अध्याय 17, Verse 1
लोमहर्षण उवाच ।
यत् तु सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम् ।
ददावहारयद् बभ्रुर्भोजेन शतधन्वना ॥ १७.१॥
Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.
लोमहर्षण उवाच ।
यत् तु सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम् ।
ददावहारयद् बभ्रुर्भोजेन शतधन्वना ॥ १७.१॥
सदा हि प्रार्थयामास सत्यभामामनिन्दिताम् ।
अक्रूरोऽन्तरमन्विष्यन् मणिं चैव स्यमन्तकम् ॥ १७.२॥
सत्राजितं ततो हत्वा शतधन्वा महाबलः ।
रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान् ॥ १७.३॥
अक्रूरस्तु तदा विप्रा रत्नमादाय चोत्तमम् ।
समयं कारयां चक्रे नावेद्योऽहं त्वयेत्युत ॥ १७.४॥
वयमभ्युत्प्रपत्स्यामः कृष्णेन त्वां प्रधर्षितम् ।
ममाद्य द्वारका सर्वा वशे तिष्ठत्यसंशयम् ॥ १७.५॥
हते पितरि दुःखार्ता सत्यभामा मनस्विनी ।
प्रययौ रथमारुह्य नगरं वारणावतम् ॥ १७.६॥
सत्यभामा तु तद् वृत्तं भोजस्य शतधन्वनः ।
भर्तुर्निवेद्य दुःखार्ता पार्श्वस्थाश्रूण्यवर्तयत् ॥ १७.७॥
पाण्डवानां च दग्धानां हरिः कृत्वोदकक्रियाम् ।
कुल्यार्थे चापि पाण्डूनां न्ययोजयत सात्यकिम् ॥ १७.८॥
ततस्त्वरितमागम्य द्वारकां मधुसूदनः ।
पूर्वजं हलिनं श्रीमान् इदं वचनमब्रवीत् ॥ १७.९॥
श्रीकृष्ण उवाच ।
हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना ।
स्यमन्तकस्तु मद्नामी तस्य प्रभुरहं विभो ॥ १७.१०॥
तद् आरोह रथं शीघ्रं भोजं हत्वा महारथम् ।
स्यमन्तको महाबाहो अस्माकं स भविष्यति ॥ १७.११॥
लोमहर्षण उवाच ।
ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः ।
शतधन्वा ततोऽक्रूरं सर्वतोदिशमैक्षत ॥ १७.१२॥
संरब्धौ तावुभौ तत्र दृष्ट्वा भोजजनार्दनौ ।
शक्तोऽपि शापाद् धार्दिक्यमक्रूरो नान्वपद्यत ॥ १७.१३॥
अपयाने ततो बुद्धिं भोजश्चक्रे भयार्दितः ।
योजनानां शतं साग्रं हृदया प्रत्यपद्यत ॥ १७.१४॥
विख्याता हृदया नाम शतयोजनगामिनी ।
भोजस्य वडवा विप्रा यया कृष्णमयोधयत् ॥ १७.१५॥
क्षीणां जवेन हृदयामध्वनः शतयोजने ।
दृष्ट्वा रथस्य स्वां वृद्धिं शतधन्वानमर्दयत् ॥ १७.१६॥
ततस्तस्या हतायास्तु श्रमात् खेदाच्च भो द्विजाः ।
खमुत्पेतुरथ प्राणाः कृष्णो राममथाब्रवीत् ॥ १७.१७॥
श्रीकृष्ण उवाच ।
तिष्ठेह त्वं महाबाहो दृष्टदोषा हया मया ।
पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ॥ १७.१८॥
पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः ।
मिथिलामभितो विप्रा जघान परमास्त्रवित् ॥ १७.१९॥
स्यमन्तकं च नापश्यद् धत्वा भोजं महाबलम् ।
निवृत्तं चाब्रवीत् कृष्णं मणिं देहीति लाङ्गली ॥ १७.२०॥
नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः ।
धिक्षब्दपूर्वमसकृत् प्रत्युवाच जनार्दनम् ॥ १७.२१॥
बलराम उवाच ।
भ्रातृत्वान् मर्षयाम्येष स्वस्ति तेऽस्तु व्रजाम्यहम् ।
कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः ॥ १७.२२॥
प्रविवेश ततो रामो मिथिलामरिमर्दनः ।
सर्वकामैरुपहृतैर्मिथिलेनाभिपूजितः ॥ १७.२३॥
एतस्मिन्न् एव काले तु बभ्रुर्मतिमतां वरः ।
नानारूपान् क्रतून् सर्वान् आजहार निरर्गलान् ॥ १७.२४॥
दीक्षामयं स कवचं रक्षार्थं प्रविवेश ह ।
स्यमन्तककृते प्राज्ञो गान्दीपुत्रो महायशाः ॥ १७.२५॥
अथ रत्नानि चान्यानि धनानि विविधानि च ।
षष्टिं वर्षाणि धर्मात्मा यज्ञेष्वेव न्ययोजयत् ॥ १७.२६॥
अक्रूरयज्ञा इति ते ख्यातास्तस्य महात्मनः ।
बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः ॥ १७.२७॥
अथ दुर्योधनो राजा गत्वा स मिथिलां प्रभुः ।
गदाशिक्षां ततो दिव्यां बलदेवाद् अवाप्तवान् ॥ १७.२८॥
सम्प्रसाद्य ततो रामो वृष्ण्यन्धकमहारथैः ।
आनीतो द्वारकामेव कृष्णेन च महात्मना ॥ १७.२९॥
अक्रूरश्चान्धकैः सार्धमायातः पुरुषर्षभः ।
हत्वा सत्राजितं सुप्तं सहबन्धुं महाबलः ॥ १७.३०॥