अध्याय 177, Verse 1
ब्रह्मोवाच ।
एवं वोऽनन्तमाहात्म्यं क्षेत्रं च पुरुषोत्तमम् ।
भुक्तिमुक्तिप्रदं नृणां मया प्रोक्तं सुदुर्लभम् ॥ १७७.१॥
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
एवं वोऽनन्तमाहात्म्यं क्षेत्रं च पुरुषोत्तमम् ।
भुक्तिमुक्तिप्रदं नृणां मया प्रोक्तं सुदुर्लभम् ॥ १७७.१॥
यत्रास्ते पुण्डरीकाक्षः शङ्खचक्रगदाधरः ।
पीताम्बरधरः कृष्णः कंसकेशिनिषूदनः ॥ १७७.२॥
ये तत्र कृष्णं पश्यन्ति सुरासुरनमस्कृतम् ।
संकर्षणं सुभद्रां च धन्यास्ते नात्र संशयः ॥ १७७.३॥
त्रैलोक्याधिपतिं देवं सर्वकामफलप्रदम् ।
ये ध्यायन्ति सदा कृष्णं मुक्तास्ते नात्र संशयः ॥ १७७.४॥
कृष्णे रताः कृष्णमनुस्मरन्ति ।
रात्रौ च कृष्णं पुनरुत्थिता ये ।
ते भिन्नदेहाः प्रविशन्ति कृष्णम् ।
हविर्यथा मन्त्रहुतं हुताशम् ॥ १७७.५॥
तस्मात् सदा मुनिश्रेष्ठाः कृष्णः कमललोचनः ।
तस्मिन् क्षेत्रे प्रयत्नेन द्रष्टव्यो मोक्षकाङ्क्षिभिः ॥ १७७.६॥
शयनोत्थापने कृष्णं ये पश्यन्ति मनीषिणः ।
हलायुधं सुभद्रां च हरेः स्थानं व्रजन्ति ते ॥ १७७.७॥
सर्वकालेऽपि ये भक्त्या पश्यन्ति पुरुषोत्तमम् ।
रौहिणेयं सुभद्रां च विष्णुलोकं व्रजन्ति ते ॥ १७७.८॥
आस्ते यश्चतुरो मासान् वार्षिकान् पुरुषोत्तमे ।
पृथिव्यास्तीर्थयात्रायाः फलं प्राप्नोति चाधिकम् ॥ १७७.९॥
ये सर्वकालं तत्रैव निवसन्ति मनीषिणः ।
जितेन्द्रिया जितक्रोधा लभन्ते तपसः फलम् ॥ १७७.१०॥
तपस्तप्त्वान्यतीर्थेषु वर्षाणामयुतं नरः ।
यद् आप्नोति तद् आप्नोति मासेन पुरुषोत्तमे ॥ १७७.११॥
तपसा ब्रह्मचर्येण सङ्गत्यागेन यत् फलम् ।
तत् फलं सततं तत्र प्राप्नुवन्ति मनीषिणः ॥ १७७.१२॥
सर्वतीर्थेषु यत् पुण्यं स्नानदानेन कीर्तितम् ।
तत् फलं सततं तत्र प्राप्नुवन्ति मनीषिणः ॥ १७७.१३॥
सम्यक् तीर्थेन यत् प्रोक्तं व्रतेन नियमेन च ।
तत् फलं लभते तत्र प्रत्यहं प्रयतः शुचिः ॥ १७७.१४॥
यस्तु नानाविधैर्यज्ञैर्यत् फलं लभते नरः ।
तत् फलं लभते तत्र प्रत्यहं संयतेन्द्रियः ॥ १७७.१५॥
देहं त्यजन्ति पुरुषास्तत्र ये पुरुषोत्तमे ।
कल्पवृक्षं समासाद्य मुक्तास्ते नात्र संशयः ॥ १७७.१६॥
वटसागरयोर्मध्ये ये त्यजन्ति कलेवरम् ।
ते दुर्लभं परं मोक्षं प्राप्नुवन्ति न संशयः ॥ १७७.१७॥
अनिच्छन्न् अपि यस्तत्र प्राणांस्त्यजति मानवः ।
सोऽपि दुःखविनिर्मुक्तो मुक्तिं प्राप्नोति दुर्लभाम् ॥ १७७.१८॥
कृमिकीटपतंगाद्यास्तिर्यग्योनिगताश्च ये ।
तत्र देहं परित्यज्य ते यान्ति परमां गतिम् ॥ १७७.१९॥
भ्रान्तिं लोकस्य पश्यध्वमन्यतीर्थं प्रति द्विजाः ।
पुरुषाख्येन यत् प्राप्तमन्यतीर्थफलादिकम् ॥ १७७.२०॥
सकृत् पश्यति यो मर्त्यः श्रद्धया पुरुषोत्तमम् ।
पुरुषाणां सहस्रेषु स भवेद् उत्तमः पुमान् ॥ १७७.२१॥
प्रकृतेः स परो यस्मात् पुरुषाद् अपि चोत्तमः ।
तस्माद् वेदे पुराणे च लोकेऽस्मिन् पुरुषोत्तमः ॥ १७७.२२॥
योऽसौ पुराणे वेदान्ते परमात्मेत्युदाहृतः ।
आस्ते विश्वोपकाराय तेनासौ पुरुषोत्तमः ॥ १७७.२३॥
पाथे श्मशाने गृहमण्डपे वा ।
रथ्याप्रदेशेष्वपि यत्र कुत्र ।
इच्छन्न् अनिच्छन्न् अपि तत्र देहम् ।
संत्यज्य मोक्षं लभते मनुष्यः ॥ १७७.२४॥
तस्मात् सर्वप्रयत्नेन तस्मिन् क्षेत्रे द्विजोत्तमाः ।
देहत्यागो नरैः कार्यः सम्यङ् मोक्षाभिकाङ्क्षिभिः ॥ १७७.२५॥
पुरुषाख्यस्य माहात्म्यं न भूतं न भविष्यति ।
त्यक्त्वा यत्र नरो देहं मुक्तिं प्राप्नोति दुर्लभाम् ॥ १७७.२६॥
गुणानामेकदेशोऽयं मया क्षेत्रस्य कीर्तितः ।
कः समस्तान् गुणान् वक्तुं शक्तो वर्षशतैरपि ॥ १७७.२७॥
यदि यूयं मुनिश्रेष्ठा मोक्षमिच्छथ शाश्वतम् ।
तस्मिन् क्षेत्रवरे पुण्ये निवसध्वमतन्द्रिताः ॥ १७७.२८॥
व्यास उवाच ।
ते तस्य वचनं श्रुत्वा ब्रह्मणोऽव्यक्तजन्मनः ।
निवासं चक्रिरे तत्र अवापुः परमं पदम् ॥ १७७.२९॥
तस्माद् यूयं प्रयत्नेन निवसध्वं द्विजोत्तमाः ।
पुरुषाख्ये वरे क्षेत्रे यदि मुक्तिमभीप्सथ ॥ १७७.३०॥