अध्याय 188, Verse 1
व्यास उवाच ।
महे प्रतिहते शक्रो भृशं कोपसमन्वितः ।
संवर्तकं नाम गणं तोयदानामथाब्रवीत् ॥ १८८.१॥
Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
महे प्रतिहते शक्रो भृशं कोपसमन्वितः ।
संवर्तकं नाम गणं तोयदानामथाब्रवीत् ॥ १८८.१॥
इन्द्र उवाच ।
भो भो मेघा निशम्यैतद् वदतो वचनं मम ।
आज्ञानन्तरमेवाशु क्रियतामविचारितम् ॥ १८८.२॥
नन्दगोपः सुदुर्बुद्धिर्गोपैरन्यैः सहायवान् ।
कृष्णाश्रयबलाध्मातो महभङ्गमचीकरत् ॥ १८८.३॥
आजीवो यः परं तेषां गोपत्वस्य च कारणम् ।
ता गावो वृष्टिपातेन पीड्यन्तां वचनान् मम ॥ १८८.४॥
अहमप्यद्रिशृङ्गाभं तुङ्गमारुह्य वारणम् ।
साहाय्यं वः करिष्यामि वायूनां संगमेन च ॥ १८८.५॥
व्यास उवाच ।
इत्याज्ञप्ताः सुरेन्द्रेण मुमुचुस्ते बलाहकाः ।
वातवर्षं महाभीममभावाय गवां द्विजाः ॥ १८८.६॥
ततः क्षणेन धरणी ककुभोऽम्बरमेव च ।
एकं धारामहासार+ ।
पूरणेनाभवद् द्विजाः ॥ १८८.७॥
गावस्तु तेन पतता वर्षवातेन वेगिना ।
धुताः प्राणाञ् जहुः सर्वास्तिर्यङ्मुखशिरोधराः ॥ १८८.८॥
क्रोडेन वत्सान् आक्रम्य तस्थुरन्या द्विजोत्तमाः ।
गावो विवत्साश्च कृता वारिपूरेण चापराः ॥ १८८.९॥
वत्साश्च दीनवदनाः पवनाकम्पिकंधराः ।
त्राहि त्राहीत्यल्पशब्दाः कृष्णमूचुरिवार्तकाः ॥ १८८.१०॥
ततस्तद् गोकुलं सर्वं गोगोपीगोपसंकुलम् ।
अतीवार्तं हरिर्दृष्ट्वा त्राणायाचिन्तयत् तदा ॥ १८८.११॥
एतत् कृतं महेन्द्रेण महभङ्गविरोधिना ।
तद् एतद् अखिलं गोष्ठं त्रातव्यमधुना मया ॥ १८८.१२॥
इममद्रिमहं वीर्याद् उत्पाट्योरुशिलातलम् ।
धारयिष्यामि गोष्ठस्य पृथुच्छत्त्रमिवोपरि ॥ १८८.१३॥
व्यास उवाच ।
इति कृत्वा मतिं कृष्णो गोवर्धनमहीधरम् ।
उत्पाट्यैककरेणैव धारयामास लीलया ॥ १८८.१४॥
गोपांश्चाह जगन्नाथः समुत्पाटितभूधरः ।
विशध्वमत्र सहिताः कृतं वर्षनिवारणम् ॥ १८८.१५॥
सुनिर्वातेषु देशेषु यथायोग्यमिहास्यताम् ।
प्रविश्य नात्र भेतव्यं गिरिपातस्य निर्भयैः ॥ १८८.१६॥
इत्युक्तास्तेन ते गोपा विविशुर्गोधनैः सह ।
शकटारोपितैर्भाण्डैर्गोप्यश्चासारपीडिताः ॥ १८८.१७॥
कृष्णोऽपि तं दधारैवं शैलमत्यन्तनिश्चलम् ।
व्रजौकोवासिभिर्हर्ष+ ।
विस्मिताक्षैर्निरीक्षितः ॥ १८८.१८॥
गोपगोपीजनैर्हृष्टैः प्रीतिविस्तारितेक्षणैः ।
संस्तूयमानचरितः कृष्णः शैलमधारयत् ॥ १८८.१९॥
सप्तरात्रं महामेघा ववर्षुर्नन्दगोकुले ।
इन्द्रेण चोदिता मेघा गोपानां नाशकारिणा ॥ १८८.२०॥
ततो धृते महाशैले परित्राते च गोकुले ।
मिथ्याप्रतिज्ञो बलभिद् वारयामास तान् घनान् ॥ १८८.२१॥
व्यभ्रे नभसि देवेन्द्रे वितथे शक्रमन्त्रिते ।
निष्क्रम्य गोकुलं हृष्टः स्वस्थानं पुनरागमत् ॥ १८८.२२॥
मुमोच कृष्णोऽपि तदा गोवर्धनमहागिरिम् ।
स्वस्थाने विस्मितमुखैर्दृष्टस्तैर्व्रजवासिभिः ॥ १८८.२३॥
व्यास उवाच ।
धृते गोवर्धने शैले परित्राते च गोकुले ।
रोचयामास कृष्णस्य दर्शनं पाकशासनः ॥ १८८.२४॥
सोऽधिरुह्य महानागमैरावतममित्रजित् ।
गोवर्धनगिरौ कृष्णं ददर्श त्रिदशाधिपः ॥ १८८.२५॥
चारयन्तं महावीर्यं गाश्च गोपवपुर्धरम् ।
कृत्स्नस्य जगतो गोपं वृतं गोपकुमारकैः ॥ १८८.२६॥
गरुडं च ददर्शोच्चैरन्तर्धानगतं द्विजाः ।
कृतच्छायं हरेर्मूर्ध्नि पक्षाभ्यां पक्षिपुंगवम् ॥ १८८.२७॥
अवरुह्य स नागेन्द्राद् एकान्ते मधुसूदनम् ।
शक्रः सस्मितमाहेदं प्रीतिविस्फारितेक्षणः ॥ १८८.२८॥
इन्द्र उवाच ।
कृष्ण कृष्ण शृणुष्वेदं यदर्थमहमागतः ।
त्वत्समीपं महाबाहो नैतच्चिन्त्यं त्वयान्यथा ॥ १८८.२९॥
भारावतरणार्धाय पृथिव्याः पृथिवीतलम् ।
अवतीर्णोऽखिलाधारस्त्वमेव परमेश्वर ॥ १८८.३०॥