अध्याय 18, Verse 1
मुनय ऊचुः ।
अहो सुमहद् आख्यानं भवता परिकीर्तितम् ।
भारतानां च सर्वेषां पार्थिवानां तथैव च ॥ १८.१॥
Containing 62 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
अहो सुमहद् आख्यानं भवता परिकीर्तितम् ।
भारतानां च सर्वेषां पार्थिवानां तथैव च ॥ १८.१॥
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
दैत्यानामथ सिद्धानां गुह्यकानां तथैव च ॥ १८.२॥
अत्यद्भुतानि कर्माणि विक्रमा धर्मनिश्चयाः ।
विविधाश्च कथा दिव्या जन्म चाग्र्यमनुत्तमम् ॥ १८.३॥
सृष्टिः प्रजापतेः सम्यक् त्वया प्रोक्ता महामते ।
प्रजापतीनां सर्वेषां गुह्यकाप्सरसां तथा ॥ १८.४॥
स्थावरं जङ्गमं सर्वमुत्पन्नं विविधं जगत् ।
त्वया प्रोक्तं महाभाग श्रुतं चैतन् मनोहरम् ॥ १८.५॥
कथितं पुण्यफलदं पुराणं श्लक्ष्णया गिरा ।
मनःकर्णसुखं सम्यक् प्रीणात्यमृतसम्मितम् ॥ १८.६॥
इदानीं श्रोतुमिच्छामः सकलं मण्डलं भुवः ।
वक्तुमर्हसि सर्वज्ञ परं कौतूहलं हि नः ॥ १८.७॥
यावन्तः सागरा द्वीपास्तथा वर्षाणि पर्वताः ।
वनानि सरितः पुण्य+ ।
देवादीनां महामते ॥ १८.८॥
यत्प्रमाणमिदं सर्वं यदाधारं यदात्मकम् ।
संस्थानमस्य जगतो यथावद् वक्तुमर्हसि ॥ १८.९॥
लोमहर्षण उवाच ।
मुनयः श्रूयतामेतत् संक्षेपाद् वदतो मम ।
नास्य वर्षशतेनापि वक्तुं शक्योऽतिविस्तरः ॥ १८.१०॥
जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश्चापरो द्विजाः ।
कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः ॥ १८.११॥
एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः ।
लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम् ॥ १८.१२॥
जम्बूद्वीपः समस्तानामेतेषां मध्यसंस्थितः ।
तस्यापि मध्ये विप्रेन्द्रा मेरुः कनकपर्वतः ॥ १८.१३॥
चतुरशीतिसाहस्रैर्योजनैस्तस्य चोच्छ्रयः ।
प्रविष्टः षोडशाधस्ताद् द्वात्रिंशन् मूर्ध्नि विस्तृतः ॥ १८.१४॥
मूले षोडशसाहस्रैर्विस्तारस्तस्य सर्वतः ।
भूपद्मस्यास्य शैलोऽसौ कर्णिकाकारसंस्थितः ॥ १८.१५॥
हिमवान् हेमकूटश्च निषधस्तस्य दक्षिणे ।
नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ॥ १८.१६॥
लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथापरे ।
सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥ १८.१७॥
भारतं प्रथमं वर्षं ततः किम्पुरुषं स्मृतम् ।
हरिवर्षं तथैवान्यन् मेरोर्दक्षिणतो द्विजाः ॥ १८.१८॥
रम्यकं चोत्तरं वर्षं तस्यैव तु हिरण्मयम् ।
उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥ १८.१९॥
नवसाहस्रमेकैकमेतेषां द्विजसत्तमाः ।
इलावृतं च तन्मध्ये सौवर्णो मेरुरुच्छ्रितः ॥ १८.२०॥
मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तृतम् ।
इलावृतं महाभागाश्चत्वारश्चात्र पर्वताः ॥ १८.२१॥
विष्कम्भा वितता मेरोर्योजनायुतविस्तृताः ।
पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥ १८.२२॥
विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्थितः ।
कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च ॥ १८.२३॥
एकादशशतायामाः पादपा गिरिकेतवः ।
जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्द्विजोत्तमाः ॥ १८.२४॥
महागजप्रमाणानि जम्ब्वास्तस्याः फलानि वै ।
पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥ १८.२५॥
रसेन तेषां विख्याता तत्र जम्बूनदीति वै ।
सरित् प्रवर्तते सा च पीयते तन्निवासिभिः ॥ १८.२६॥
न खेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः ।
तत्पानस्वस्थमनसां जनानां तत्र जायते ॥ १८.२७॥
तीरमृत् तद्रसं प्राप्य सुखवायुविशोषिता ।
जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥ १८.२८॥
भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे ।
वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये त्विलावृतम् ॥ १८.२९॥
वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम् ।
वैभ्राजं पश्चिमे तद्वद् उत्तरे नन्दनं स्मृतम् ॥ १८.३०॥