अध्याय 185, Verse 1
व्यास उवाच ।
एकदा तु विना रामं कृष्णो वृन्दावनं ययौ ।
विचचार वृतो गोपैर्वन्यपुष्पस्रगुज्ज्वलः ॥ १८५.१॥
Containing 56 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
एकदा तु विना रामं कृष्णो वृन्दावनं ययौ ।
विचचार वृतो गोपैर्वन्यपुष्पस्रगुज्ज्वलः ॥ १८५.१॥
स जगामाथ कालिन्दीं लोलकल्लोलशालिनीम् ।
तीरसंलग्नफेनौघैर्हसन्तीमिव सर्वतः ॥ १८५.२॥
तस्यां चातिमहाभीमं विषाग्निकणदूषितम् ।
ह्रदं कालीयनागस्य ददर्शातिविभीषणम् ॥ १८५.३॥
विषाग्निना विसरता दग्धतीरमहातरुम् ।
वाताहताम्बुविक्षेप+ ।
स्पर्शदग्धविहंगमम् ॥ १८५.४॥
तमतीव महारौद्रं मृत्युवक्त्रमिवापरम् ।
विलोक्य चिन्तयामास भगवान् मधुसूदनः ॥ १८५.५॥
अस्मिन् वसति दुष्टात्मा कालीयोऽसौ विषायुधः ।
यो मया निर्जितस्त्यक्त्वा दुष्टो नष्टः पयोनिधौ ॥ १८५.६॥
तेनेयं दूषिता सर्वा यमुना सागरंगमा ।
न नरैर्गोधनैर्वापि तृषार्तैरुपभुज्यते ॥ १८५.७॥
तद् अस्य नागराजस्य कर्तव्यो निग्रहो मया ।
नित्यत्रस्ताः सुखं येन चरेयुर्व्रजवासिनः ॥ १८५.८॥
एतदर्थं नृलोकेऽस्मिन्न् अवतारो मया कृतः ।
यद् एषामुत्पथस्थानां कार्या शास्तिर्दुरात्मनाम् ॥ १८५.९॥
तद् एतन् नातिदूरस्थं कदम्बमुरुशाखिनम् ।
अधिरुह्योत्पतिष्यामि ह्रदेऽस्मिञ् जीवनाशिनः ॥ १८५.१०॥
व्यास उवाच ।
इत्थं विचिन्त्य बद्ध्वा च गाढं परिकरं ततः ।
निपपात ह्रदे तत्र सर्पराजस्य वेगतः ॥ १८५.११॥
तेनापि पतता तत्र क्षोभितः स महाह्रदः ।
अत्यर्थदूरजातांश्च तांश्चासिञ्चन् महीरुहान् ॥ १८५.१२॥
तेऽहिदुष्टविषज्वाला+ ।
तप्ताम्बुतपनोक्षिताः ।
जज्वलुः पादपाः सद्यो ज्वालाव्याप्तदिगन्तराः ॥ १८५.१३॥
आस्फोटयामास तदा कृष्णो नागह्रदं भुजैः ।
तच्छब्दश्रवणाच्चाथ नागराजोऽभ्युपागमत् ॥ १८५.१४॥
आताम्रनयनः कोपाद् विषज्वालाकुलैः फणैः ।
वृतो महाविषैश्चान्यैररुणैरनिलाशनैः ॥ १८५.१५॥
नागपत्न्यश्च शतशो हारिहारोपशोभिताः ।
प्रकम्पिततनूत्क्षेप+ ॅहलत्कुण्डलकान्तयः ॥ १८५.१६॥
ततः प्रवेष्टितः सर्पैः स कृष्णो भोगबन्धनैः ।
ददंशुश्चापि ते कृष्णं विषज्वालाविलैर्मुखैः ॥ १८५.१७॥
तं तत्र पतितं दृष्ट्वा नागभोगनिपीडितम् ।
गोपा व्रजमुपागत्य चुक्रुशुः शोकलालसाः ॥ १८५.१८॥
गोपा ऊचुः ।
एष कृष्णो गतो मोह+ ंअग्नो वै कालिये ह्रदे ।
भक्ष्यते सर्पराजेन तद् आगच्छत मा चिरम् ॥ १८५.१९॥
व्यास उवाच ।
एतच्छ्रुत्वा ततो गोपा वज्रपातोपमं वचः ।
गोप्यश्च त्वरिता जग्मुर्यशोदाप्रमुखा ह्रदम् ॥ १८५.२०॥
हा हा क्वासाविति जनो गोपीनामतिविह्वलः ।
यशोदया समं भ्रान्तो द्रुतः प्रस्खलितो ययौ ॥ १८५.२१॥
नन्दगोपश्च गोपाश्च रामश्चाद्भुतविक्रमः ।
त्वरितं यमुनां जग्मुः कृष्णदर्शनलालसाः ॥ १८५.२२॥
ददृशुश्चापि ते तत्र सर्पराजवशंगतम् ।
निष्प्रयत्नं कृतं कृष्णं सर्पभोगेन वेष्टितम् ॥ १८५.२३॥
नन्दगोपश्च निश्चेष्टः पश्यन् पुत्रमुखं भृशम् ।
यशोदा च महाभागा बभूव मुनिसत्तमाः ॥ १८५.२४॥
गोप्यस्त्वन्या रुदत्यश्च ददृशुः शोककातराः ।
प्रोचुश्च केशवं प्रीत्या भयकातरगद्गदम् ॥ १८५.२५॥
सर्वा यशोदया सार्धं विशामोऽत्र महाह्रदे ।
नागराजस्य नो गन्तुमस्माकं युज्यते व्रजे ॥ १८५.२६॥
दिवसः को विना सूर्यं विना चन्द्रेण का निशा ।
विना दुग्धेन का गावो विना कृष्णेन को व्रजः ।
विनाकृता न यास्यामः कृष्णेनानेन गोकुलम् ॥ १८५.२७॥
व्यास उवाच ।
इति गोपीवचः श्रुत्वा रौहिणेयो महाबलः ।
उवाच गोपान् विधुरान् विलोक्य स्तिमितेक्षणः ॥ १८५.२८॥
नन्दं च दीनमत्यर्थं न्यस्तदृष्टिं सुतानने ।
मूर्छाकुलां यशोदां च कृष्णमाहात्म्यसंज्ञया ॥ १८५.२९॥
बलराम उवाच ।
किमयं देवदेवेश भावोऽयं मानुषस्त्वया ।
व्यज्यते स्वं तमात्मानं किमन्यं त्वं न वेत्सि यत् ॥ १८५.३०॥