अध्याय 176, Verse 1
मुनय ऊचुः ।
नहि नस्तृप्तिरस्तीह शृण्वतां भगवत्कथाम् ।
पुनरेव परं गुह्यं वक्तुमर्हस्यशेषतः ॥ १७६.१॥
Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
नहि नस्तृप्तिरस्तीह शृण्वतां भगवत्कथाम् ।
पुनरेव परं गुह्यं वक्तुमर्हस्यशेषतः ॥ १७६.१॥
अनन्तवासुदेवस्य न सम्यग् वर्णितं त्वया ।
श्रोतुमिच्छामहे देव विस्तरेण वदस्व नः ॥ १७६.२॥
ब्रह्मोवाच ।
प्रवक्ष्यामि मुनिश्रेष्ठाः सारात् सारतरं परम् ।
अनन्तवासुदेवस्य माहात्म्यं भुवि दुर्लभम् ॥ १७६.३॥
आदिकल्पे पुरा विप्रास्त्वहमव्यक्तजन्मवान् ।
विश्वकर्माणमाहूय वचनं प्रोक्तवान् इदम् ॥ १७६.४॥
वरिष्ठं देवशिल्पीन्द्रं विश्वकर्माग्रकर्मिणम् ।
प्रतिमां वासुदेवस्य कुरु शैलमयीं भुवि ॥ १७६.५॥
यां प्रेक्ष्य विधिवद् भक्ताः सेन्द्रा वै मानुषादयः ।
येन दानवरक्षोभ्यो विज्ञाय सुमहद् भयम् ॥ १७६.६॥
त्रिदिवं समनुप्राप्य सुमेरुशिखरं चिरम् ।
वासुदेवं समाराध्य निरातङ्का वसन्ति ते ॥ १७६.७॥
मम तद् वचनं श्रुत्वा विश्वकर्मा तु तत्क्षणात् ।
चकार प्रतिमां शुद्धां शङ्खचक्रगदाधराम् ॥ १७६.८॥
सर्वलक्षणसंयुक्तां पुण्डरीकायतेक्षणाम् ।
श्रीवत्सलक्ष्मसंयुक्तामत्युग्रां प्रतिमोत्तमाम् ॥ १७६.९॥
वनमालावृतोरस्कां मुकुटाङ्गदधारिणीम् ।
पीतवस्त्रां सुपीनांसां कुण्डलाभ्यामलंकृताम् ॥ १७६.१०॥
एवं सा प्रतिमा दिव्या गुह्यमन्त्रैस्तदा स्वयम् ।
प्रतिष्ठाकालमासाद्य मयासौ निर्मिता पुरा ॥ १७६.११॥
तस्मिन् काले तदा शक्रो देवराट् खेचरैः सह ।
जगाम ब्रह्मसदनमारुह्य गजमुत्तमम् ॥ १७६.१२॥
प्रसाद्य प्रतिमां शक्रः स्नानदानैः पुनः पुनः ।
प्रतिमां तां समाराध्य स्वपुरं पुनरागमत् ॥ १७६.१३॥
तां समाराध्य सुचिरं यतवाक्कायमानसः ।
वृत्राद्यान् असुरान् क्रूरान् नमुचिप्रमुखान् स च ॥ १७६.१४॥
निहत्य दानवान् भीमान् भुक्तवान् भुवनत्रयम् ।
द्वितीये च युगे प्राप्ते त्रेतायां राक्षसाधिपः ॥ १७६.१५॥
बभूव सुमहावीर्यो दशग्रीवः प्रतापवान् ।
दश वर्षसहस्राणि निराहारो जितेन्द्रियः ॥ १७६.१६॥
चचार व्रतमत्युग्रं तपः परमदुश्चरम् ।
तपसा तेन तुष्टोऽहं वरं तस्मै प्रदत्तवान् ॥ १७६.१७॥
अवध्यः सर्वदेवानां स दैत्योरगरक्षसाम् ।
शापप्रहरणैरुग्रैरवध्यो यमकिंकरैः ॥ १७६.१८॥
वरं प्राप्य तदा रक्षो यक्षान् सर्वगणान् इमान् ।
धनाध्यक्षं विनिर्जित्य शक्रं जेतुं समुद्यतः ॥ १७६.१९॥
संग्रामं सुमहाघोरं कृत्वा देवैः स राक्षसः ।
देवराजं विनिर्जित्य तदा इन्द्रजितेति वै ॥ १७६.२०॥
राक्षसस्तत्सुतो नाम मेघनादः प्रलब्धवान् ।
अमरावतीं ततः प्राप्य देवराजगृहे शुभे ॥ १७६.२१॥
ददर्शाञ्जनसंकाशां रावणस्तु बलान्वितः ।
प्रतिमां वासुदेवस्य सर्वलक्षणसंयुताम् ॥ १७६.२२॥
श्रीवत्सलक्ष्मसंयुक्तां पद्मपत्त्रायतेक्षणाम् ।
वनमालावृतोरस्कां मुकुटाङ्गदभूषिताम् ॥ १७६.२३॥
शङ्खचक्रगदाहस्तां पीतवस्त्रां चतुर्भुजाम् ।
सर्वाभरणसंयुक्तां सर्वकामफलप्रदाम् ॥ १७६.२४॥
विहाय रत्नसंघांश्च प्रतिमां शुभलक्षणाम् ।
पुष्पकेण विमानेन लङ्कां प्रास्थापयद् द्रुतम् ॥ १७६.२५॥
पुराध्यक्षः स्थितः श्रीमान् धर्मात्मा स विभीषणः ।
रावणस्यानुजो मन्त्री नारायणपरायणः ॥ १७६.२६॥
दृष्ट्वा तां प्रतिमां दिव्यां देवेन्द्रभवनच्युताम् ।
रोमाञ्चिततनुर्भूत्वा विस्मयं समपद्यत ॥ १७६.२७॥
प्रणम्य शिरसा देवं प्रहृष्टेनान्तरात्मना ।
अद्य मे सफलं जन्म अद्य मे सफलं तपः ॥ १७६.२८॥
इत्युक्त्वा स तु धर्मात्मा प्रणिपत्य मुहुर्मुहुः ।
ज्येष्ठं भ्रातरमासाद्य कृताञ्जलिरभाषत ॥ १७६.२९॥
राजन् प्रतिमया त्वं मे प्रसादं कर्तुमर्हसि ।
यामाराध्य जगन्नाथ निस्तरेयं भवार्णवम् ॥ १७६.३०॥