अध्याय 192, Verse 1
व्यास उवाच ।
चिन्तयन्न् इति गोविन्दमुपगम्य स यादवः ।
अक्रूरोऽस्मीति चरणौ ननाम शिरसा हरेः ॥ १९२.१॥
Containing 86 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
चिन्तयन्न् इति गोविन्दमुपगम्य स यादवः ।
अक्रूरोऽस्मीति चरणौ ननाम शिरसा हरेः ॥ १९२.१॥
सोऽप्येनं ध्वजवज्राब्ज+ ।
कृतचिह्नेन पाणिना ।
संस्पृश्याकृष्य च प्रीत्या सुगाढं परिषस्वजे ॥ १९२.२॥
कृतसंवदनौ तेन यथावद् बलकेशवौ ।
ततः प्रविष्टौ सहसा तमादायात्ममन्दिरम् ॥ १९२.३॥
सह ताभ्यां तदाक्रूरः कृतसंवन्दनादिकः ।
भुक्तभोज्यो यथान्यायमाचचक्षे ततस्तयोः ॥ १९२.४॥
यथा निर्भर्त्सितस्तेन कंसेनानकदुन्दुभिः ।
यथा च देवकी देवी दानवेन दुरात्मना ॥ १९२.५॥
उग्रसेने यथा कंसः स दुरात्मा च वर्तते ।
यं चैवार्थं समुद्दिश्य कंसेन स विसर्जितः ॥ १९२.६॥
तत् सर्वं विस्तराच्छ्रुत्वा भगवान् केशिसूदनः ।
उवाचाखिलमेतत् तु ज्ञातं दानपते मया ॥ १९२.७॥
करिष्ये च महाभाग यद् अत्रौपायिकं मतम् ।
विचिन्त्यं नान्यथैतत् ते विद्धि कंसं हतं मया ॥ १९२.८॥
अहं रामश्च मथुरां श्वो यास्यावः समं त्वया ।
गोपवृद्धाश्च यास्यन्ति आदायोपायनं बहु ॥ १९२.९॥
निशेयं नीयतां वीर न चिन्तां कर्तुमर्हसि ।
त्रिरात्राभ्यन्तरे कंसं हनिष्यामि सहानुगम् ॥ १९२.१०॥
व्यास उवाच ।
समादिश्य ततो गोपान् अक्रूरोऽपि सकेशवः ।
सुष्वाप बलभद्रश्च नन्दगोपगृहे गतः ॥ १९२.११॥
ततः प्रभाते विमले रामकृष्णौ महाबलौ ।
अक्रूरेण समं गन्तुमुद्यतौ मथुरां पुरीम् ॥ १९२.१२॥
दृष्ट्वा गोपीजनः सास्रः श्लथद्वलयबाहुकः ।
निश्वसंश्चातिदुःखार्तः प्राह चेदं परस्परम् ॥ १९२.१३॥
मथुरां प्राप्य गोविन्दः कथं गोकुलमेष्यति ।
नागरस्त्रीकलालाप+ ंअधु श्रोत्रेण पास्यति ॥ १९२.१४॥
विलासिवाक्यजातेषु नागरीणां कृतास्पदम् ।
चित्तमस्य कथं ग्राम्य+ ।
गोपगोपीषु यास्यति ॥ १९२.१५॥
सारं समस्तगोष्ठस्य विधिना हरता हरिम् ।
प्रहृतं गोपयोषित्सु निघृणेन दुरात्मना ॥ १९२.१६॥
भावगर्भस्मितं वाक्यं विलासललिता गतिः ।
नागरीणामतीवैतत् कटाक्षेक्षितमेव तु ॥ १९२.१७॥
ग्राम्यो हरिरयं तासां विलासनिगडैर्यतः ।
भवतीनां पुनः पार्श्वं कया युक्त्या समेष्यति ॥ १९२.१८॥
एषो हि रथमारुह्य मथुरां याति केशवः ।
अक्रूरक्रूरकेणापि हताशेन प्रतारितः ॥ १९२.१९॥
किं न वेत्ति नृशंसोऽयमनुरागपरं जनम् ।
येनेममक्षराह्लादं नयत्यन्यत्र नो हरिम् ॥ १९२.२०॥
एष रामेण सहितः प्रयात्यत्यन्तनिर्घृणः ।
रथमारुह्य गोविन्दस्त्वर्यतामस्य वारणे ॥ १९२.२१॥
गुरूणामग्रतो वक्तुं किं ब्रवीषि न नः क्षमम् ।
गुरवः किं करिष्यन्ति दग्धानां विरहाग्निना ॥ १९२.२२॥
नन्दगोपमुखा गोपा गन्तुमेते समुद्यताः ।
नोद्यमं कुरुते कश्चिद् गोविन्दविनिवर्तने ॥ १९२.२३॥
सुप्रभाताद्य रजनी मथुरावासियोषिताम् ।
यासामच्युतवक्त्राब्जे याति नेत्रालिभोग्यताम् ॥ १९२.२४॥
धन्यास्ते पथि ये कृष्णमितो यान्तमवारिताः ।
उद्वहिष्यन्ति पश्यन्तः स्वदेहं पुलकाञ्चितम् ॥ १९२.२५॥
मथुरानगरीपौर+ ंअयनानां महोत्सवः ।
गोविन्दवदनालोकाद् अतीवाद्य भविष्यति ॥ १९२.२६॥
को नु स्वप्नः सभाग्याभिर्दृष्टस्ताभिरधोक्षजम् ।
विस्तारिकान्तनयना या द्रक्ष्यन्त्यनिवारितम् ॥ १९२.२७॥
अहो गोपीजनस्यास्य दर्शयित्वा महानिधिम् ।
उद्धृतान्यद्य नेत्राणि विधात्राकरुणात्मना ॥ १९२.२८॥
अनुरागेण शैथिल्यमस्मासु व्रजतो हरेः ।
शैथिल्यमुपयान्त्याशु करेषु वलयान्यपि ॥ १९२.२९॥
अक्रूरः क्रूरहृदयः शीघ्रं प्रेरयते हयान् ।
एवमार्तासु योषित्सु घृणा कस्य न जायते ॥ १९२.३०॥