अध्याय 183, Verse 1
व्यास उवाच ।
कंसस्त्वथोद्विग्नमनाः प्राह सर्वान् महासुरान् ।
प्रलम्बकेशिप्रमुखान् आहूयासुरपुंगवान् ॥ १८३.१॥
Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
कंसस्त्वथोद्विग्नमनाः प्राह सर्वान् महासुरान् ।
प्रलम्बकेशिप्रमुखान् आहूयासुरपुंगवान् ॥ १८३.१॥
कंस उवाच ।
हे प्रलम्ब महाबाहो केशिन् धेनुक पूतने ।
अरिष्टाद्यैस्तथा चान्यैः श्रूयतां वचनं मम ॥ १८३.२॥
मां हन्तुममरैर्यत्नः कृतः किल दुरात्मभिः ।
मद्वीर्यतापितान् वीरान् न त्वेतान् गणयाम्यहम् ॥ १८३.३॥
आश्चर्यं कन्यया चोक्तं जायते दैत्यपुंगवाः ।
हास्यं मे जायते वीरास्तेषु यत्नपरेष्वपि ॥ १८३.४॥
तथापि खलु दुष्टानां तेषामप्यधिकं मया ।
अपकाराय दैत्येन्द्रा यतनीयं दुरात्मनाम् ॥ १८३.५॥
उत्पन्नश्चापि मृत्युर्मे भूतभव्यभवत्प्रभुः ।
इत्येतद् बालिका प्राह देवकीगर्भसम्भवा ॥ १८३.६॥
तस्माद् बालेषु परमो यत्नः कार्यो महीतले ।
यत्रोद्रिक्तं बलं बाले स हन्तव्यः प्रयत्नतः ॥ १८३.७॥
व्यास उवाच ।
इत्याज्ञाप्यासुरान् कंसः प्रविश्यात्मगृहं ततः ।
उवाच वसुदेवं च देवकीमविरोधतः ॥ १८३.८॥
कंस उवाच ।
युवयोर्घातिता गर्भा वृथैवैते मयाधुना ।
कोऽप्यन्य एव नाशाय बालो मम समुद्गतः ॥ १८३.९॥
तद् अलं परितापेन नूनं यद् भाविनो हि ते ।
अर्भका युवयोः को वा आयुषोऽन्ते न हन्यते ॥ १८३.१०॥
व्यास उवाच ।
इत्याश्वास्य विमुच्यैव कंसस्तौ परितोष्य च ।
अन्तर्गृहं द्विजश्रेष्ठाः प्रविवेश पुनः स्वकम् ॥ १८३.११॥