अध्याय 175, Verse 1
नारद उवाच ।
त्रिदैवत्यां सुरेशान गङ्गां ब्रूषे सुरेश्वर ।
ब्राह्मणेनाहृतां पुण्यां जगतः पावनीं शुभाम् ॥ १७५.१॥
Containing 90 sacred Sanskrit shlokas with multi-author commentaries and translations.
नारद उवाच ।
त्रिदैवत्यां सुरेशान गङ्गां ब्रूषे सुरेश्वर ।
ब्राह्मणेनाहृतां पुण्यां जगतः पावनीं शुभाम् ॥ १७५.१॥
आदिमध्यावसाने च उभयोस्तीरयोरपि ।
या व्याप्ता विष्णुनेशेन त्वया च सुरसत्तम ।
पुनः संक्षेपतो ब्रूहि न मे तृप्तिः प्रजायते ॥ १७५.२॥
ब्रह्मोवाच ।
कमण्डलुस्थिता पूर्वं ततो विष्णुपदानुगा ।
महेश्वरजटाजूटे स्थिता सैव नमस्कृता ॥ १७५.३॥
ब्रह्मतेजःप्रभावेण शिवमाराध्य यत्नतः ।
ततः प्राप्ता गिरिं पुण्यं ततः पूर्वार्णवं प्रति ॥ १७५.४॥
आगत्य संगता देवी सर्वतीर्थमयी नृणाम् ।
ईप्सितानां तथा दात्री प्रभावोऽस्या विशिष्यते ॥ १७५.५॥
एतस्या नाधिकं मन्ये किंचित् तीर्थं जगत्त्रये ।
अस्याश्चैव प्रभावेण भाव्यं यच्च मनःस्थितम् ॥ १७५.६॥
अद्याप्यस्या हि माहात्म्यं वक्तुं कैश्चिन् न शक्यते ।
भक्तितो वक्ष्यते नित्यं या ब्रह्म परमार्थतः ॥ १७५.७॥
तस्याः परतरं तीर्थं न स्याद् इति मतिर्मम ।
अन्यतीर्थेन साधर्म्यं न युज्येत कथंचन ॥ १७५.८॥
श्रुत्वा मद्वाक्यपीयूषैर्गङ्गाया गुणकीर्तनम् ।
सर्वेषां न मतिः कस्मात् तत्रैवोपरतिं गता ।
इति भाति विचित्रं मे मुने खलु जगत्त्रये ॥ १७५.९॥
नारद उवाच ।
धर्मार्थकाममोक्षाणां त्वं वेत्ता चोपदेशकः ।
छन्दांसि सरहस्यानि पुराणस्मृतयोऽपि च ॥ १७५.१०॥
धर्मशास्त्राणि यच्चान्यत् तव वाक्ये प्रतिष्ठितम् ।
तीर्थानामथ दानानां यज्ञानां तपसां तथा ॥ १७५.११॥
देवतामन्त्रसेवानामधिकं किं वद प्रभो ।
यद् ब्रूषे भगवन् भक्त्या तथा भाव्यं न चान्यथा ॥ १७५.१२॥
एतं मे संशयं ब्रह्मन् वाक्यात् त्वं छेत्तुमर्हसि ।
इष्टं मनोगतं श्रुत्वा तस्माद् विस्मयमागतः ॥ १७५.१३॥
ब्रह्मोवाच ।
शृणु नारद वक्ष्यामि रहस्यं धर्ममुत्तमम् ।
चतुर्विधानि तीर्थानि तावन्त्येव युगानि च ॥ १७५.१४॥
गुणास्त्रयश्च पुरुषास्त्रयो देवाः सनातनाः ।
वेदाश्च स्मृतिभिर्युक्ताश्चत्वारस्ते प्रकीर्तिताः ॥ १७५.१५॥
पुरुषार्थाश्च चत्वारो वाणी चापि चतुर्विधा ।
गुणा ह्यपि तु चत्वारः समत्वेनेति नारद ॥ १७५.१६॥
सर्वत्र धर्मः सामान्यो यतो धर्मः सनातनः ।
साध्यसाधनभावेन स एव बहुधा मतः ॥ १७५.१७॥
तस्याश्रयश्च द्विविधो देशः कालश्च सर्वदा ।
कालाश्रयश्च यो धर्मो हीयते वर्धते सदा ॥ १७५.१८॥
युगानामनुरूपेण पादः पादोऽस्य हीयते ।
धर्मस्येति महाप्राज्ञ देशापेक्षा तथोभयम् ॥ १७५.१९॥
कालेन चाश्रितो धर्मो देशे नित्यं प्रतिष्ठितः ।
युगेषु क्षीयमाणेषु न देशेषु स हीयते ॥ १७५.२०॥
उभयत्र विहीने च धर्मस्य स्याद् अभावता ।
तस्माद् देशाश्रितो धर्मश्चतुष्पात् सुप्रतिष्ठितः ॥ १७५.२१॥
स चापि धर्मो देशेषु तीर्थरूपेण तिष्ठति ।
कृते देशं च कालं च धर्मोऽवष्टभ्य तिष्ठति ॥ १७५.२२॥
त्रेतायां पादहीनेन स तु पादः प्रदेशतः ।
द्वापरे चार्धतः काले धर्मो देशे समास्थितः ॥ १७५.२३॥
कलौ पादेन चैकेन धर्मश्चलति संकटम् ।
एवंविधं तु यो धर्मं वेत्ति तस्य न हीयते ॥ १७५.२४॥
युगानामनुभावेन जातिभेदाश्च संस्थिताः ।
गुणेभ्यो गुणकर्तृभ्यो विचित्रा धर्मसंस्थितिः ॥ १७५.२५॥
गुणानामनुभावेन उद्भवाभिभवौ तथा ।
तीर्थानामपि वर्णानां वेदानां स्वर्गमोक्षयोः ॥ १७५.२६॥
तादृग्रूपप्रवृत्त्या तु तद् एव च विशिष्यते ।
कालोऽभिव्यञ्जकः प्रोक्तो देशोऽभिव्यङ्ग्य उच्यते ॥ १७५.२७॥
यदा यदा अभिव्यक्तिं कालो धत्ते तदा तदा ।
तद् एव व्यञ्जनं ब्रह्मंस्तस्मान् नास्त्यत्र संशयः ॥ १७५.२८॥
युगानुरूपा मूर्तिः स्याद् देवानां वैदिकी तथा ।
कर्मणामपि तीर्थानां जातीनामाश्रमस्य तु ॥ १७५.२९॥
त्रिदैवत्यं सत्ययुगे तीर्थं लोकेषु पूज्यते ।
द्विदैवत्यं युगेऽन्यस्मिन् द्वापरे चैकदैविकम् ॥ १७५.३०॥