अध्याय 178, Verse 1
व्यास उवाच ।
तस्मिन् क्षेत्रे मुनिश्रेष्ठाः सर्वसत्त्वसुखावहे ।
धर्मार्थकाममोक्षाणां फलदे पुरुषोत्तमे ॥ १७८.१॥
Containing 194 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
तस्मिन् क्षेत्रे मुनिश्रेष्ठाः सर्वसत्त्वसुखावहे ।
धर्मार्थकाममोक्षाणां फलदे पुरुषोत्तमे ॥ १७८.१॥
कण्डुर्नाम महातेजा ऋषिः परमधार्मिकः ।
सत्यवादी शुचिर्दान्तः सर्वभूतहिते रतः ॥ १७८.२॥
जितेन्द्रियो जितक्रोधो वेदवेदाङ्गपारगः ।
अवाप परमां सिद्धिमाराध्य पुरुषोत्तमम् ॥ १७८.३॥
अन्येऽपि तत्र संसिद्धा मुनयः संशितव्रताः ।
सर्वभूतहिता दान्ता जितक्रोधा विमत्सराः ॥ १७८.४॥
मुनय ऊचुः ।
कोऽसौ कण्डुः कथं तत्र जगाम परमां गतिम् ।
श्रोतुमिच्छामहे तस्य चरितं ब्रूहि सत्तम ॥ १७८.५॥
व्यास उवाच ।
शृणुध्वं मुनिशार्दूलाः कथां तस्य मनोहराम् ।
प्रवक्ष्यामि समासेन मुनेस्तस्य विचेष्टितम् ॥ १७८.६॥
पवित्रे गोमतीतीरे विजने सुमनोहरे ।
कन्दमूलफलैः पूर्णे समित्पुष्पकुशान्वितैः ॥ १७८.७॥
नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते ।
नानापक्षिरुते रम्ये नानामृगगणान्विते ॥ १७८.८॥
तत्राश्रमपदं कण्डोर्बभूव मुनिसत्तमाः ।
सर्वर्तुफलपुष्पाढ्यं कदलीखण्डमण्डितम् ॥ १७८.९॥
तपस्तेपे मुनिस्तत्र सुमहत् परमाद्भुतम् ।
व्रतोपवासैर्नियमैः स्नानमौनसुसंयमैः ॥ १७८.१०॥
ग्रीष्मे पञ्चतपा भूत्वा वर्षासु स्थण्डिलेशयः ।
आर्द्रवासास्तु हेमन्ते स तेपे सुमहत् तपः ॥ १७८.११॥
दृष्ट्वा तु तपसो वीर्यं मुनेस्तस्य सुविस्मिताः ।
बभूवुर्देवगन्धर्वाः सिद्धविद्याधरास्तथा ॥ १७८.१२॥
भूमिं तथान्तरिक्षं च दिवं च मुनिसत्तमाः ।
कण्डुः संतापयामास त्रैलोक्यं तपसो बलात् ॥ १७८.१३॥
अहोऽस्य परमं धैर्यमहोऽस्य परमं तपः ।
इत्यब्रुवंस्तदा दृष्ट्वा देवास्तं तपसि स्थितम् ॥ १७८.१४॥
मन्त्रयामासुरव्यग्राः शक्रेण सहितास्तदा ।
भयात् तस्य समुद्विग्नास्तपोविघ्नमभीप्सवः ॥ १७८.१५॥
ज्ञात्वा तेषामभिप्रायं शक्रस्त्रिभुवनेश्वरः ।
प्रम्लोचाख्यां वरारोहां रूपयौवनगर्विताम् ॥ १७८.१६॥
सुमध्यां चारुजङ्घां तां पीनश्रोणिपयोधराम् ।
सर्वलक्षणसम्पन्नां प्रोवाच फलसूदनः ॥ १७८.१७॥
शक्र उवाच ।
प्रम्लोचे गच्छ शीघ्रं त्वं यदासौ तप्यते मुनिः ।
विघ्नार्थं तस्य तपसः क्षोभयस्वांशु सुप्रभे ॥ १७८.१८॥
प्रम्लोचोवाच ।
तव वाक्यं सुरश्रेष्ठ करोमि सततं प्रभो ।
किंतु शङ्का ममैवात्र जीवितस्य च संशयः ॥ १७८.१९॥
बिभेमि तं मुनिवरं ब्रह्मचर्यव्रते स्थितम् ।
अत्युग्रं दीप्ततपसं ज्वलनार्कसमप्रभम् ॥ १७८.२०॥
ज्ञात्वा मां स मुनिः क्रोधाद् विघ्नार्थं समुपागताम् ।
कण्डुः परमतेजस्वी शापं दास्यति दुःसहम् ॥ १७८.२१॥
उर्वशी मेनका रम्भा घृताची पुञ्जिकस्थला ।
विश्वाची सहजन्या च पूर्वचित्तिस्तिलोत्तमा ॥ १७८.२२॥
अलम्बुषा मिश्रकेशी शशिलेखा च वामना ।
अन्याश्चाप्सरसः सन्ति रूपयौवनगर्विताः ॥ १७८.२३॥
सुमध्याश्चारुवदनाः पीनोन्नतपयोधराः ।
कामप्रधानकुशलास्तास्तत्र संनियोजय ॥ १७८.२४॥
ब्रह्मोवाच ।
तस्यास्तद् वचनं श्रुत्वा पुनः प्राह शचीपतिः ।
तिष्ठन्तु नाम चान्यास्तास्त्वं चात्र कुशला शुभे ॥ १७८.२५॥
कामं वसन्तं वायुं च सहायार्थे ददामि ते ।
तैः सार्धं गच्छ सुश्रोणि यत्रास्ते स महामुनिः ॥ १७८.२६॥
शक्रस्य वचनं श्रुत्वा तदा सा चारुलोचना ।
जगामाकाशमार्गेण तैः सार्धं चाश्रमं मुनेः ॥ १७८.२७॥
गत्वा सा तत्र रुचिरं ददर्श वनमुत्तमम् ।
मुनिं च दीप्ततपसमाश्रमस्थमकल्मषम् ॥ १७८.२८॥
अपश्यत् सा वनं रम्यं तैः सार्धं नन्दनोपमम् ।
सर्वर्तुवरपुष्पाढ्यं शाखामृगगणाकुलम् ॥ १७८.२९॥
पुण्यं पद्मबलोपेतं सपल्लवमहाबलम् ।
श्रोत्ररम्यान् सुमधुराञ् शब्दान् खगमुखेरितान् ॥ १७८.३०॥