अध्याय 173, Verse 1
ब्रह्मोवाच ।
ऋषिसत्त्रमिति ख्यातम् ऋषयः सप्त नारद ।
निषेदुस्तपसे यत्र यत्र भीमेश्वरः शिवः ॥ १७३.१॥
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
ऋषिसत्त्रमिति ख्यातम् ऋषयः सप्त नारद ।
निषेदुस्तपसे यत्र यत्र भीमेश्वरः शिवः ॥ १७३.१॥
तत्रेदं वृत्तमाख्यास्ये देवर्षिपितृबृंहितम् ।
शृणु यत्नेन वक्ष्यामि सर्वकामप्रदं शुभम् ॥ १७३.२॥
सप्तधा व्यभजन् गङ्गाम् ऋषयः सप्त नारद ।
वासिष्ठी दाक्षिणेयी स्याद् वैश्वामित्री तदुत्तरा ॥ १७३.३॥
वामदेव्यपरा ज्ञेया गौतमी मध्यतः शुभा ।
भारद्वाजी स्मृता चान्या आत्रेयी चेत्यथापरा ॥ १७३.४॥
जामदग्नी तथा चान्या व्यपदिष्टा तु सप्तधा ।
तैः सर्वैरृषिभिस्तत्र यष्टुमिष्टैर्महात्मभिः ॥ १७३.५॥
निष्पादितं महासत्त्रम् ऋषिभिः पारदर्शिभिः ।
एतस्मिन्न् अन्तरे तत्र देवानां प्रबलो रिपुः ॥ १७३.६॥
विश्वरूप इति ख्यातो मुनीनां सत्त्रमभ्यगात् ।
ब्रह्मचर्येण तपसा तान् आराध्य यथाविधि ।
विनयेनाथ पप्रच्छ ऋषीन् सर्वान् अनुक्रमात् ॥ १७३.७॥
विश्वरूप उवाच ।
ध्रुवं सर्वे यथाकामं मम स्वास्थ्येन हेतुना ।
यथा स्याद् बलवान् पुत्रो देवानामपि दुर्धरः ।
यज्ञैर्वा तपसा वापि मुनयो वक्तुमर्हथ ॥ १७३.८॥
ब्रह्मोवाच ।
तत्र प्राह महाबुद्धिर्विश्वामित्रो महामनाः ॥ १७३.९॥
विश्वामित्र उवाच ।
कर्मणा तात लभ्यन्ते फलानि विविधानि च ।
त्रयाणां कारणानां च कर्म प्रथमकारणम् ॥ १७३.१०॥
ततश्च कारणं कर्ता ततश्चान्यत् प्रकीर्तितम् ।
उपादानं तथा बीजं न च कर्म विदुर्बुधाः ॥ १७३.११॥
कर्मणां कारणत्वं च कारणे पुष्कले सति ।
भावाभावौ फले दृष्टौ तस्मात् कर्माश्रितं फलम् ॥ १७३.१२॥
कर्मापि द्विविधं ज्ञेयं क्रियमाणं तथा कृतम् ।
कर्तव्यं क्रियमाणस्य साधनं यद् यद् उच्यते ॥ १७३.१३॥
तद्भावाः कर्मसिद्धौ च उभयत्रापि कारणम् ।
यद् यद् भावयते जन्तुः कर्म कुर्वन् विचक्षणः ॥ १७३.१४॥
तद्भावनानुरूपेण फलनिष्पत्तिरुच्यते ।
करोति कर्म विधिवद् विना भावनया यदि ॥ १७३.१५॥
अन्यथा स्यात् फलं सर्वं तस्य भावानुरूपतः ।
तस्मात् तपो व्रतं दानं जपयज्ञादिकाः क्रियाः ॥ १७३.१६॥
कर्मणस्त्वनुरूपेण फलं दास्यन्ति भावतः ।
तस्माद् भावानुरूपेण कर्म वै दास्यते फलम् ॥ १७३.१७॥
भावस्तु त्रिविधो ज्ञेयः सात्त्विको राजसस्तथा ।
तामसस्तु तथा ज्ञेयः फलं कर्मानुसारतः ॥ १७३.१८॥
भावनानुगुणं चेति विचित्रा कर्मणां स्थितिः ।
तस्माद् इच्छानुसारेण भावं कुर्याद् विचक्षणः ॥ १७३.१९॥
पश्चात् कर्मापि कर्तव्यं फलदातापि तद्विधम् ।
फलं ददाति फलिनां फले यदि प्रवर्तते ॥ १७३.२०॥
कर्मकारो न तत्रास्ति कुर्यात् कर्म स्वभावतः ।
तद् एव चोपदानादि सत्त्वादिगुणभेदतः ॥ १७३.२१॥
भावात् प्रारभते तद्वद् भावैः फलमवाप्यते ।
धर्मार्थकाममोक्षाणां कर्म चैव हि कारणम् ॥ १७३.२२॥
भावस्थितं भवेत् कर्म मुक्तिदं बन्धकारणम् ।
स्वभावानुगुणं कर्म स्वस्यैवेह परत्र च ॥ १७३.२३॥
फलानि विविधान्याशु करोति समतानुगम् ।
एक एव पदार्थोऽसौ भावैर्भेदः प्रदृश्यते ॥ १७३.२४॥
क्रियते भुज्यते वापि तस्माद् भावो विशिष्यते ।
यथाभावं कर्म कुरु यथेप्सितमवाप्स्यसि ॥ १७३.२५॥
ब्रह्मोवाच ।
एतच्छ्रुत्वा ऋषेर्वाक्यं विश्वामित्रस्य धीमतः ।
तपस्तप्त्वा बहुकालं तामसं भावमाश्रितः ॥ १७३.२६॥
विश्वरूपः कर्म भीमं चकार सुरभीषणम् ।
पश्यत्सु ऋषिमुख्येषु वार्यमाणोऽपि नित्यशः ॥ १७३.२७॥
आत्मकोपानुसारेण भीमं कर्म तथाकरोत् ।
भीषणे कुण्डखाते तु भीषणे जातवेदसि ॥ १७३.२८॥
भीषणं रौद्रपुरुषं ध्यात्वात्मानं गुहाशयम् ।
एवं तपन्तमालक्ष्य वाग् उवाचाशरीरिणी ॥ १७३.२९॥
जटाजूटं विनात्मानं न च वृत्रो व्यजीयत ।
वृथात्मानं विश्वरूपो जुहुयाज्जातवेदसि ॥ १७३.३०॥