अध्याय 180, Verse 1
व्यास उवाच ।
नमस्कृत्वा सुरेशाय विष्णवे प्रभविष्णवे ।
पुरुषाय पुराणाय शाश्वतायाव्ययाय च ॥ १८०.१॥
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
नमस्कृत्वा सुरेशाय विष्णवे प्रभविष्णवे ।
पुरुषाय पुराणाय शाश्वतायाव्ययाय च ॥ १८०.१॥
चतुर्व्यूहात्मने तस्मै निर्गुणाय गुणाय च ।
वरिष्ठाय गरिष्ठाय वरेण्यायामिताय च ॥ १८०.२॥
यज्ञाङ्गायाखिलाङ्गाय देवाद्यैरीप्सिताय च ।
यस्माद् अणुतरं नास्ति यस्मान् नास्ति बृहत्तरम् ॥ १८०.३॥
येन विश्वमिदं व्याप्तमजेन सचराचरम् ।
आविर्भावतिरोभाव+ ।
दृष्टादृष्टविलक्षणम् ॥ १८०.४॥
वदन्ति यत् सृष्टमिति तथैवाप्युपसंहृतम् ।
ब्रह्मणे चादिदेवाय नमस्कृत्य समाधिना ॥ १८०.५॥
अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय जिष्णवे विष्णवे नमः ॥ १८०.६॥
नमो हिरण्यगर्भाय हरये शंकराय च ।
वासुदेवाय ताराय सर्गस्थित्यन्तकारिणे ॥ १८०.७॥
एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः ।
अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे ॥ १८०.८॥
सर्गस्थितिविनाशानां जगतो यो जगन्मयः ।
मूलभूतो नमस्तस्मै विष्णवे परमात्मने ॥ १८०.९॥
आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् ।
प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥ १८०.१०॥
ज्ञानस्वरूपमत्यन्तं निर्मलं परमार्थतः ।
तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥ १८०.११॥
विष्णुं ग्रसिष्णुं विश्वस्य स्थितिसर्गे तथा प्रभुम् ।
अनादिं जगतामीशमजमक्षयमव्ययम् ॥ १८०.१२॥
कथयामि यथा पूर्वं यक्षाद्यैर्मुनिसत्तमैः ।
पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः ॥ १८०.१३॥
ऋक्सामान्युद्गिरन् वक्त्रैर्यः पुनाति जगत्त्रयम् ।
प्रणिपत्य तथेशानमेकार्णवविनिर्गतम् ॥ १८०.१४॥
यस्यासुरगणा यज्ञान् विलुम्पन्ति न याजिनाम् ।
प्रवक्ष्यामि मतं कृत्स्नं ब्रह्मणोऽव्यक्तजन्मनः ॥ १८०.१५॥
येन सृष्टिं समुद्दिश्य धर्माद्याः प्रकटीकृताः ।
आपो नारा इति प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ॥ १८०.१६॥
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ।
स देवो भगवान् सर्वं व्याप्य नारायणो विभुः ॥ १८०.१७॥
चतुर्धा संस्थितो ब्रह्मा सगुणो निर्गुणस्तथा ।
एका मूर्तिरनुद्देश्या शुक्लां पश्यन्ति तां बुधाः ॥ १८०.१८॥
ज्वालामालावनद्धाङ्गी निष्ठा सा योगिनां परा ।
दूरस्था चान्तिकस्था च विज्ञेया सा गुणातिगा ॥ १८०.१९॥
वासुदेवाभिधानासौ निर्ममत्वेन दृश्यते ।
रूपवर्णादयस्तस्या न भावाः कल्पनामयाः ॥ १८०.२०॥
आस्ते च सा सदा शुद्धा सुप्रतिष्ठैकरूपिणी ।
द्वितीया पृथिवीं मूर्ध्ना शेषाख्या धारयत्यधः ॥ १८०.२१॥
तामसी सा समाख्याता तिर्यक्त्वं समुपागता ।
तृतीया कर्म कुरुते प्रजापालनतत्परा ॥ १८०.२२॥
सत्त्वोद्रिक्ता तु सा ज्ञेया धर्मसंस्थानकारिणी ।
चतुर्थी जलमध्यस्था शेते पन्नगतल्पगा ॥ १८०.२३॥
रजस्तस्या गुणः सर्गं सा करोति सदैव हि ।
या तृतीया हरेर्मूर्तिः प्रजापालनतत्परा ॥ १८०.२४॥
सा तु धर्मव्यवस्थानं करोति नियतं भुवि ।
प्रोद्धतान् असुरान् हन्ति धर्मव्युच्छित्तिकारिणः ॥ १८०.२५॥
पाति देवान् सगन्धर्वान् धर्मरक्षापरायणान् ।
यदा यदा च धर्मस्य ग्लानिः समुपजायते ॥ १८०.२६॥
अभ्युत्थानमधर्मस्य तदात्मानं सृजत्यसौ ।
भूत्वा पुरा वराहेण तुण्डेनापो निरस्य च ॥ १८०.२७॥
एकया दंष्ट्रयोत्खाता नलिनीव वसुंधरा ।
कृत्वा नृसिंहरूपं च हिरण्यकशिपुर्हतः ॥ १८०.२८॥
विप्रचित्तिमुखाश्चान्ये दानवा विनिपातिताः ।
वामनं रूपमास्थाय बलिं संयम्य मायया ॥ १८०.२९॥
त्रैलोक्यं क्रान्तवान् एव विनिर्जित्य दितेः सुतान् ।
भृगोर्वंशे समुत्पन्नो जामदग्न्यः प्रतापवान् ॥ १८०.३०॥