अध्याय 193, Verse 1
व्यास उवाच ।
राजमार्गे ततः कृष्णः सानुलेपनभाजनाम् ।
ददर्श कुब्जामायान्तीं नवयौवनगोचराम् ॥ १९३.१॥
Containing 90 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
राजमार्गे ततः कृष्णः सानुलेपनभाजनाम् ।
ददर्श कुब्जामायान्तीं नवयौवनगोचराम् ॥ १९३.१॥
तामाह ललितं कृष्णः कस्येदमनुलेपनम् ।
भवत्या नीयते सत्यं वदेन्दीवरलोचने ॥ १९३.२॥
सकामेनैव सा प्रोक्ता सानुरागा हरिं प्रति ।
प्राह सा ललितं कुब्जा ददर्श च बलात् ततः ॥ १९३.३॥
कुब्जोवाच ।
कान्त कस्मान् न जानासि कंसेनापि नियोजिता ।
नैकवक्रेति विख्यातामनुलेपनकर्मणि ॥ १९३.४॥
नान्यपिष्टं हि कंसस्य प्रीतये ह्यनुलेपनम् ।
भवत्यहमतीवास्य प्रसादधनभाजनम् ॥ १९३.५॥
श्रीकृष्ण उवाच ।
सुगन्धमेतद् राजार्हं रुचिरं रुचिरानने ।
आवयोर्गात्रसदृशं दीयतामनुलेपनम् ॥ १९३.६॥
व्यास उवाच ।
श्रुत्वा तमाह सा कृष्णं गृह्यतामिति सादरम् ।
अनुलेपं च प्रददौ गात्रयोग्यमथोभयोः ॥ १९३.७॥
भक्तिच्छेदानुलिप्ताङ्गौ ततस्तौ पुरुषर्षभौ ।
सेन्द्रचापौ विराजन्तौ सितकृष्णाविवाम्बुदौ ॥ १९३.८॥
ततस्तां चिबुके शौरिरुल्लापनविधानवित् ।
उल्लाप्य तोलयामास द्व्यङ्गुलेनाग्रपाणिना ॥ १९३.९॥
चकर्ष पद्भ्यां च तदा ऋजुत्वं केशवोऽनयत् ।
ततः सा ऋजुतां प्राप्ता योषितामभवद् वरा ॥ १९३.१०॥
विलासललितं प्राह प्रेमगर्भभरालसम् ।
वस्त्रे प्रगृह्य गोविन्दं व्रज गेहं ममेति वै ॥ १९३.११॥
आयास्ये भवतीगेहमिति तां प्राह केशवः ।
विससर्ज जहासोच्चै रामस्यालोक्य चाननम् ॥ १९३.१२॥
भक्तिच्छेदानुलिप्ताङ्गौ नीलपीताम्बरावुभौ ।
धनुःशालां ततो यातौ चित्रमाल्योपशोभितौ ॥ १९३.१३॥
अध्यास्य च धनूरत्नं ताभ्यां पृष्टैस्तु रक्षिभिः ।
आख्यातं सहसा कृष्णो गृहीत्वापूरयद् धनुः ॥ १९३.१४॥
ततः पूरयता तेन भज्यमानं बलाद् धनुः ।
चकारातिमहाशब्दं मथुरा तेन पूरिता ॥ १९३.१५॥
अनुयुक्तौ ततस्तौ च भग्ने धनुषि रक्षिभिः ।
रक्षिसैन्यं निकृत्योभौ निष्क्रान्तौ कार्मुकालयात् ॥ १९३.१६॥
अक्रूरागमवृत्तान्तमुपलभ्य तथा धनुः ।
भग्नं श्रुत्वाथ कंसोऽपि प्राह चाणूरमुष्टिकौ ॥ १९३.१७॥
कंस उवाच ।
गोपालदारकौ प्राप्तौ भवद्भ्यां तौ ममाग्रतः ।
मल्लयुद्धेन हन्तव्यौ मम प्राणहरौ हि तौ ॥ १९३.१८॥
नियुद्धे तद्विनाशेन भवद्भ्यां तोषितो ह्यहम् ।
दास्याम्यभिमतान् कामान् नान्यथैतन् महाबलौ ॥ १९३.१९॥
न्यायतोऽन्यायतो वापि भवद्भ्यां तौ ममाहितौ ।
हन्तव्यौ तद्वधाद् राज्यं सामान्यं वो भविष्यति ॥ १९३.२०॥
व्यास उवाच ।
इत्यादिश्य स तौ मल्लौ ततश्चाहूय हस्तिपम् ।
प्रोवाचोच्चैस्त्वया मत्तः समाजद्वारि कुञ्जरः ॥ १९३.२१॥
स्थाप्यः कुवलयापीडस्तेन तौ गोपदारकौ ।
घातनीयौ नियुद्धाय रङ्गद्वारमुपागतौ ॥ १९३.२२॥
तमाज्ञाप्याथ दृष्ट्वा च मञ्चान् सर्वान् उपाहृतान् ।
आसन्नमरणः कंसः सूर्योदयमुदैक्षत ॥ १९३.२३॥
ततः समस्तमञ्चेषु नागरः स तदा जनः ।
राजमञ्चेषु चारूढाः सह भृत्यैर्महीभृतः ॥ १९३.२४॥
मल्लप्राश्निकवर्गश्च रङ्गमध्ये समीपगः ।
कृतः कंसेन कंसोऽपि तुङ्गमञ्चे व्यवस्थितः ॥ १९३.२५॥
अन्तःपुराणां मञ्चाश्च यथान्ये परिकल्पिताः ।
अन्ये च वारमुख्यानामन्ये नगरयोषिताम् ॥ १९३.२६॥
नन्दगोपादयो गोपा मञ्चेष्वन्येष्ववस्थिताः ।
अक्रूरवसुदेवौ च मञ्चप्रान्ते व्यवस्थितौ ॥ १९३.२७॥
नगरीयोषितां मध्ये देवकी पुत्रगर्धिनी ।
अन्तकालेऽपि पुत्रस्य द्रक्ष्यामीति मुखं स्थिता ॥ १९३.२८॥
वाद्यमानेषु तूर्येषु चाणूरे चातिवल्गति ।
हाहाकारपरे लोक आस्फोटयति मुष्टिके ॥ १९३.२९॥
हत्वा कुवलयापीडं हस्त्यारोहप्रचोदितम् ।
मदासृगनुलिप्ताङ्गौ गजदन्तवरायुधौ ॥ १९३.३०॥