अध्याय 187, Verse 1
व्यास उवाच ।
तस्मिन् रासभदैतेये सानुजे विनिपातिते ।
सर्वगोपालगोपीनां रम्यं तालवनं बभौ ॥ १८७.१॥
Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
तस्मिन् रासभदैतेये सानुजे विनिपातिते ।
सर्वगोपालगोपीनां रम्यं तालवनं बभौ ॥ १८७.१॥
ततस्तौ जातहर्षौ तु वसुदेवसुतावुभौ ।
शुशुभाते महात्मानौ बालशृङ्गाविवर्षभौ ॥ १८७.२॥
चारयन्तौ च गा दूरे व्याहरन्तौ च नामभिः ।
नियोगपाशस्कन्धौ तौ वनमालाविभूषितौ ॥ १८७.३॥
सुवर्णाञ्जनचूर्णाभ्यां तदा तौ भूषिताम्बरौ ।
महेन्द्रायुधसंकाशौ श्वेतकृष्णाविवाम्बुदौ ॥ १८७.४॥
चेरतुर्लोकसिद्धाभिः क्रीडाभिरितरेतरम् ।
समस्तलोकनाथानां नाथभूतौ भुवं गतौ ॥ १८७.५॥
मनुष्यधर्माभिरतौ मानयन्तौ मनुष्यताम् ।
तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम् ॥ १८७.६॥
ततस्त्वान्दोलिकाभिश्च नियुद्धैश्च महाबलौ ।
व्यायामं चक्रतुस्तत्र क्षेपणीयैस्तथाश्मभिः ॥ १८७.७॥
तल्लिप्सुरसुरस्तत्र उभयो रममाणयोः ।
आजगाम प्रलम्बाख्यो गोपवेषतिरोहितः ॥ १८७.८॥
सोऽवगाहत निःशङ्कं तेषां मध्यममानुषः ।
मानुषं रूपमास्थाय प्रलम्बो दानवोत्तमः ॥ १८७.९॥
तयोश्छिद्रान्तरप्रेप्सुरतिशीघ्रममन्यत ।
कृष्णं ततो रौहिणेयं हन्तुं चक्रे मनोरथम् ॥ १८७.१०॥
हरिणा क्रीडनं नाम बालक्रीडनकं ततः ।
प्रक्रीडितास्तु ते सर्वे द्वौ द्वौ युगपद् उत्पतन् ॥ १८७.११॥
श्रीदाम्ना सह गोविन्दः प्रलम्बेन तथा बलः ।
गोपालैरपरैश्चान्ये गोपालाः सह पुप्लुवुः ॥ १८७.१२॥
श्रीदामानं ततः कृष्णः प्रलम्बं रोहिणीसुतः ।
जितवान् कृष्णपक्षीयैर्गोपैरन्यैः पराजिताः ॥ १८७.१३॥
ते वाहयन्तस्त्वन्योन्यं भाण्डीरस्कन्धमेत्य वै ।
पुनर्निवृत्तास्ते सर्वे ये ये तत्र पराजिताः ॥ १८७.१४॥
संकर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः ।
न तस्थौ प्रजगामैव सचन्द्र इव वारिदः ॥ १८७.१५॥
अशक्तो वहने तस्य संरम्भाद् दानवोत्तमः ।
ववृधे सुमहाकायः प्रावृषीव बलाहकः ॥ १८७.१६॥
संकर्षणस्तु तं दृष्ट्वा दग्धशैलोपमाकृतिम् ।
स्रग्दामलम्बाभरणं मुकुटाटोपमस्तकम् ॥ १८७.१७॥
रौद्रं शकटचक्राक्षं पादन्यासचलत्क्षितिम् ।
ह्रियमाणस्ततः कृष्णमिदं वचनमब्रवीत् ॥ १८७.१८॥
बलराम उवाच ।
कृष्ण कृष्ण ह्रिये त्वेष पर्वतोदग्रमूर्तिना ।
केनापि पश्य दैत्येन गोपालच्छद्मरूपिणा ॥ १८७.१९॥
यद् अत्र साम्प्रतं कार्यं मया मधुनिषूदन ।
तत् कथ्यतां प्रयात्येष दुरात्मातित्वरान्वितः ॥ १८७.२०॥
व्यास उवाच ।
तमाह रामं गोविन्दः स्मितभिन्नौष्ठसम्पुटः ।
महात्मा रौहिणेयस्य बलवीर्यप्रमाणवित् ॥ १८७.२१॥
कृष्ण उवाच ।
किमयं मानुषो भावो व्यक्तमेवावलम्ब्यते ।
सर्वात्मन् सर्वगुह्यानां गुह्याद् गुह्यात्मना त्वया ॥ १८७.२२॥
स्मराशेषजगदीश कारणं कारणाग्रज ।
आत्मानमेकं तद्वच्च जगत्येकार्णवे च यः ॥ १८७.२३॥
भवान् अहं च विश्वात्मन्न् एकमेव हि कारणम् ।
जगतोऽस्य जगत्यर्थे भेदेनावां व्यवस्थितौ ॥ १८७.२४॥
तत् स्मर्यताममेयात्मंस्त्वयात्मा जहि दानवम् ।
मानुष्यमेवमालम्ब्य बन्धूनां क्रियतां हितम् ॥ १८७.२५॥
व्यास उवाच ।
इति संस्मारितो विप्राः कृष्णेन सुमहात्मना ।
विहस्य पीडयामास प्रलम्बं बलवान् बलः ॥ १८७.२६॥
मुष्टिना चाहन् मूर्ध्नि कोपसंरक्तलोचनः ।
तेन चास्य प्रहारेण बहिर्याते विलोचने ॥ १८७.२७॥
स निष्कासितमस्तिष्को मुखाच्छोणितमुद्वमन् ।
निपपात महीपृष्ठे दैत्यवर्यो ममार च ॥ १८७.२८॥
प्रलम्बं निहतं दृष्ट्वा बलेनाद्भुतकर्मणा ।
प्रहृष्टास्तुष्टुवुर्गोपाः साधु साध्विति चाब्रुवन् ॥ १८७.२९॥
संस्तूयमानो रामस्तु गोपैर्दैत्ये निपातिते ।
प्रलम्बे सह कृष्णेन पुनर्गोकुलमाययौ ॥ १८७.३०॥