अध्याय 184, Verse 1
व्यास उवाच ।
विमुक्तो वसुदेवोऽपि नन्दस्य शकटं गतः ।
प्रहृष्टं दृष्टवान् नन्दं पुत्रो जातो ममेति वै ॥ १८४.१॥
Containing 60 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
विमुक्तो वसुदेवोऽपि नन्दस्य शकटं गतः ।
प्रहृष्टं दृष्टवान् नन्दं पुत्रो जातो ममेति वै ॥ १८४.१॥
वसुदेवोऽपि तं प्राह दिष्ट्या दिष्ट्येति सादरम् ।
वार्धकेऽपि समुत्पन्नस्तनयोऽयं तवाधुना ॥ १८४.२॥
दत्तो हि वार्षिकः सर्वो भवद्भिर्नृपतेः करः ।
यदर्थमागतस्तस्मान् नात्र स्थेयं महात्मना ॥ १८४.३॥
यदर्थमागतः कार्यं तन् निष्पन्नं किमास्यते ।
भवद्भिर्गम्यतां नन्द तच्छीघ्रं निजगोकुलम् ॥ १८४.४॥
ममापि बालकस्तत्र रोहिणीप्रसवो हि यः ।
स रक्षणीयो भवता यथायं तनयो निजः ॥ १८४.५॥
व्यास उवाच ।
इत्युक्ताः प्रययुर्गोपा नन्दगोपपुरोगमाः ।
शकटारोपितैर्भाण्डैः करं दत्त्वा महाबलाः ॥ १८४.६॥
वसतां गोकुले तेषां पूतना बालघातिनी ।
सुप्तं कृष्णमुपादाय रात्रौ च प्रददौ स्तनम् ॥ १८४.७॥
यस्मै यस्मै स्तनं रात्रौ पूतना सम्प्रयच्छति ।
तस्य तस्य क्षणेनाङ्गं बालकस्योपहन्यते ॥ १८४.८॥
कृष्णस्तस्याः स्तनं गाढं कराभ्यामतिपीडितम् ।
गृहीत्वा प्राणसहितं पपौ क्रोधसमन्वितः ॥ १८४.९॥
सा विमुक्तमहारावा विच्छिन्नस्नायुबन्धना ।
पपात पूतना भूमौ म्रियमाणातिभीषणा ॥ १८४.१०॥
तन्नादश्रुतिसंत्रासाद् विबुद्धास्ते व्रजौकसः ।
ददृशुः पूतनोत्सङ्गे कृष्णं तां च निपातिताम् ॥ १८४.११॥
आदाय कृष्णं संत्रस्ता यशोदा च ततो द्विजाः ।
गोपुच्छभ्रामणाद्यैश्च बालदोषमपाकरोत् ॥ १८४.१२॥
गोपुरीषमुपादाय नन्दगोपोऽपि मस्तके ।
कृष्णस्य प्रददौ रक्षां कुर्वन्न् इदमुदैरयत् ॥ १८४.१३॥
नन्दगोप उवाच ।
रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः ।
यस्य नाभिसमुद्भूतात् पङ्कजाद् अभवज्जगत् ॥ १८४.१४॥
येन दंष्ट्राग्रविधृता धारयत्यवनी जगत् ।
वराहरूपधृग् देवः स त्वां रक्षतु केशवः ॥ १८४.१५॥
गुह्यं स जठरं विष्णुर्जङ्घापादौ जनार्दनः ।
वामनो रक्षतु सदा भवन्तं यः क्षणाद् अभूत् ॥ १८४.१६॥
त्रिविक्रमक्रमाक्रान्त+ ।
त्रैलोक्यस्फुरदायुधः ।
शिरस्ते पातु गोविन्दः कण्ठं रक्षतु केशवः ॥ १८४.१७॥
मुखबाहू प्रबाहू च मनः सर्वेन्द्रियाणि च ।
रक्षत्वव्याहतैश्वर्यस्तव नारायणोऽव्ययः ॥ १८४.१८॥
त्वां दिक्षु पातु वैकुण्ठो विदिक्षु मधुसूदनः ।
हृषीकेशोऽम्बरे भूमौ रक्षतु त्वां महीधरः ॥ १८४.१९॥
व्यास उवाच ।
एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः ।
शायितः शकटस्याधो बालपर्यङ्किकातले ॥ १८४.२०॥
ते च गोपा महद् दृष्ट्वा पूतनायाः कलेवरम् ।
मृतायाः परमं त्रासं विस्मयं च तदा ययुः ॥ १८४.२१॥
कदाचिच्छकटस्याधः शयानो मधुसूदनः ।
चिक्षेप चरणावूर्ध्वं स्तनार्थी प्ररुरोद च ॥ १८४.२२॥
तस्य पादप्रहारेण शकटं परिवर्तितम् ।
विध्वस्तभाण्डकुम्भं तद् विपरीतं पपात वै ॥ १८४.२३॥
ततो हाहाकृतः सर्वो गोपगोपीजनो द्विजाः ।
आजगाम तदा ज्ञात्वा बालमुत्तानशायिनम् ॥ १८४.२४॥
गोपाः केनेति जगदुः शकटं परिवर्तितम् ।
तत्रैव बालकाः प्रोचुर्बालेनानेन पातितम् ॥ १८४.२५॥
रुदता दृष्टमस्माभिः पादविक्षेपताडितम् ।
शकटं परिवृत्तं वै नैतद् अन्यस्य चेष्टितम् ॥ १८४.२६॥
ततः पुनरतीवासन् गोपा विस्मितचेतसः ।
नन्दगोपोऽपि जग्राह बालमत्यन्तविस्मितः ॥ १८४.२७॥
यशोदा विस्मयारूढा भग्नभाण्डकपालकम् ।
शकटं चार्चयामास दधिपुष्पफलाक्षतैः ॥ १८४.२८॥
गर्गश्च गोकुले तत्र वसुदेवप्रचोदितः ।
प्रच्छन्न एव गोपानां संस्कारमकरोत् तयोः ॥ १८४.२९॥
ज्येष्ठं च राममित्याह कृष्णं चैव तथापरम् ।
गर्गो मतिमतां श्रेष्ठो नाम कुर्वन् महामतिः ॥ १८४.३०॥