अध्याय 195, Verse 1
व्यास उवाच ।
जरासंधसुते कंस उपयेमे महाबलः ।
अस्तिः प्राप्तिश्च भो विप्रास्तयोर्भर्तृहणं हरिम् ॥ १९५.१॥
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
जरासंधसुते कंस उपयेमे महाबलः ।
अस्तिः प्राप्तिश्च भो विप्रास्तयोर्भर्तृहणं हरिम् ॥ १९५.१॥
महाबलपरीवारो मागधाधिपतिर्बली ।
हन्तुमभ्याययौ कोपाज्जरासंधः सयादवम् ॥ १९५.२॥
उपेत्य मथुरां सोऽथ रुरोध मगधेश्वरः ।
अक्षौहिणीभिः सैन्यस्य त्रयोविंशतिभिर्वृतः ॥ १९५.३॥
निष्क्रम्याल्पपरीवारावुभौ रामजनार्दनौ ।
युयुधाते समं तस्य बलिनौ बलिसैनिकैः ॥ १९५.४॥
ततो बलश्च कृष्णश्च मतिं चक्रे महाबलः ।
आयुधानां पुराणानामादाने मुनिसत्तमाः ॥ १९५.५॥
अनन्तरं चक्रशार्ङ्गे तूणौ चाप्यक्षयौ शरैः ।
आकाशाद् आगतौ वीरौ तदा कौमोदकी गदा ॥ १९५.६॥
हलं च बलभद्रस्य गगनाद् आगमत् करम् ।
बलस्याभिमतं विप्राः सुनन्दं मुशलं तथा ॥ १९५.७॥
ततो युद्धे पराजित्य स्वसैन्यं मगधाधिपम् ।
पुरीं विविशतुर्वीरावुभौ रामजनार्दनौ ॥ १९५.८॥
जिते तस्मिन् सुदुर्वृत्ते जरासंधे द्विजोत्तमाः ।
जीवमाने गते तत्र कृष्णो मेने न तं जितम् ॥ १९५.९॥
पुनरप्याजगामाथ जरासंधो बलान्वितः ।
जितश्च रामकृष्णाभ्यामपकृत्य द्विजोत्तमाः ॥ १९५.१०॥
दश चाष्टौ च संग्रामान् एवमत्यन्तदुर्मदः ।
यदुभिर्मागधो राजा चक्रे कृष्णपुरोगमैः ॥ १९५.११॥
सर्वेष्वेव च युद्धेषु यदुभिः स पराजितः ।
अपक्रान्तो जरासंधः स्वल्पसैन्यैर्बलाधिकः ॥ १९५.१२॥
तद् बलं यादवानां वै रक्षितं यद् अनेकशः ।
तत् तु संनिधिमाहात्म्यं विष्णोरंशस्य चक्रिणः ॥ १९५.१३॥
मनुष्यधर्मशीलस्य लीला सा जगतः पतेः ।
अस्त्राण्यनेकरूपाणि यद् अरातिषु मुञ्चति ॥ १९५.१४॥
मनसैव जगत्सृष्टि+ ।
संहारं तु करोति यः ।
तस्यारिपक्षक्षपणे कियान् उद्यमविस्तरः ॥ १९५.१५॥
तथापि च मनुष्याणां धर्मस्तदनुवर्तनम् ।
कुर्वन् बलवता संधिं हीनैर्युद्धं करोत्यसौ ॥ १९५.१६॥
साम चोपप्रदानं च तथा भेदं च दर्शयन् ।
करोति दण्डपातं च क्वचिद् एव पलायनम् ॥ १९५.१७॥
मनुष्यदेहिनां चेष्टामित्येवमनुवर्तते ।
लीला जगत्पतेस्तस्य *च्छन्दतः सम्प्रवर्तते ॥ १९५.१८॥