अध्याय 19, Verse 1
लोमहर्षण उवाच ।
उत्तरेण समुद्रस्य हिमाद्रेश्चैव दक्षिणे ।
वर्षं तद् भारतं नाम भारती यत्र संततिः ॥ १९.१॥
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
लोमहर्षण उवाच ।
उत्तरेण समुद्रस्य हिमाद्रेश्चैव दक्षिणे ।
वर्षं तद् भारतं नाम भारती यत्र संततिः ॥ १९.१॥
नवयोजनसाहस्रो विस्तारश्च द्विजोत्तमाः ।
कर्मभूमिरियं स्वर्गमपवर्गं च पृच्छताम् ॥ १९.२॥
महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः ।
विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ॥ १९.३॥
अतः सम्प्राप्यते स्वर्गो मुक्तिमस्मात् प्रयाति वै ।
तिर्यक्त्वं नरकं चापि यान्त्यतः पुरुषा द्विजाः ॥ १९.४॥
इतः स्वर्गश्च मोक्षश्च मध्यं चान्ते च गच्छति ।
न खल्वन्यत्र मर्त्यानां कर्म भूमौ विधीयते ॥ १९.५॥
भारतस्यास्य वर्षस्य नव भेदान् निशामय ।
इन्द्रद्वीपः कसेतुमांस्ताम्रपर्णो गभस्तिमान् ॥ १९.६॥
नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ।
अयं तु नवमस्तेषां द्वीपः सागरसंवृतः ॥ १९.७॥
योजनानां सहस्रं च द्वीपोऽयं दक्षिणोत्तरात् ।
पूर्वे किरातास्तिष्ठन्ति पश्चिमे यवनाः स्थिताः ॥ १९.८॥
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः ।
इज्यायुद्धवणिज्याद्य+ ।
वृत्तिमन्तो व्यवस्थिताः ॥ १९.९॥
शतद्रुचन्द्रभागाद्या हिमवत्पादनिःसृताः ।
वेदस्मृतिमुखाश्चान्याः पारियात्रोद्भवा मुने ॥ १९.१०॥
नर्मदासुरमाद्याश्च नद्यो विन्ध्यविनिःसृताः ।
तापीपयोष्णीनिर्विन्ध्या+ ।
कावेरीप्रमुखा नदीः ॥ १९.११॥
ऋक्षपादोद्भवा ह्येताः श्रुताः पापं हरन्ति याः ।
गोदावरीभीमरथी+ ।
कृष्णवेण्यादिकास्तथा ॥ १९.१२॥
सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ।
कृतमालाताम्रपर्णी+ ।
प्रमुखा मलयोद्भवाः ॥ १९.१३॥
त्रिसांध्यर्षिकुल्याद्या महेन्द्रप्रभवाः स्मृताः ।
ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः ॥ १९.१४॥
आसां नद्युपनद्यश्च सन्त्यन्यास्तु सहस्रशः ।
तास्विमे कुरुपञ्चाल+ ंअध्यदेशादयो जनाः ॥ १९.१५॥
पूर्वदेशादिकाश्चैव कामरूपनिवासिनः ।
पौण्ड्राः कलिङ्गा मगधा दाक्षिणात्याश्च सर्वशः ॥ १९.१६॥
तथा परान्त्याः सौराष्ट्राः शूद्राभीरास्तथार्बुदाः ।
मारुका मालवाश्चैव पारियात्रनिवासिनः ॥ १९.१७॥
सौवीराः सैन्धवापन्नाः शाल्वाः शाकलवासिनः ।
मद्रारामास्तथाम्बष्ठाः पारसीकादयस्तथा ॥ १९.१८॥
आसां पिबन्ति सलिलं वसन्ति सरितां सदा ।
समोपेता महाभाग हृष्टपुष्टजनाकुलाः ॥ १९.१९॥
वसन्ति भारते वर्षे युगान्यत्र महामुने ।
कृतं त्रेता द्वापरं च कलिश्चान्यत्र न क्वचित् ॥ १९.२०॥
तपस्तप्यन्ति यतयो जुह्वते चात्र यज्विनः ।
दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥ १९.२१॥
पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते ।
यज्ञैर्यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा ॥ १९.२२॥
अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने ।
यतो हि कर्मभूरेषा यतोऽन्या भोगभूमयः ॥ १९.२३॥
अत्र जन्मसहस्राणां सहस्रैरपि सत्तम ।
कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसंचयन् ॥ १९.२४॥
गायन्ति देवाः किल गीतकानि ।
धन्यास्तु ये भारतभूमिभागे ।
स्वर्गापवर्गास्पदहेतुभूते ।
भवन्ति भूयः पुरुषा मनुष्याः ॥ १९.२५॥
कर्माण्यसंकल्पिततत्फलानि ।
संन्यस्य विष्णौ परमात्मरूपे ।
अवाप्य तां कर्ममहीमनन्ते ।
तस्मिंल्लयं ये त्वमलाः प्रयान्ति ॥ १९.२६॥
जानीम नो तत्कूवयं विलीने ।
स्वर्गप्रदे कर्मणि देहबन्धम् ।
प्राप्स्यन्ति धन्याः खलु ते मनुष्या ।
ये भारतेनेन्द्रियविप्रहीनाः ॥ १९.२७॥
नववर्षं च भो विप्रा जम्बूद्वीपमिदं मया ।
लक्षयोजनविस्तारं संक्षेपात् कथितं द्विजाः ॥ १९.२८॥
जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः ।
भो द्विजा वलयाकारः स्थितः क्षीरोदधिर्बहिः ॥ १९.२९॥