अध्याय 186, Verse 1
व्यास उवाच ।
गाः पालयन्तौ च पुनः सहितौ रामकेशवौ ।
भ्रममाणौ वने तत्र रम्यं तालवनं गतौ ॥ १८६.१॥
Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
गाः पालयन्तौ च पुनः सहितौ रामकेशवौ ।
भ्रममाणौ वने तत्र रम्यं तालवनं गतौ ॥ १८६.१॥
तच्च तालवनं नित्यं धेनुको नाम दानवः ।
नृगोमांसकृताहारः सदाध्यास्ते खराकृतिः ॥ १८६.२॥
तत्र तालवनं रम्यं फलसम्पत्समन्वितम् ।
दृष्ट्वा स्पृहान्विता गोपाः फलादानेऽब्रुवन् वचः ॥ १८६.३॥
गोपा ऊचुः ।
हे राम हे कृष्ण सदा धेनुकेनैव रक्ष्यते ।
भूप्रदेशो यतस्तस्मात् त्यक्तानीमानि सन्ति वै ॥ १८६.४॥
फलानि पश्य तालानां गन्धमोदयुतानि वै ।
वयमेतान्यभीप्सामः पात्यन्तां यदि रोचते ॥ १८६.५॥
इति गोपकुमाराणां श्रुत्वा संकर्षणो वचः ।
कृष्णश्च पातयामास भुवि तालफलानि वै ॥ १८६.६॥
तालानां पततां शब्दमाकर्ण्यासुरराट् ततः ।
आजगाम स दुष्टात्मा कोपाद् दैतेयगर्दभः ॥ १८६.७॥
पद्भ्यामुभाभ्यां स तदा पश्चिमाभ्यां च तं बली ।
जघानोरसि ताभ्यां च स च तेनाप्यगृह्यत ॥ १८६.८॥
गृहीत्वा भ्रामणेनैव चाम्बरे गतजीवितम् ।
तस्मिन्न् एव प्रचिक्षेप वेगेन तृणराजनि ॥ १८६.९॥
ततः फलान्यनेकानि तालाग्रान् निपतन् खरः ।
पृथिव्यां पातयामास महावातोऽम्बुदान् इव ॥ १८६.१०॥
अन्यान् अप्यस्य वै ज्ञातीन् आगतान् दैत्यगर्दभान् ।
कृष्णश्चिक्षेप तालाग्रे बलभद्रश्च लीलया ॥ १८६.११॥
क्षणेनालंकृता पृथ्वी पक्वैस्तालफलैस्तदा ।
दैत्यगर्दभदेहैश्च मुनयः शुशुभेऽधिकम् ॥ १८६.१२॥
ततो गावो निराबाधास्तस्मिंस्तालवने द्विजाः ।
नवशष्पं सुखं चेरुर्यत्र भुक्तमभूत् पुरा ॥ १८६.१३॥