अध्याय 194, Verse 1
व्यास उवाच ।
तौ समुत्पन्नविज्ञानौ भगवत्कर्मदर्शनात् ।
देवकीवसुदेवौ तु दृष्ट्वा मायां पुनर्हरिः ॥ १९४.१॥
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
तौ समुत्पन्नविज्ञानौ भगवत्कर्मदर्शनात् ।
देवकीवसुदेवौ तु दृष्ट्वा मायां पुनर्हरिः ॥ १९४.१॥
मोहाय यदुचक्रस्य विततान स वैष्णवीम् ।
उवाच चाम्ब भोस्तात चिराद् उत्कण्ठितेन तु ॥ १९४.२॥
भवन्तौ कंसभीतेन दृष्टौ संकर्षणेन च ।
कुर्वतां याति यः कालो मातापित्रोरपूजनम् ॥ १९४.३॥
स वृथा क्लेशकारी वै साधूनामुपजायते ।
गुरुदेवद्विजातीनां मातापित्रोश्च पूजनम् ॥ १९४.४॥
कुर्वतः सफलं जन्म देहिनस्तात जायते ।
तत् क्षन्तव्यमिदं सर्वमतिक्रमकृतं पितः ।
कंसवीर्यप्रतापाभ्यामावयोः परवश्ययोः ॥ १९४.५॥
व्यास उवाच ।
इत्युक्त्वाथ प्रणम्योभौ यदुवृद्धान् अनुक्रमात् ।
पादानतिभिः सस्नेहं चक्रतुः पौरमानसम् ॥ १९४.६॥
कंसपत्न्यस्ततः कंसं परिवार्य हतं भुवि ।
विलेपुर्मातरश्चास्य शोकदुःखपरिप्लुताः ॥ १९४.७॥
बहुप्रकारमस्वस्थाः पश्चात्तापातुरा हरिः ।
ताः समाश्वासयामास स्वयमस्राविलेक्षणः ॥ १९४.८॥
उग्रसेनं ततो बन्धान् मुमोच मधुसूदनः ।
अभ्यषिञ्चत् तथैवैनं निजराज्ये हतात्मजम् ॥ १९४.९॥
राज्येऽभिषिक्तः कृष्णेन यदुसिंहः सुतस्य सः ।
चकार प्रेतकार्याणि ये चान्ये तत्र घातिताः ॥ १९४.१०॥
कृतोर्ध्वदैहिकं चैनं सिंहासनगतं हरिः ।
उवाचाज्ञापय विभो यत् कार्यमविशङ्कया ॥ १९४.११॥
ययातिशापाद् वंशोऽयमराज्यार्होऽपि साम्प्रतम् ।
मयि भृत्ये स्थिते देवान् आज्ञापयतु किं नृपैः ॥ १९४.१२॥
इत्युक्त्वा चोग्रसेनं तु वायुं प्रति जगाद ह ।
नृवाचा चैव भगवान् केशवः कार्यमानुषः ॥ १९४.१३॥
श्रीकृष्ण उवाच ।
गच्छेन्द्रं ब्रूहि वायो त्वमलं गर्वेण वासव ।
दीयतामुग्रसेनाय सुधर्मा भवता सभा ॥ १९४.१४॥
कृष्णो ब्रवीति राजार्हमेतद् रत्नमनुत्तमम् ।
सुधर्माख्या सभा युक्तमस्यां यदुभिरासितुम् ॥ १९४.१५॥
व्यास उवाच ।
इत्युक्तः पवनो गत्वा सर्वमाह शचीपतिम् ।
ददौ सोऽपि सुधर्माख्यां सभां वायोः पुरंदरः ॥ १९४.१६॥
वायुना चाहृतां दिव्यां ते सभां यदुपुंगवाः ।
बुभुजुः सर्वरत्नाढ्यां गोविन्दभुजसंश्रयाः ॥ १९४.१७॥
विदिताखिलविज्ञानौ सर्वज्ञानमयावपि ।
शिष्याचार्यक्रमं वीरौ ख्यापयन्तौ यदूत्तमौ ॥ १९४.१८॥
ततः सांदीपनिं काश्यमवन्तिपुरवासिनम् ।
अस्त्रार्थं जग्मतुर्वीरौ बलदेवजनार्दनौ ॥ १९४.१९॥
तस्य शिष्यत्वमभ्येत्य गुरुवृत्तिपरौ हि तौ ।
दर्शयां चक्रतुर्वीरावाचारमखिले जने ॥ १९४.२०॥
सरहस्यं धनुर्वेदं ससंग्रहमधीयताम् ।
अहोरात्रैश्चतुःषष्ट्या तद् अद्भुतमभूद् द्विजाः ॥ १९४.२१॥
सांदीपनिरसम्भाव्यं तयोः कर्मातिमानुषम् ।
विचिन्त्य तौ तदा मेने प्राप्तौ चन्द्रदिवाकरौ ॥ १९४.२२॥
अस्त्रग्राममशेषं च प्रोक्तमात्रमवाप्य तौ ।
ऊचतुर्व्रियतां या ते दातव्या गुरुदक्षिणा ॥ १९४.२३॥
सोऽप्यतीन्द्रियमालोक्य तयोः कर्म महामतिः ।
अयाचत मृतं पुत्रं प्रभासे लवणार्णवे ॥ १९४.२४॥
गृहीतास्त्रौ ततस्तौ तु गत्वा तं लवणोदधिम् ।
ऊचुतुश्च गुरोः पुत्रो दीयतामिति सागरम् ॥ १९४.२५॥
कृताञ्जलिपुटश्चाब्धिस्तावथ द्विजसत्तमाः ।
उवाच न मया पुत्रो हृतः सांदीपनेरिति ॥ १९४.२६॥
दैत्यः पञ्चजनो नाम शङ्खरूपः स बालकम् ।
जग्राह सोऽस्ति सलिले ममैवासुरसूदन ॥ १९४.२७॥
इत्युक्तोऽन्तर्जलं गत्वा हत्वा पञ्चजनं तथा ।
कृष्णो जग्राह तस्यास्थि+ ।
प्रभवं शङ्खमुत्तमम् ॥ १९४.२८॥
यस्य नादेन दैत्यानां बलहानिः प्रजायते ।
देवानां वर्धते तेजो यात्यधर्मश्च संक्षयम् ॥ १९४.२९॥
तं पाञ्चजन्यमापूर्य गत्वा यमपुरीं हरिः ।
बलदेवश्च बलवाञ् जित्वा वैवस्वतं यमम् ॥ १९४.३०॥