अध्याय 172, Verse 1
ब्रह्मोवाच ।
सामुद्रं तीर्थमाख्यातं सर्वतीर्थफलप्रदम् ।
तस्य स्वरूपं वक्ष्यामि शृणु नारद तन्मनाः ॥ १७२.१॥
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
सामुद्रं तीर्थमाख्यातं सर्वतीर्थफलप्रदम् ।
तस्य स्वरूपं वक्ष्यामि शृणु नारद तन्मनाः ॥ १७२.१॥
विसृष्टा गौतमेनासौ गङ्गा पापप्रणाशनी ।
लोकानामुपकारार्थं प्रायात् पूर्वार्णवं प्रति ॥ १७२.२॥
आगच्छन्ती देवनदी कमण्डलुधृता मया ।
शिरसा च धृता देवी शम्भुना परमात्मना ॥ १७२.३॥
विष्णुपादात् प्रसूतां तां ब्राह्मणेन महात्मना ।
आनीतां मर्त्यभवनं स्मरणाद् अघनाशनीम् ॥ १७२.४॥
गुरोर्गुरुतमां सिन्धुर्दृष्ट्वा कृत्यमचिन्तयत् ।
या वन्द्या जगतामीशा ब्रह्मेशाद्यैर्नमस्कृता ॥ १७२.५॥
तामहं प्रतिगच्छेयं नो चेत् स्याद् धर्मदूषणम् ।
आगच्छन्तं महात्मानं यो मोहान् नोपतिष्ठते ॥ १७२.६॥
न तस्य कोऽपि त्रातास्ति पापिनो लोकयोर्द्वयोः ।
एवं विमृश्य रत्नेशो मूर्तिमान् विनयान्वितः ।
कृताञ्जलिपुटो गङ्गामाहेदं सरिताम्पतिः ॥ १७२.७॥
सिन्धुरुवाच ।
रसातलगतं वारि पृथिव्यां यन् नभस्तले ।
तन् मामेवात्र विशतु नाहं वक्ष्यामि किंचन ॥ १७२.८॥
मयि रत्नानि पीयूषं पर्वता राक्षसासुराः ।
एतान् अप्यखिलान् अन्यान् भीमान् संधारयाम्यहम् ॥ १७२.९॥
ममान्तः कमलायुक्तो विष्णुः स्वपिति नित्यदा ।
ममाशक्यं न किमपि विद्यते सचराचरे ॥ १७२.१०॥
महत्यभ्यागते कुर्यात् प्रत्युत्थानं न यो मदात् ।
स धर्मादिपरिभ्रष्टो निरयं तु समाप्नुयात् ॥ १७२.११॥
न तान् मे बिभ्रतः खेदो विनागस्त्यपराभवात् ।
किं तु त्वं गौरवेणैषामतिरिक्ता ततस्त्वहम् ॥ १७२.१२॥
ब्रवीमि देवि गङ्गे मां त्वं साम्यात् संगता भव ।
नैकरूपामहं शक्तः संगन्तुं बहुधा यदि ॥ १७२.१३॥
सङ्गमेष्यसि देवि त्वं संगच्छेऽहं न चान्यथा ।
गङ्गे समेष्यसि यदि बहुधा तद् विचारये ॥ १७२.१४॥
ब्रह्मोवाच ।
तमेवंवादिनं सिन्धुमपामीशं तदाब्रवीत् ।
गङ्गा सा गौतमी देवी कुरु चैतद् वचो मम ॥ १७२.१५॥
सप्तर्षीणां च या भार्या अरुन्धतिपुरोगमाः ।
भर्तृभिः सहिताः सर्वा आनय त्वं तदा त्वहम् ॥ १७२.१६॥
अल्पभूता भविष्यामि ततः स्यां तव संगता ।
तथेत्युक्त्वा सप्तर्षीणां भार्याभिरृषिभिर्वृतः ॥ १७२.१७॥
आनयामास तां देवी सप्तधा सा व्यभज्यत ।
सा चेयं गौतमी गङ्गा सप्तधा सागरं गता ॥ १७२.१८॥
सप्तर्षीणां तु नाम्ना तु सप्त गङ्गास्ततोऽभवन् ।
तत्र स्नानं च दानं च श्रवणं पठनं तथा ॥ १७२.१९॥
स्मरणं चापि यद् भक्त्या सर्वकामप्रदं भवेत् ।
नास्माद् अन्यत् परं तीर्थं समुद्राद् भुवनत्रये ।
पापहानौ भुक्तिमुक्ति+ ।
प्राप्तौ च मनसो मुदे ॥ १७२.२०॥