अध्याय 170, Verse 1
ब्रह्मोवाच ।
चक्षुस्तीर्थमिति ख्यातं रूपसौभाग्यदायकम् ।
यत्र योगेश्वरो देवो गौतम्या दक्षिणे तटे ॥ १७०.१॥
Containing 89 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
चक्षुस्तीर्थमिति ख्यातं रूपसौभाग्यदायकम् ।
यत्र योगेश्वरो देवो गौतम्या दक्षिणे तटे ॥ १७०.१॥
पुरं भौवनमाख्यातं गिरिमूर्ध्न्यभिधीयते ।
यत्रासौ भौवनो राजा क्षत्रधर्मपरायणः ॥ १७०.२॥
तस्मिन् पुरवरे कश्चिद् ब्राह्मणो वृद्धकौशिकः ।
तत्पुत्रो गौतम इति ख्यातो वेदविदुत्तमः ॥ १७०.३॥
तस्य मातुर्मनोदोषाद् विपरीतोऽभवद् द्विजः ।
सखा तस्य वणिक् कश्चिन् मणिकुण्डल उच्यते ॥ १७०.४॥
तेन सख्यं द्विजस्यासीद् विषमं द्विजवैश्ययोः ।
श्रीमद्दरिद्रयोर्नित्यं परस्परहितैषिणोः ॥ १७०.५॥
कदाचिद् गौतमो वैश्यं वित्तेशं मणिकुण्डलम् ।
प्राहेदं वचनं प्रीत्या रहः स्थित्वा पुनः पुनः ॥ १७०.६॥
गौतम उवाच ।
गच्छामो धनमादातुं पर्वतान् उदधीन् अपि ।
यौवनं तद् वृथा ज्ञेयं विना सौख्यानुकूल्यतः ।
धनं विना तत् कथं स्याद् अहो धिङ् निर्धनं नरम् ॥ १७०.७॥
ब्रह्मोवाच ।
कुण्डलो द्विजमाहेदं मत्पित्रोपार्जितं धनम् ।
बह्वस्ति किं धनेनाद्य करिष्ये द्विजसत्तम ।
द्विजः पुनरुवाचेदं मणिकुण्डलमोजसा ॥ १७०.८॥
गौतम उवाच ।
धर्मार्थज्ञानकामानां को नु तृप्तः प्रशस्यते ।
उत्कर्षप्राप्तिरेवैषां सखे श्लाघ्या शरीरिणाम् ॥ १७०.९॥
स्वेनैव व्यवसायेन धन्या जीवन्ति जन्तवः ।
परदत्तार्थसंतुष्टाः कष्टजीविन एव ते ॥ १७०.१०॥
स पुत्रः शस्यते लोके पितृभिश्चाभिनन्द्यते ।
यः पैत्र्यमभिलिप्सेत न वाचापि तु कुण्डल ॥ १७०.११॥
स्वबाहुबलमाश्रित्य योऽर्थान् अर्जयते सुतः ।
स कृतार्थो भवेल्लोके पैत्र्यं वित्तं न तु स्पृशेत् ॥ १७०.१२॥
स्वयमार्ज्य सुतो वित्तं पित्रे दास्यति बन्धवे ।
तं तु पुत्रं विजानीयाद् इतरो योनिकीटकः ॥ १७०.१३॥
ब्रह्मोवाच ।
एतच्छ्रुत्वा तु तद् वाक्यं ब्राह्मणस्याभिलाषिणः ।
तथेति मत्वा तद्वाक्यं रत्नान्यादाय सत्वरः ॥ १७०.१४॥
आत्मकीयानि वित्तानि गौतमाय न्यवेदयत् ।
धनेनैतेन देशांश्च परिभ्रम्य यथासुखम् ॥ १७०.१५॥
धनान्यादाय वित्तानि पुनरेष्यामहे गृहम् ।
सत्यमेव वणिग् वक्ति स तु विप्रः प्रतारकः ॥ १७०.१६॥
पापात्मा पापचित्तं च न बुबोध वणिग् द्विजम् ।
तौ परस्परमामन्त्र्य मातापित्रोरजानतोः ॥ १७०.१७॥
देशाद् देशान्तरं यातौ धनार्थं तौ वणिग्द्विजौ ।
वणिग्घस्तस्थितं वित्तं ब्राह्मणो हर्तुमिच्छति ॥ १७०.१८॥
ब्राह्मण उवाच ।
येन केनाप्युपायेन तद् धनं हि समाहरे ।
अहो पृथिव्यां रम्याणि नगराणि सहस्रशः ॥ १७०.१९॥
इष्टप्रदात्र्यः कामस्य देवता इव योषितः ।
मनोहरास्तत्र तत्र सन्ति किं क्रियते मया ॥ १७०.२०॥
धनमाहृत्य यत्नेन योषिद्भ्यो यदि दीयते ।
भुज्यन्ते तास्ततो नित्यं सफलं जीवितं हि तत् ॥ १७०.२१॥
नृत्यगीतरतो नित्यं पण्यस्त्रीभिरलंकृतः ।
भोक्ष्ये कथं तु तद् वित्तं वैश्यान् मद्धस्तमागतम् ॥ १७०.२२॥
ब्रह्मोवाच ।
एवं चिन्तयमानोऽसौ गौतमः प्रहसन्न् इव ।
मणिकुण्डलमाहेदमधर्माद् एव जन्तवः ॥ १७०.२३॥
वृद्धिं सुखमभीष्टानि प्राप्नुवन्ति न संशयः ।
धर्मिष्ठाः प्राणिनो लोके दृश्यन्ते दुःखभागिनः ॥ १७०.२४॥
तस्माद् धर्मेण किं तेन दुःखैकफलहेतुना ॥ १७०.२५॥
ब्रह्मोवाच ।
नेत्युवाच ततो वैश्यः सुखं धर्मे प्रतिष्ठितम् ।
पापे दुःखं भयं शोको दारिद्र्यं क्लेश एव च ।
यतो धर्मस्ततो मुक्तिः स्वधर्मः किं विनश्यति ॥ १७०.२६॥
ब्रह्मोवाच ।
एवं विवदतोस्तत्र सम्परायस्तयोरभूत् ।
यस्य पक्षो भवेज्ज्यायान् स परार्थमवाप्नुयात् ॥ १७०.२७॥
पृच्छावः कस्य प्राबल्यं धर्मिणो वाप्यधर्मिणः ।
वेदात् तु लौकिकं ज्येष्ठं लोके धर्मात् सुखं भवेत् ॥ १७०.२८॥
एवं विवदमानौ तावूचतुः सकलाञ् जनान् ।
धर्मस्य वाप्यधर्मस्य प्राबल्यमनयोर्भुवि ॥ १७०.२९॥
तद् वदन्तु यथावृत्तमेवमूचतुरोजसा ।
एवं तत्रोचिरे केचिद् ये धर्मेणानुवर्तिनः ॥ १७०.३०॥