अध्याय 179, Verse 1
लोमहर्षण उवाच ।
व्यासस्य वचनं श्रुत्वा मुनयः संयतेन्द्रियाः ।
प्रीता बभूवुः संहृष्टा विस्मिताश्च पुनः पुनः ॥ १७९.१॥
Containing 75 sacred Sanskrit shlokas with multi-author commentaries and translations.
लोमहर्षण उवाच ।
व्यासस्य वचनं श्रुत्वा मुनयः संयतेन्द्रियाः ।
प्रीता बभूवुः संहृष्टा विस्मिताश्च पुनः पुनः ॥ १७९.१॥
मुनय ऊचुः ।
अहो भारतवर्षस्य त्वया संकीर्तिता गुणाः ।
तद्वच्छ्रीपुरुषाख्यस्य क्षेत्रस्य पुरुषोत्तम ॥ १७९.२॥
विस्मयो हि न चैकस्य श्रुत्वा माहात्म्यमुत्तमम् ।
पुरुषाख्यस्य क्षेत्रस्य प्रीतिश्च वदतां वर ॥ १७९.३॥
चिरात् प्रभृति चास्माकं संशयो हृदि वर्तते ।
त्वदृते संशयस्यास्य *च्छेत्ता नान्योऽस्ति भूतले ॥ १७९.४॥
उत्पत्तिं बलदेवस्य कृष्णस्य च महीतले ।
भद्रायाश्चैव कार्त्स्न्येन पृच्छामस्त्वां महामुने ॥ १७९.५॥
किमर्थं तौ समुत्पन्नौ कृष्णसंकर्षणावुभौ ।
वसुदेवसुतौ वीरौ स्थितौ नन्दगृहे मुने ॥ १७९.६॥
निःसारे मृत्युलोकेऽस्मिन् दुःखप्रायेऽतिचञ्चले ।
जलबुद्बुदसंकाशे भैरवे लोमहर्षणे ॥ १७९.७॥
विण्मूत्रपिच्छलं कष्टं संकटं दुःखदायकम् ।
कथं घोरतरं तेषां गर्भवासमरोचत ॥ १७९.८॥
यानि कर्माणि चक्रुस्ते समुत्पन्ना महीतले ।
विस्तरेण मुने तानि ब्रूहि नो वदतां वर ॥ १७९.९॥
समग्रं चरितं तेषामद्भुतं चातिमानुषम् ।
कथं स भगवान् देवः सुरेशः सुरसत्तमः ॥ १७९.१०॥
वसुदेवकुले धीमान् वासुदेवत्वमागतः ।
अमरैश्चावृतं पुण्यं पुण्यकृद्भिरलंकृतम् ॥ १७९.११॥
देवलोकं किमुत्सृज्य मर्त्यलोक इहागतः ।
देवमानुषयोर्नेता द्योर्भुवः प्रभवोऽव्ययः ॥ १७९.१२॥
किमर्थं दिव्यमात्मानं मानुषेषु न्ययोजयत् ।
यश्चक्रं वर्तयत्येको मानुषाणामनामयम् ॥ १७९.१३॥
स मानुष्ये कथं बुद्धिं चक्रे चक्रगदाधरः ।
गोपायनं यः कुरुते जगतः सार्वभौतिकम् ॥ १७९.१४॥
स कथं गां गतो विष्णुर्गोपत्वमकरोत् प्रभुः ।
महाभूतानि भूतात्मा यो दधार चकार च ॥ १७९.१५॥
श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया धृतः ।
येन लोकान् क्रमैर्जित्वा त्रिभिर्वै त्रिदशेप्सया ॥ १७९.१६॥
स्थापिता जगतो मार्गास्त्रिवर्गाश्चाभवंस्त्रयः ।
योऽन्तकाले जगत् पीत्वा कृत्वा तोयमयं वपुः ॥ १७९.१७॥
लोकमेकार्णवं चक्रे दृश्यादृश्येन चात्मना ।
यः पुराणः पुराणात्मा वाराहं रूपमास्थितः ॥ १७९.१८॥
विषाणाग्रेण वसुधामुज्जहारारिसूदनः ।
यः पुरा पुरुहूतार्थे त्रैलोक्यमिदमव्ययम् ॥ १७९.१९॥
ददौ जित्वा वसुमतीं सुराणां सुरसत्तमः ।
येन सैंहवपुः कृत्वा द्विधा कृत्वा च तत् पुनः ॥ १७९.२०॥
पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर्हतः ।
यः पुरा ह्यनलो भूत्वा और्वः संवर्तको विभुः ॥ १७९.२१॥
पातालस्थोऽर्णवरसं पपौ तोयमयं हरिः ।
सहस्रचरणं ब्रह्म सहस्रांशुसहस्रदम् ॥ १७९.२२॥
सहस्रशिरसं देवं यमाहुर्वै युगे युगे ।
नाभ्यां पद्मं समुद्भूतं यस्य पैतामहं गृहम् ॥ १७९.२३॥
एकार्णवे नागलोके सद्धिरण्मयपङ्कजम् ।
येन ते निहता दैत्याः संग्रामे तारकामये ॥ १७९.२४॥
येन देवमयं कृत्वा सर्वायुधधरं वपुः ।
गुहासंस्थेन चोत्सिक्तः कालनेमिर्निपातितः ॥ १७९.२५॥
उत्तरान्ते समुद्रस्य क्षीरोदस्यामृतोदधौ ।
यः शेते शाश्वतं योगमास्थाय तिमिरं महत् ॥ १७९.२६॥
सुरारणी गर्भमधत्त दिव्यम् ।
तपःप्रकर्षाद् अदितिः पुराणम् ।
शक्रं च यो दैत्यगणावरुद्धम् ।
गर्भावधानेन कृतं चकार ॥ १७९.२७॥
पदानि यो योगमयानि कृत्वा ।
चकार दैत्यान् सलिलेशयस्थान् ।
कृत्वा च देवांस्त्रिदशेश्वरांस्तु ।
चक्रे सुरेशं पुरुहूतमेव ॥ १७९.२८॥
गार्हपत्येन विधिना अन्वाहार्येण कर्मणा ।
अग्निमाहवनीयं च वेदं दीक्षां समिद् ध्रुवम् ॥ १७९.२९॥
प्रोक्षणीयं स्रुवं चैव आवभृथ्यं तथैव च ।
अवाक्पाणिस्तु यश्चक्रे हव्यभागभुजस्तथा ॥ १७९.३०॥