्च तम् ॥ १९६.१६॥
स ज्ञात्वा वासुदेवं तं बाहुप्रहरणो नृपः ।
अनुयातो महायोगि+ ॅहेतोभिः प्राप्यते न यः ॥ १९६.१७॥
तेनानुयातः कृष्णोऽपि प्रविवेश महागुहाम् ।
यत्र शेते महावीर्यो मुचुकुन्दो नरेश्वरः ॥ १९६.१८॥
सोऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नरम् ।
पादेन ताडयामास कृष्णं मत्वा स दुर्मतिः ॥ १९६.१९॥
दृष्टमात्रश्च तेनासौ जज्वाल यवनोऽग्निना ।
तत्क्रोधजेन मुनयो भस्मीभूतश्च तत्क्षणात् ॥ १९६.२०॥
स हि देवासुरे युद्धे गत्वा जित्वा महासुरान् ।
निद्रार्तः सुमहाकालं निद्रां वव्रे वरं सुरान् ॥ १९६.२१॥
प्रोक्तश्च देवैः संसुप्तं यस्त्वामुत्थापयिष्यति ।
देहजेनाग्निना सद्यः स तु भस्मीभविष्यति ॥ १९६.२२॥
एवं दग्ध्वा स तं पापं दृष्ट्वा च मधुसूदनम् ।
कस्त्वमित्याह सोऽप्याह जातोऽहं शशिनः कुले ॥ १९६.२३॥
वसुदेवस्य तनयो यदुवंशसमुद्भवः ।
मुचुकुन्दोऽपि तच्छ्रुत्वा वृद्धगार्ग्यवचः स्मरन् ॥ १९६.२४॥
संस्मृत्य प्रणिपत्यैनं सर्वं सर्वेश्वरं हरिम् ।
प्राह ज्ञातो भवान् विष्णोरंशस्त्वं परमेश्वरः ॥ १९६.२५॥
पुरा गार्ग्येण कथितमष्टाविंशतिमे युगे ।
द्वापरान्ते हरेर्जन्म यदुवंशे भविष्यति ॥ १९६.२६॥
स त्वं प्राप्तो न संदेहो मर्त्यानामुपकारकृत् ।
तथा हि सुमहत् तेजो नालं सोढुमहं तव ॥ १९६.२७॥
तथा हि सुमहाम्भोद+ ।
ध्वनिधीरतरं ततः ।
वाक्यं तमिति होवाच युष्मत्पादसुलालितम् ॥ १९६.२८॥
देवासुरे महायुद्धे दैत्याश्च सुमहाभटाः ।
न शेकुस्ते महत् तेजस्तत् तेजो न सहाम्यहम् ॥ १९६.२९॥
संसारपतितस्यैको जन्तोस्त्वं शरणं परम् ।
सम्प्रसीद प्रपन्नार्ति+ अर्ता हर ममाशुभम् ॥ १९६.३०॥