अध्याय 181, Verse 1
व्यास उवाच ।
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः ।
अवतारं हरेश्चात्र भारावतरणेच्छया ॥ १८१.१॥
Containing 53 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः ।
अवतारं हरेश्चात्र भारावतरणेच्छया ॥ १८१.१॥
यदा यदा त्वधर्मस्य वृद्धिर्भवति भो द्विजाः ।
धर्मश्च ह्रासमभ्येति तदा देवो जनार्दनः ॥ १८१.२॥
अवतारं करोत्यत्र द्विधा कृत्वात्मनस्तनुम् ।
साधूनां रक्षणार्थाय धर्मसंस्थापनाय च ॥ १८१.३॥
दुष्टानां निग्रहार्थाय अन्येषां च सुरद्विषाम् ।
प्रजानां रक्षणार्थाय जायतेऽसौ युगे युगे ॥ १८१.४॥
पुरा किल मही विप्रा भूरिभारावपीडिता ।
जगाम धरणी मेरौ समाजे त्रिदिवौकसाम् ॥ १८१.५॥
सब्रह्मकान् सुरान् सर्वान् प्रणिपत्याथ मेदिनी ।
कथयामास तत् सर्वं खेदात् करुणभाषिणी ॥ १८१.६॥
धरण्युवाच ।
अग्निः सुवर्णस्य गुरुर्गवां सूर्योऽपरो गुरुः ।
ममाप्यखिललोकानां वन्द्यो नारायणो गुरुः ॥ १८१.७॥
तत्साम्प्रतमिमे दैत्याः कालनेमिपुरोगमाः ।
मर्त्यलोकं समागम्य बाधन्तेऽहर्निशं प्रजाः ॥ १८१.८॥
कालनेमिर्हतो योऽसौ विष्णुना प्रभविष्णुना ।
उग्रसेनसुतः कंसः सम्भूतः सुमहासुरः ॥ १८१.९॥
अरिष्टो धेनुकः केशी प्रलम्बो नरकस्तथा ।
सुन्दोऽसुरस्तथात्युग्रो बाणश्चापि बलेः सुतः ॥ १८१.१०॥
तथान्ये च महावीर्या नृपाणां भवनेषु ये ।
समुत्पन्ना दुरात्मानस्तान् न संख्यातुमुत्सहे ॥ १८१.११॥
अक्षौहिण्यो हि बहुला दिव्यमूर्तिधृताः सुराः ।
महाबलानां दृप्तानां दैत्येन्द्राणां ममोपरि ॥ १८१.१२॥
तद्भूरिभारपीडार्ता न शक्नोम्यमरेश्वराः ।
विभर्तुमात्मानमहमिति विज्ञापयामि वः ॥ १८१.१३॥
क्रियतां तन् महाभागा मम भारावतारणम् ।
यथा रसातलं नाहं गच्छेयमतिविह्वला ॥ १८१.१४॥
व्यास उवाच ।
इत्याकर्ण्य धरावाक्यमशेषैस्त्रिदशैस्ततः ।
भुवो भारावतारार्थं ब्रह्मा प्राह च चोदितः ॥ १८१.१५॥
ब्रह्मोवाच ।
यद् आह वसुधा सर्वं सत्यमेतद् दिवौकसः ।
अहं भवो भवन्तश्च सर्वं नारायणात्मकम् ॥ १८१.१६॥
विभूतयस्तु यास्तस्य तासामेव परस्परम् ।
आधिक्यं न्यूनता बाध्य+ ।
बाधकत्वेन वर्तते ॥ १८१.१७॥
तद् आगच्छत गच्छामः क्षीराब्धेस्तटमुत्तमम् ।
तत्राराध्य हरिं तस्मै सर्वं विज्ञापयाम वै ॥ १८१.१८॥
सर्वदैव जगत्यर्थे स सर्वात्मा जगन्मयः ।
स्वल्पांशेनावतीर्योर्व्यां धर्मस्य कुरुते स्थितिम् ॥ १८१.१९॥
व्यास उवाच ।
इत्युक्त्वा प्रययौ तत्र सह देवैः पितामहः ।
समाहितमना भूत्वा तुष्टाव गरुडध्वजम् ॥ १८१.२०॥
ब्रह्मोवाच ।
नमो नमस्तेऽस्तु सहस्रमूर्ते ।
सहस्रबाहो बहुवक्त्रपाद ।
नमो नमस्ते जगतः प्रवृत्ति+ ।
विनाशसंस्थानपराप्रमेय ॥ १८१.२१॥
सूक्ष्मातिसूक्ष्मं च बृहत्प्रमाणम् ।
गरीयसामप्यतिगौरवात्मन् ।
प्रधानबुद्धीन्द्रियवाक्प्रधान+ ।
मूलापरात्मन् भगवन् प्रसीद ॥ १८१.२२॥
एषा मही देव महीप्रसूतैर् ।
महासुरैः पीडितशैलबन्धा ।
परायणं त्वां जगतामुपैति ।
भारावतारार्थमपारपारम् ॥ १८१.२३॥
एते वयं वृत्ररिपुस्तथायम् ।
नासत्यदस्रौ वरुणस्तथैषः ।
इमे च रुद्रा वसवः ससूर्याः ।
समीरणाग्निप्रमुखास्तथान्ये ॥ १८१.२४॥
सुराः समस्ताः सुरनाथ कार्यम् ।
एभिर्मया यच्च तद् ईश सर्वम् ।
आज्ञापयाज्ञां प्रतिपालयन्तस्- ।
तवैव तिष्ठाम सदास्तदोषाः ॥ १८१.२५॥
व्यास उवाच ।
एवं संस्तूयमानस्तु भगवान् परमेश्वरः ।
उज्जहारात्मनः केशौ सितकृष्णौ द्विजोत्तमाः ॥ १८१.२६॥
उवाच च सुरान् एतौ मत्केशौ वसुधातले ।
अवतीर्य भुवो भार+ ।
क्लेशहानिं करिष्यतः ॥ १८१.२७॥
सुराश्च सकलाः स्वांशैरवतीर्य महीतले ।
कुर्वन्तु युद्धमुन्मत्तैः पूर्वोत्पन्नैर्महासुरैः ॥ १८१.२८॥
ततः क्षयमशेषास्ते दैतेया धरणीतले ।
प्रयास्यन्ति न संदेहो नानायुधविचूर्णिताः ॥ १८१.२९॥
वसुदेवस्य या पत्नी देवकी देवतोपमा ।
तस्या गर्भोऽष्टमोऽयं तु मत्केशो भविता सुराः ॥ १८१.३०॥