अध्याय 182, Verse 1
व्यास उवाच ।
यथोक्तं सा जगद्धात्री देवदेवेन वै पुरा ।
षड्गर्भगर्भविन्यासं चक्रे चान्यस्य कर्षणम् ॥ १८२.१॥
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
यथोक्तं सा जगद्धात्री देवदेवेन वै पुरा ।
षड्गर्भगर्भविन्यासं चक्रे चान्यस्य कर्षणम् ॥ १८२.१॥
सप्तमे रोहिणीं प्राप्ते गर्भे गर्भे ततो हरिः ।
लोकत्रयोपकाराय देवक्याः प्रविवेश वै ॥ १८२.२॥
योगनिद्रा यशोदायास्तस्मिन्न् एव ततो दिने ।
सम्भूता जठरे तद्वद् यथोक्तं परमेष्ठिना ॥ १८२.३॥
ततो ग्रहगणः सम्यक् प्रचचार दिवि द्विजाः ।
विष्णोरंशे महीं यात ऋतवोऽप्यभवञ् शुभाः ॥ १८२.४॥
नोत्सेहे देवकीं द्रष्टुं कश्चिद् अप्यतितेजसा ।
जाज्वल्यमानां तां दृष्ट्वा मनांसि क्षोभमाययुः ॥ १८२.५॥
अदृष्टां पुरुषैः स्त्रीभिर्देवकीं देवतागणाः ।
बिभ्राणां वपुषा विष्णुं तुष्टुवुस्तामहर्निशम् ॥ १८२.६॥
देवा ऊचुः ।
त्वं स्वाहा त्वं स्वधा विद्या सुधा त्वं ज्योतिरेव च ।
त्वं सर्वलोकरक्षार्थमवतीर्णा महीतले ॥ १८२.७॥
प्रसीद देवि सर्वस्य जगतस्त्वं शुभं कुरु ।
प्रीत्यर्थं धारयेशानं धृतं येनाखिलं जगत् ॥ १८२.८॥
व्यास उवाच ।
एवं संस्तूयमाना सा देवैर्देवमधारयत् ।
गर्भेण पुण्डरीकाक्षं जगतां त्राणकारणम् ॥ १८२.९॥
ततोऽखिलजगत्पद्म+ ।
बोधायाच्युतभानुना ।
देवक्याः पूर्वसंध्यायामाविर्भूतं महात्मना ॥ १८२.१०॥
मध्यरात्रेऽखिलाधारे जायमाने जनार्दने ।
मन्दं जगर्जुर्जलदाः पुष्पवृष्टिमुचः सुराः ॥ १८२.११॥
फुल्लेन्दीवरपत्त्राभं चतुर्बाहुमुदीक्ष्य तम् ।
श्रीवत्सवक्षसं जातं तुष्टावानकदुन्दुभिः ॥ १८२.१२॥
अभिष्टूय च तं वाग्भिः प्रसन्नाभिर्महामतिः ।
विज्ञापयामास तदा कंसाद् भीतो द्विजोत्तमाः ॥ १८२.१३॥
वसुदेव उवाच ।
ज्ञातोऽसि देवदेवेश शङ्खचक्रगदाधर ।
दिव्यं रूपमिदं देव प्रसादेनोपसंहर ॥ १८२.१४॥
अद्यैव देव कंसोऽयं कुरुते मम यातनाम् ।
अवतीर्णमिति ज्ञात्वा त्वामस्मिन् मन्दिरे मम ॥ १८२.१५॥
देवक्युवाच ।
योऽनन्तरूपोऽखिलविश्वरूपो ।
गर्भेऽपि लोकान् वपुषा बिभर्ति ।
प्रसीदतामेष स देवदेवः ।
स्वमाययाविष्कृतबालरूपः ॥ १८२.१६॥
उपसंहर सर्वात्मन् रूपमेतच्चतुर्भुजम् ।
जानातु मावतारं ते कंसोऽयं दितिजान्तक ॥ १८२.१७॥
श्रीभगवान् उवाच ।
स्तुतोऽहं यत् त्वया पूर्वं पुत्रार्थिन्या तद् अद्य ते ।
सफलं देवि संजातं जातोऽहं यत् तवोदरात् ॥ १८२.१८॥
व्यास उवाच ।
इत्युक्त्वा भगवांस्तूष्णीं बभूव मुनिसत्तमाः ।
वसुदेवोऽपि तं रात्रावादाय प्रययौ बहिः ॥ १८२.१९॥
मोहिताश्चाभवंस्तत्र रक्षिणो योगनिद्रया ।
मथुराद्वारपालाश्च व्रजत्यानकदुन्दुभौ ॥ १८२.२०॥
वर्षतां जलदानां च तत् तोयमुल्बणं निशि ।
संछाद्य तं ययौ शेषः फणैरानकदुन्दुभिम् ॥ १८२.२१॥
यमुनां चातिगम्भीरां नानावर्तशताकुलाम् ।
वसुदेवो वहन् विष्णुं जानुमात्रवहां ययौ ॥ १८२.२२॥
कंसस्य करमादाय तत्रैवाभ्यागतांस्तटे ।
नन्दादीन् गोपवृद्धांश्च यमुनायां ददर्श सः ॥ १८२.२३॥
तस्मिन् काले यशोदापि मोहिता योगनिद्रया ।
तामेव कन्यां मुनयः प्रासूत मोहिते जने ॥ १८२.२४॥
वसुदेवोऽपि विन्यस्य बालमादाय दारिकाम् ।
यशोदाशयने तूर्णमाजगामामितद्युतिः ॥ १८२.२५॥
ददर्श च विबुद्ध्वा सा यशोदा जातमात्मजम् ।
नीलोत्पलदलश्यामं ततोऽत्यर्थं मुदं ययौ ॥ १८२.२६॥
आदाय वसुदेवोऽपि दारिकां निजमन्दिरम् ।
देवकीशयने न्यस्य यथापूर्वमतिष्ठत ॥ १८२.२७॥
ततो बालध्वनिं श्रुत्वा रक्षिणः सहसोत्थिताः ।
कंसमावेदयामासुर्देवकीप्रसवं द्विजाः ॥ १८२.२८॥
कंसस्तूर्णमुपेत्यैनां ततो जग्राह बालिकाम् ।
मुञ्च मुञ्चेति देवक्या *आसन्नकण्ठं निवारितः ॥ १८२.२९॥
चिक्षेप च शिलापृष्ठे सा क्षिप्ता वियति स्थितिम् ।
अवाप रूपं च महत् सायुधाष्टमहाभुजम् ।
प्रजहास तथैवोच्चैः कंसं च रुषिताब्रवीत् ॥ १८२.३०॥