अध्याय 171, Verse 1
ब्रह्मोवाच ।
उर्वशीतीर्थमाख्यातमश्वमेधफलप्रदम् ।
स्नानदानमहादेव+ ।
वासुदेवार्चनादिभिः ॥ १७१.१॥
Containing 48 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
उर्वशीतीर्थमाख्यातमश्वमेधफलप्रदम् ।
स्नानदानमहादेव+ ।
वासुदेवार्चनादिभिः ॥ १७१.१॥
महेश्वरो यत्र देवो यत्र शार्ङ्गधरो हरिः ।
प्रमतिर्नाम राजासीत् सार्वभौमः प्रतापवान् ॥ १७१.२॥
रिपूञ् जित्वा जगामाशु इन्द्रलोकं सुरैर्वृतम् ।
तत्रापश्यत् सुरपतिं मरुद्भिः सह नारद ॥ १७१.३॥
जहासेन्द्रं पाशहस्तं प्रमतिः क्षत्रियर्षभः ।
तं हसन्तमथालक्ष्य हरिः प्रमतिमब्रवीत् ॥ १७१.४॥
इन्द्र उवाच ।
देवालये महाबुद्धे मरुद्भिः क्रीडितैरलम् ।
दिशो जित्वा दिवं प्राप्तः कुरु क्रीडां मया सह ॥ १७१.५॥
ब्रह्मोवाच ।
सकषायं हरिवचो निशम्य प्रमतिर्नृपः ।
तथेत्युवाच देवेन्द्रं निष्कृतिं कां तु मन्यसे ।
तच्छ्रुत्वा प्रमतेर्वाक्यं सुरराण् नृपमब्रवीत् ॥ १७१.६॥
इन्द्र उवाच ।
उर्वश्येव पणोऽस्माकं प्राप्या या निखिलैर्मखैः ॥ १७१.७॥
ब्रह्मोवाच ।
एतच्छ्रुत्वेन्द्रवचनं प्रमतिः प्राह गर्वितः ।
उर्वशीं निष्कृतिं मन्ये त्वं राजन् किं नु मन्यसे ॥ १७१.८॥
यद् ब्रवीषि सुरेशान तन् मन्येऽहं शतक्रतो ।
प्राहेन्द्रं प्रमतिस्तद्वन् निष्कृत्यै दक्षिणं करम् ।
सवर्म सशरं धर्म्यं देहि दीव्यामहे वयम् ॥ १७१.९॥
ब्रह्मोवाच ।
तावेवं संविदं कृत्वा देवनायोपतस्थतुः ।
प्रमतिर्जितवांस्तत्र उर्वशीं दैवतस्त्रियम् ।
तां जित्वा प्रमतिः प्राह संरम्भात् तं शतक्रतुम् ॥ १७१.१०॥
प्रमतिरुवाच ।
निष्कृत्यै पुनरन्यन् मे पश्चाद् दीव्ये
इन्द्र उवाच ।
देवयोग्यमथो वज्रं जैत्रं सरथमुत्तमम् ।
दीव्येऽहं तेन नृपते करेणाप्यविचारयन् ॥ १७१.१२॥
ब्रह्मोवाच ।
स गृहीत्वा तदा पाशान् अन्यांश्च मणिभूषितान् ।
जितमित्यब्रवीच्छक्रं प्रमतिः प्रहसंस्तदा ॥ १७१.१३॥
एतस्मिन्न् अन्तरे प्रायाद् अक्षज्ञस्तत्र नारद ।
विश्वावसुरिति ख्यातो गन्धर्वाणां महेश्वरः ॥ १७१.१४॥
विश्वावसुरुवाच ।
गन्धर्वविद्यया राजंस्तया दीव्यामहे त्वया ।
तथेत्युक्त्वा स नृपतिर्जितमित्यब्रवीत् तदा ॥ १७१.१५॥
तौ जित्वा नृपतिर्मौर्ख्याद् देवेन्द्रं प्राह कश्मलम् ॥ १७१.१६॥
प्रमतिरुवाच ।
रणे वा देवने वापि न त्वं जेता कथंचन ।
महेन्द्र सततं तस्माद् अस्मदाराधको भव ।
वद केन प्रकारेण जाता देवेन्द्रता तव ॥ १७१.१७॥
ब्रह्मोवाच ।
तथा प्राहोर्वशीं गर्वाद् गच्छ कर्मकरी भव ।
उर्वशी प्राह देवेषु यथा वर्ते तथा त्वयि ।
वर्तेय सर्वभावेन न मां धिक्कर्तुमर्हसि ॥ १७१.१८॥
ब्रह्मोवाच ।
ततस्तां प्रमतिः प्राह त्वादृश्यः सन्ति चारिकाः ।
त्वं किं विलज्जसे भद्रे गच्छ कर्मकरी भव ॥ १७१.१९॥
एतच्छ्रुत्वा नृपेणोक्तं गन्धर्वाधिपतिस्तदा ।
चित्रसेन इति ख्यातः सुतो विश्वावसोर्बली ॥ १७१.२०॥
चित्रसेन उवाच ।
दीव्येऽहं वै त्वया राजन् सर्वेणानेन भूपते ।
राज्येन जीवितेनापि मदीयेन तवापि च ॥ १७१.२१॥
ब्रह्मोवाच ।
तथेत्युक्त्वा पुनरुभौ चित्रसेननृपोत्तमौ ।
दीव्येतामभिसंरब्धौ चित्रसेनोऽजयत् तदा ॥ १७१.२२॥
गान्धर्वैस्तं महापाशैर्बबन्ध नृपतिं तदा ।
चित्रसेनोऽजयत् सर्वमुर्वशीमुख्यतः पणैः ॥ १७१.२३॥
राज्यं कोशं बलं चैव यद् अन्यद् वसु किंचन ।
चित्रसेनस्य तज्जातं यद् आसीत् प्रमतेर्धनम् ॥ १७१.२४॥
तस्य पुत्रो बाल एव पुरोधसमुवाच ह ।
वैश्वामित्रं महाप्राज्ञं मधुच्छन्दसमोजसा ॥ १७१.२५॥
प्रमतिपुत्र उवाच ।
किं मे पित्रा कृतं पापं क्व वा बद्धो महामतिः ।
कथमेष्यति स्वं स्थानं कथं पाशैर्विमोक्ष्यते ॥ १७१.२६॥
ब्रह्मोवाच ।
सुमतेर्वचनं श्रुत्वा ध्यात्वा स मुनिसत्तमः ।
मधुच्छन्दा जगादेदं प्रमतेर्वर्तनं तदा ॥ १७१.२७॥
मधुच्छन्दा उवाच ।
देवलोके तव पिता बद्ध आस्ते महामते ।
कैतवैर्बहुदोषैश्च भ्रष्टराज्यो बभूव ह ॥ १७१.२८॥
यो याति कैतवसभां स चापि क्लेशभाग् भवेत् ।
द्यूतमद्यामिषादीनि व्यसनानि नृपात्मज ॥ १७१.२९॥
पापिनामेव जायन्ते सदा पापात्मकानि हि ।
एकैकमप्यनर्थाय पापाय नरकाय च ॥ १७१.३०॥