अध्याय 174, Verse 1
ब्रह्मोवाच ।
सा संगता पूर्वमपाम्पतिं तम् ।
गङ्गा सुराणामपि वन्दनीया ।
देवैश्च सर्वैरनुगम्यमाना ।
संस्तूयमाना मुनिभिर्मरुद्भिः ॥ १७४.१॥
Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
सा संगता पूर्वमपाम्पतिं तम् ।
गङ्गा सुराणामपि वन्दनीया ।
देवैश्च सर्वैरनुगम्यमाना ।
संस्तूयमाना मुनिभिर्मरुद्भिः ॥ १७४.१॥
वसिष्ठजाबालिसयाज्ञवल्क्य+ ।
क्रत्वङ्गिरोदक्षमरीचिवैष्णवाः ।
शातातपः शौनकदेवरात+ ।
भृग्वग्निवेश्यात्रिमरीचिमुख्याः ॥ १७४.२॥
सुधूतपापा मनुगौतमादयः ।
सकौशिकास्तुम्बरुपर्वताद्याः ।
अगस्त्यमार्कण्डसपिप्पलाद्याः ।
सगालवा योगपरायणाश्च ॥ १७४.३॥
सवामदेवाङ्गिरसोऽथ भार्गवाः ।
स्मृतिप्रवीणाः श्रुतिभिर्मनोज्ञाः ।
सर्वे पुराणार्थविदो बहुज्ञास्- ।
ते गौतमीं देवनदीं तु गत्वा ॥ १७४.४॥
स्तोष्यन्ति मन्त्रैः श्रुतिभिः प्रभूतैर् ।
हृद्यैश्च तुष्टैर्मुदितैर्मनोभिः ।
तां संगतां वीक्ष्य शिवो हरिश्च ।
आत्मानमादर्शयतां मुनिभ्यः ॥ १७४.५॥
तथामरास्तौ पितृभिश्च दृष्टौ ।
स्तुवन्ति देवौ सकलार्तिहारिणौ ॥ १७४.६॥
आदित्या वसवो रुद्रा मरुतो लोकपालकाः ।
कृताञ्जलिपुटाः सर्वे स्तुवन्ति हरिशंकरौ ॥ १७४.७॥
संगमेषु प्रसिद्धेषु नित्यं सप्तसु नारद ।
समुद्रस्य च गङ्गाया नित्यं देवौ प्रतिष्ठितौ ॥ १७४.८॥
गौतमेश्वर आख्यातो यत्र देवो महेश्वरः ।
नित्यं संनिहितस्तत्र माधवो रमया सह ॥ १७४.९॥
ब्रह्मेश्वर इति ख्यातो मयैव स्थापितः शिवः ।
लोकानामुपकारार्थमात्मनः कारणान्तरे ॥ १७४.१०॥
चक्रपाणिरिति ख्यातः स्तुतो देवैर्मया सह ।
तत्र संनिहितो विष्णुर्देवैः सह मरुद्गणैः ॥ १७४.११॥
ऐन्द्रतीर्थमिति ख्यातं तद् एव हयमूर्धकम् ।
हयमूर्धा तत्र विष्णुस्तन्मूर्धनि सुरा अपि ।
सोमतीर्थमिति ख्यातं यत्र सोमेश्वरः शिवः ॥ १७४.१२॥
इन्द्रस्य सोमश्रवसो देवैश्च ऋषिभिस्तथा ।
प्रार्थितः सोम एवादाविन्द्रायेन्दो परिस्रव ॥ १७४.१३॥
सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः ।
देवा आदित्या ये सप्त तेभिः सोमाभिरक्ष न ।
इन्द्रायेन्दो परिस्रव ॥ १७४.१४॥
यत् ते राजञ् छृतं हविस्तेन सोमाभिरक्ष नः ।
अरातीवा मा नस्तारीन् मो च नः किंचनाममद् ।
इन्द्रायेन्दो परिस्रव ॥ १७४.१५॥
ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन् गिरः ।
सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिर् ।
इन्द्रायेन्दो परिस्रव ॥ १७४.१६॥
कारुरहं ततो भिषग् उपलप्रक्षिणी नना ।
नानाधियो वसूयवोऽनु गा इव तस्थिम ।
इन्द्रायेन्दो परिस्रव ॥ १७४.१७॥
एवमुक्त्वा च ऋषिभिः सोमं प्राप्य च वज्रिणे ।
तेभ्यो दत्त्वा ततो यज्ञः पूर्णो जातः शतक्रतोः ॥ १७४.१८॥
तत् सोमतीर्थमाख्यातमाग्नेयं पुरतस्तु तत् ।
अग्निरिष्ट्वा महायज्ञैर्मामाराध्य मनीषितम् ॥ १७४.१९॥
सम्प्राप्तवान् मत्प्रसादाद् अहं तत्रैव नित्यशः ।
स्थितो लोकोपकारार्थं तत्र विष्णुः शिवस्तथा ॥ १७४.२०॥
तस्माद् आग्नेयमाख्यातमादित्यं तदनन्तरम् ।
यत्रादित्यो वेदमयो नित्यमेति उपासितुम् ॥ १७४.२१॥
रूपान्तरेण मध्याह्ने द्रष्टुं मां शंकरं हरिम् ।
नमस्कार्यस्तत्र सदा मध्याह्ने सकलो जनः ॥ १७४.२२॥
रूपेण केन सविता समायातीत्यनिश्चयात् ।
तस्माद् आदित्यमाख्यातं बार्हस्पत्यमनन्तरम् ॥ १७४.२३॥
बृहस्पतिः सुरैः पूजां तस्मात् तीर्थाद् अवाप ह ।
ईजे च यज्ञान् विविधान् बार्हस्पत्यं ततो विदुः ॥ १७४.२४॥
तत्तीर्थस्मरणाद् एव ग्रहशान्तिर्भविष्यति ।
तस्माद् अप्यपरं तीर्थमिन्द्रगोपे नगोत्तमे ॥ १७४.२५॥
प्रतिष्ठितं महालिङ्गं कस्मिंश्चित् कारणान्तरे ।
हिमालयेन तत् तीर्थमद्रितीर्थं तद् उच्यते ॥ १७४.२६॥
तत्र स्नानं च दानं च सर्वकामप्रदं शुभम् ।
एवं सा गौतमी गङ्गा ब्रह्माद्रेश्च विनिःसृता ॥ १७४.२७॥
यावत् सागरगा देवी तत्र तीर्थानि कानिचित् ।
संक्षेपेण मयोक्तानि रहस्यानि शुभानि च ॥ १७४.२८॥
वेदे पुराणे ऋषिभिः प्रसिद्धा ।
या गौतमी लोकनमस्कृता च ।
वक्तुं कथं तामतिसुप्रभावाम् ।
अशेषतो नारद कस्य शक्तिः ॥ १७४.२९॥
भक्त्या प्रवृत्तस्य यथाकथंचिन् ।
नैवापराधोऽस्ति न संशयोऽत्र ।
तस्माच्च दिङ्मात्रमतिप्रयासात् ।
संसूचितं लोकहिताय तस्याः ॥ १७४.३०॥