अध्याय 169, Verse 1
ब्रह्मोवाच ।
भिल्लतीर्थमिति ख्यातं रोगघ्नं पापनाशनम् ।
महादेवपदाम्भोज+ ।
युगभक्तिप्रदायकम् ॥ १६९.१॥
Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
भिल्लतीर्थमिति ख्यातं रोगघ्नं पापनाशनम् ।
महादेवपदाम्भोज+ ।
युगभक्तिप्रदायकम् ॥ १६९.१॥
तत्राप्येवंविधां पुण्यां कथां शृणु महामते ।
गङ्गाया दक्षिणे तीरे श्रीगिरेरुत्तरे तटे ॥ १६९.२॥
आदिकेश इति ख्यात ऋषिभिः परिपूजितः ।
महादेवो लिङ्गरूपी सदास्ते सर्वकामदः ॥ १६९.३॥
सिन्धुद्वीप इति ख्यातो मुनिः परमधार्मिकः ।
तस्य भ्राता वेद इति स चापि परमो ऋषिः ॥ १६९.४॥
तमादिकेशं वै देवं त्रिपुरारिं त्रिलोचनम् ।
नित्यं पूजयते भक्त्या प्राप्ते मध्यंदिने रवौ ॥ १६९.५॥
भिक्षाटनाय वेदोऽपि याति ग्रामं विचक्षणः ।
याते तस्मिन् द्विजवरे व्याधः परमधार्मिकः ॥ १६९.६॥
तस्मिन् गिरिवरे पुण्ये मृगयां याति नित्यशः ।
अटित्वा विविधान् देशान् मृगान् हत्वा यथासुखम् ॥ १६९.७॥
मुखे गृहीत्वा पानीयमभिषेकाय शूलिनः ।
न्यस्य मांसं धनुष्कोट्यां श्रान्तो व्याधः शिवं प्रभुम् ॥ १६९.८॥
आदिकेशं समागत्य न्यस्य मांसं ततो बहिः ।
गङ्गां गत्वा मुखे वारि गृहीत्वागत्य तं शिवम् ॥ १६९.९॥
यस्य कस्यापि पत्त्राणि करेणादाय भक्तितः ।
अपरेण च मांसानि नैवेद्यार्थं च तन्मनाः ॥ १६९.१०॥
आदिकेशं समागत्य वेदेनार्चितमोजसा ।
पादेनाहत्य तां पूजां मुखानीतेन वारिणा ॥ १६९.११॥
स्नापयित्वा शिवं देवमर्चयित्वा तु पत्त्रकैः ।
कल्पयित्वा तु तन् मांसं शिवो मे प्रीयतामिति ॥ १६९.१२॥
नैव किंचित् स जानाति शिवभक्तिं विना शुभाम् ।
ततो याति स्वकं स्थानं मांसेन तु यथागतम् ॥ १६९.१३॥
करोत्येतादृग् आगत्य *आगत्य प्रत्यहमेव सः ।
तथापीशस्तुतोषास्य विचित्रा हीश्वरस्थितिः ॥ १६९.१४॥
यावन् नायात्यसौ भिल्लः शिवस्तावन् न सौख्यभाक् ।
भक्तानुकम्पितां शम्भोर्मानातीतां तु वेत्ति कः ॥ १६९.१५॥
सम्पूजयत्यादिकेशमुमया प्रत्यहं शिवम् ।
एवं बहुतिथे काले याते वेदश्चुकोप ह ॥ १६९.१६॥
पूजां मन्त्रवतीं चित्रां शिवभक्तिसमन्विताम् ।
को नु विध्वंसते पापो मत्तः स वधमाप्नुयात् ॥ १६९.१७॥
गुरुदेवद्विजस्वामि+ ।
द्रोही वध्यो मुनेरपि ।
सर्वस्यापि वधार्होऽसौ शिवस्य द्रोहकृन् नरः ॥ १६९.१८॥
एवं निश्चित्य मेधावी वेदः सिन्धोस्तथानुजः ।
कस्येयं पापचेष्टा स्यात् पापिष्ठस्य दुरात्मनः ॥ १६९.१९॥
पुष्पैर्वन्यभवैर्दिव्यैः कन्दैर्मूलफलैः शुभैः ।
कृतां पूजां स विध्वस्य ह्यन्यां पूजां करोति यः ॥ १६९.२०॥
मांसेन तरुपत्त्रैश्च स च वध्यो भवेन् मम ।
एवं संचिन्त्य मेधावी गोपयित्वा तनुं तदा ॥ १६९.२१॥
तं पश्येयमहं पापं पूजाकर्तारमीश्वरे ।
एतस्मिन्न् अन्तरे प्रायाद् व्याधो देवं यथा पुरा ॥ १६९.२२॥
नित्यवत् पूजयन्तं तमादिकेशस्तदाब्रवीत् ॥ १६९.२३॥
आदिकेश उवाच ।
भो भो व्याध महाबुद्धे श्रान्तोऽसीति पुनः पुनः ।
चिराय कथमायातस्त्वां विना तात दुःखितः ।
न विन्दामि सुखं किंचित् समाश्वसिहि पुत्रक ॥ १६९.२४॥
ब्रह्मोवाच ।
तमेवंवादिनं देवं वेदः श्रुत्वा विलोक्य तु ।
चुकोप विस्मयाविष्टो न च किंचिद् उवाच ह ॥ १६९.२५॥
व्याधश्च नित्यवत् पूजां कृत्वा स्वभवनं ययौ ।
वेदश्च कुपितो भूत्वा आगत्येशमुवाच ह ॥ १६९.२६॥
वेद उवाच ।
अयं व्याधः पापरतः क्रियाज्ञानविवर्जितः ।
प्राणिहिंसारतः क्रूरो निर्दयः सर्वजन्तुषु ॥ १६९.२७॥
हीनजातिरकिंचिज्ज्ञो गुरुक्रमविवर्जितः ।
सदानुचितकारी चा+ ंइर्जिताखिलगोगणः ॥ १६९.२८॥
तस्यात्मानं दर्शितवान् न मां किंचन वक्ष्यसि ।
पूजां मन्त्रविधानेन करोमीश यतव्रतः ॥ १६९.२९॥
त्वदेकशरणो नित्यं भार्यापुत्रविवर्जितः ।
व्याधो मांसेन दुष्टेन पूजां तव करोत्यसौ ॥ १६९.३०॥