अध्याय 190, Verse 1
व्यास उवाच ।
ककुद्मिनि हतेऽरिष्टे धेनुके च निपातिते ।
प्रलम्बे निधनं नीते धृते गोवर्धनाचले ॥ १९०.१॥
Containing 48 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
ककुद्मिनि हतेऽरिष्टे धेनुके च निपातिते ।
प्रलम्बे निधनं नीते धृते गोवर्धनाचले ॥ १९०.१॥
दमिते कालिये नागे भग्ने तुङ्गद्रुमद्वये ।
हतायां पूतनायां च शकटे परिवर्तिते ॥ १९०.२॥
कंसाय नारदः प्राह यथावृत्तमनुक्रमात् ।
यशोदादेवकीगर्भ+ ।
परिवर्ताद्यशेषतः ॥ १९०.३॥
श्रुत्वा तत् सकलं कंसो नारदाद् देवदर्शनात् ।
वसुदेवं प्रति तदा कोपं चक्रे स दुर्मतिः ॥ १९०.४॥
सोऽतिकोपाद् उपालभ्य सर्वयादवसंसदि ।
जगर्हे यादवांश्चापि कार्यं चैतद् अचिन्तयत् ॥ १९०.५॥
यावन् न बलमारूढौ बलकृष्णौ सुबालकौ ।
तावद् एव मया वध्यावसाध्यौ रूढयौवनौ ॥ १९०.६॥
चाणूरोऽत्र महावीर्यो मुष्टिकश्च महाबलः ।
एताभ्यां मल्लयुद्धे तौ घातयिष्यामि दुर्मदौ ॥ १९०.७॥
धनुर्महमहायाग+ ।
व्याजेनानीय तौ व्रजात् ।
तथा तथा करिष्यामि यास्यतः संक्षयं यथा ॥ १९०.८॥
व्यास उवाच ।
इत्यालोच्य स दुष्टात्मा कंसो रामजनार्दनौ ।
हन्तुं कृतमतिर्वीरमक्रूरं वाक्यमब्रवीत् ॥ १९०.९॥
कंस उवाच ।
भो भो दानपते वाक्यं क्रियतां प्रीतये मम ।
इतः स्यन्दनमारुह्य गम्यतां नन्दगोकुलम् ॥ १९०.१०॥
वसुदेवसुतौ तत्र विष्णोरंशसमुद्भवौ ।
नाशाय किल सम्भूतौ मम दुष्टौ प्रवर्धतः ॥ १९०.११॥
धनुर्महमहायागश्चतुर्दश्यां भविष्यति ।
आनेयौ भवता तौ तु मल्लयुद्धाय तत्र वै ॥ १९०.१२॥
चाणूरमुष्टिकौ मल्लौ नियुद्धकुशलौ मम ।
ताभ्यां सहानयोर्युद्धं सर्वलोकोऽत्र पश्यतु ॥ १९०.१३॥
नागः कुवलयापीडो महामात्रप्रचोदितः ।
स तौ निहंस्यते पापौ वसुदेवात्मजौ शिशू ॥ १९०.१४॥
तौ हत्वा वसुदेवं च नन्दगोपं च दुर्मतिम् ।
हनिष्ये पितरं चैव उग्रसेनं च दुर्मतिम् ॥ १९०.१५॥
ततः समस्तगोपानां गोधनान्यखिलान्यहम् ।
वित्तं चापहरिष्यामि दुष्टानां मद्वधैषिणाम् ॥ १९०.१६॥
त्वाम् ऋते यादवाश्चेमे दुष्टा दानपते मम ।
एतेषां च वधायाहं प्रयतिष्याम्यनुक्रमात् ॥ १९०.१७॥
ततो निष्कण्टकं सर्वं राज्यमेतद् अयादवम् ।
प्रसाधिष्ये त्वया तस्मान् मत्प्रीत्या वीर गम्यताम् ॥ १९०.१८॥
यथा च माहिषं सर्पिर्दधि चाप्युपहार्य वै ।
गोपाः समानयन्त्याशु त्वया वाच्यास्तथा तथा ॥ १९०.१९॥
व्यास उवाच ।
इत्याज्ञप्तस्तदाक्रूरो महाभागवतो द्विजाः ।
प्रीतिमान् अभवत् कृष्णं श्वो द्रक्ष्यामीति सत्वरः ॥ १९०.२०॥
तथेत्युक्त्वा तु राजानं रथमारुह्य सत्वरः ।
निश्चक्राम तदा पुर्या मथुराया मधुप्रियः ॥ १९०.२१॥
व्यास उवाच ।
केशी चापि बलोदग्रः कंसदूतः प्रचोदितः ।
कृष्णस्य निधनाकाङ्क्षी वृन्दावनमुपागमत् ॥ १९०.२२॥
स खुरक्षतभूपृष्ठः सटाक्षेपधुताम्बुदः ।
पुनर्विक्रान्तचन्द्रार्क+ ंआर्गो गोपान्तमागमत् ॥ १९०.२३॥
तस्य ह्रेषितशब्देन गोपाला दैत्यवाजिनः ।
गोप्यश्च भयसंविग्ना गोविन्दं शरणं ययुः ॥ १९०.२४॥
त्राहि त्राहीति गोविन्दस्तेषां श्रुत्वा तु तद्वचः ।
सतोयजलदध्वान+ ।
गम्भीरमिदमुक्तवान् ॥ १९०.२५॥
गोविन्द उवाच ।
अलं त्रासेन गोपालाः केशिनः किं भयातुरैः ।
भवद्भिर्गोपजातीयैर्वीरवीर्यं विलोप्यते ॥ १९०.२६॥
किमनेनाल्पसारेण ह्रेषितारोपकारिणा ।
दैतेयबलवाह्येन वल्गता दुष्टवाजिना ॥ १९०.२७॥
एह्येहि दुष्ट कृष्णोऽहं पूष्णस्त्विव पिनाकधृक् ।
पातयिष्यामि दशनान् वदनाद् अखिलांस्तव ॥ १९०.२८॥
व्यास उवाच ।
इत्युक्त्वा स तु गोविन्दः केशिनः सम्मुखं ययौ ।
विवृतास्यश्च सोऽप्येनं दैतेयश्च उपाद्रवत् ॥ १९०.२९॥
बाहुमाभोगिनं कृत्वा मुखे तस्य जनार्दनः ।
प्रवेशयामास तदा केशिनो दुष्टवाजिनः ॥ १९०.३०॥