अध्याय 191, Verse 1
व्यास उवाच ।
अक्रूरोऽपि विनिष्क्रम्य स्यन्दनेनाशुगामिना ।
कृष्णसंदर्शनासक्तः प्रययौ नन्दगोकुले ॥ १९१.१॥
Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
अक्रूरोऽपि विनिष्क्रम्य स्यन्दनेनाशुगामिना ।
कृष्णसंदर्शनासक्तः प्रययौ नन्दगोकुले ॥ १९१.१॥
चिन्तयामास चाक्रूरो नास्ति धन्यतरो मया ।
योऽहमंशावतीर्णस्य मुखं द्रक्ष्यामि चक्रिणः ॥ १९१.२॥
अद्य मे सफलं जन्म सुप्रभाता च मे निशा ।
यद् उन्निद्राब्जपत्त्राक्षं विष्णोर्द्रक्ष्याम्यहम् मुखम् ॥ १९१.३॥
पापं हरति यत् पुंसां स्मृतं संकल्पनामयम् ।
तत् पुण्डरीकनयनं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥ १९१.४॥
निर्जग्मुश्च यतो वेदा वेदाङ्गान्यखिलानि च ।
द्रक्ष्यामि यत् परं धाम देवानां भगवन्मुखम् ॥ १९१.५॥
यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः ।
इज्यते योऽखिलाधारस्तं द्रक्ष्यामि जगत्पतिम् ॥ १९१.६॥
इष्ट्वा यमिन्द्रो यज्ञानां शतेनामरराजताम् ।
अवाप तमनन्तादिमहं द्रक्ष्यामि केशवम् ॥ १९१.७॥
न ब्रह्मा नेन्द्ररुद्राश्वि+ ।
वस्वादित्यमरुद्गणाः ।
यस्य स्वरूपं जानन्ति स्पृशत्यद्य स मे हरिः ॥ १९१.८॥
सर्वात्मा सर्वगः सर्वः सर्वभूतेषु संस्थितः ।
यो भवत्यव्ययो व्यापी स वीक्ष्यते मयाद्य ह ॥ १९१.९॥
मत्स्यकूर्मवराहाद्यैः सिंहरूपादिभिः स्थितम् ।
चकार योगतो योगं स मामालापयिष्यति ॥ १९१.१०॥
साम्प्रतं च जगत्स्वामी कार्यजाते व्रजे स्थितिम् ।
कर्तुं मनुष्यतां प्राप्तः स्वेच्छादेहधृग् अव्ययः ॥ १९१.११॥
योऽनन्तः पृथिवीं धत्ते शिखरस्थितिसंस्थिताम् ।
सोऽवतीर्णो जगत्यर्थे मामक्रूरेति वक्ष्यति ॥ १९१.१२॥
पितृबन्धुसुहृद्भ्रातृ+ ंआतृबन्धुमयीमिमाम् ।
यन्मायां नालमुद्धर्तुं जगत् तस्मै नमो नमः ॥ १९१.१३॥
तरन्त्यविद्यां विततां हृदि यस्मिन् निवेशिते ।
योगमायामिमां मर्त्यास्तस्मै विद्यात्मने नमः ॥ १९१.१४॥
यज्वभिर्यज्ञपुरुषो वासुदेवश्च शाश्वतैः ।
वेदान्तवेदिभिर्विष्णुः प्रोच्यते यो नतोऽस्मि तम् ॥ १९१.१५॥
तथा यत्र जगद् धाम्नि धार्यते च प्रतिष्ठितम् ।
सदसत्त्वं स सत्त्वेन मय्यसौ यातु सौम्यताम् ॥ १९१.१६॥
स्मृते सकलकल्याण+ ।
भाजनं यत्र जायते ।
पुरुषप्रवरं नित्यं व्रजामि शरणं हरिम् ॥ १९१.१७॥
व्यास उवाच ।
इत्थं स चिन्तयन् विष्णुं भक्तिनम्रात्ममानसः ।
अक्रूरो गोकुलं प्राप्तः किंचित् सूर्ये विराजति ॥ १९१.१८॥
स ददर्श तदा तत्र कृष्णमादोहने गवाम् ।
वत्समध्यगतं फुल्ल+ ंईलोत्पलदलच्छविम् ॥ १९१.१९॥
प्रफुल्लपद्मपत्त्राक्षं श्रीवत्साङ्कितवक्षसम् ।
प्रलम्बबाहुमायाम+ ।
तुङ्गोरस्थलमुन्नसम् ॥ १९१.२०॥
सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम् ।
तुङ्गरक्तनखं पद्भ्यां धरण्यां सुप्रतिष्ठितम् ॥ १९१.२१॥
बिभ्राणं वाससी पीते वन्यपुष्पविभूषितम् ।
सान्द्रनीललताहस्तं सिताम्भोजावतंसकम् ॥ १९१.२२॥
हंसेन्दुकुन्दधवलं नीलाम्बरधरं द्विजाः ।
तस्यानु बलभद्रं च ददर्श यदुनन्दनम् ॥ १९१.२३॥
प्रांशुमुत्तुङ्गबाहुं च विकाशिमुखपङ्कजम् ।
मेघमालापरिवृतं कैलासाद्रिमिवापरम् ॥ १९१.२४॥
तौ दृष्ट्वा विकसद्वक्त्र+ ।
सरोजः स महामतिः ।
पुलकाञ्चितसर्वाङ्गस्तदाक्रूरोऽभवद् द्विजाः ॥ १९१.२५॥
य एतत् परमं धाम एतत् तत् परमं पदम् ।
अभवद् वासुदेवोऽसौ द्विधा योऽयं व्यवस्थितः ॥ १९१.२६॥
साफल्यमक्ष्णोर्युगपन् ममास्तु ।
दृष्टे जगद्धातरि हासमुच्चैः ।
अप्यङ्गमेतद् भगवत्प्रसादाद् ।
दत्ताङ्गसङ्गे फलवर्त्म तत् स्यात् ॥ १९१.२७॥
अद्यैव स्पृष्ट्वा मम हस्तपद्मम् ।
करिष्यति श्रीमदनन्तमूर्तिः ।
यस्याङ्गुलिस्पर्शहताखिलाघैर् ।
अवाप्यते सिद्धिरनुत्तमा नरैः ॥ १९१.२८॥
तथाश्विरुद्रेन्द्रवसुप्रणीता ।
देवाः प्रयच्छन्ति वरं प्रहृष्टाः ।
चक्रं घ्नता दैत्यपतेर्हृतानि ।
दैत्याङ्गनानां नयनान्तराणि ॥ १९१.२९॥
यत्राम्बु विन्यस्य बलिर्मनोभ्याम् ।
अवाप भोगान् वसुधातलस्थः ।
तथामरेशस्त्रिदशाधिपत्यम् ।
मन्वन्तरं पूर्णमवाप शक्रः ॥ १९१.३०॥