अध्याय 168, Verse 1
ब्रह्मोवाच ।
भानुतीर्थमिति ख्यातं त्वाष्ट्रं माहेश्वरं तथा ।
ऐन्द्रं याम्यं तथाग्नेयं सर्वपापप्रणाशनम् ॥ १६८.१॥
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
भानुतीर्थमिति ख्यातं त्वाष्ट्रं माहेश्वरं तथा ।
ऐन्द्रं याम्यं तथाग्नेयं सर्वपापप्रणाशनम् ॥ १६८.१॥
अभिष्टुत इति ख्यातो राजासीत् प्रियदर्शनः ।
हयमेधेन पुण्येन यष्टुमारब्धवान् सुरान् ॥ १६८.२॥
तत्रर्त्विजः षोडश स्युर्वसिष्ठात्रिपुरोगमाः ।
क्षत्रिये यजमाने तु यज्ञभूमिः कथं भवेत् ॥ १६८.३॥
ब्राह्मणे दीक्षिते राजा भुवं दास्यति यज्ञियाम् ।
भूपतौ दीक्षिते दाता को भवेत् को नु याचते ॥ १६८.४॥
याच्ञेयमखिलाशर्म+ ।
जननी पापरूपिणी ।
केनाप्यतो न कार्यैव क्षत्रियेण विशेषतः ॥ १६८.५॥
एवं मीमांसमानेषु ब्राह्मणेषु परस्परम् ।
तत्र प्राह महाप्राज्ञो वसिष्ठो धर्मवित्तमः ॥ १६८.६॥
वसिष्ठ उवाच ।
राज्ञि दीक्षायमाणे तु सूर्यो याच्यो भुवं प्रति ।
देहि मे देव सवितर्यजनं देवतोचितम् ॥ १६८.७॥
दैवं क्षत्रमसि ब्रह्मन् भूतनाथ नमोऽस्तु ते ।
याचितः सविता राज्ञा देवानां यजनं शुभम् ॥ १६८.८॥
ददात्येव ततो राजन् प्रार्थयेशं दिवाकरम् ॥ १६८.९॥
ब्रह्मोवाच ।
तथेत्युक्त्वाभिष्टुतोऽपि देवदेवं दिवाकरम् ।
श्रद्धया प्रार्थयामास हरीशाजात्मकं रविम् ॥ १६८.१०॥
राजोवाच ।
देवानां यजनं देहि सवितस्ते नमोऽस्तु ते ॥ १६८.११॥
ब्रह्मोवाच ।
क्षत्रं दैवं यतः सूर्यो दत्ता भूर्भूपतेस्ततः ।
सविता देवदेवेशो ददामीत्यभ्यभाषत ॥ १६८.१२॥
एवं करोति यो यज्ञं तस्य रिष्टिर्न काचन ।
तथा वाजिमखे सत्त्रे ब्राह्मणैर्वेदपारगैः ॥ १६८.१३॥
प्रारब्धेऽभिष्टुता राज्ञा यत्रागाद् भूपतिं रविः ।
देवानां यजनं दातुं भानुतीर्थं तद् उच्यते ॥ १६८.१४॥
तं देवक्रतुमुत्कृष्टं हयमेधं सुरैर्युतम् ।
दैत्याश्च दनुजाश्चैव तथान्ये यज्ञघातकाः ॥ १६८.१५॥
ब्रह्मवेषधराः सर्वे गायन्तः सामगा इव ।
तेऽपि तत्र महाप्राज्ञाः प्राविशन्न् अनिवारिताः ॥ १६८.१६॥
चमसानि च पात्राणि सोमं चषालमेव च ।
सोमपानं हविस्त्यागम् ऋत्विजो भूपतिं तथा ॥ १६८.१७॥
निन्दन्ति निक्षिपन्त्यन्ये हसन्त्यन्ये तथासुराः ।
तेषां चेष्टां न जानन्ति विश्वरूपं विना मुने ॥ १६८.१८॥
विश्वरूपोऽपि पितरं प्राह दैत्या इमे इति ।
तत् पुत्रवचनं श्रुत्वा त्वष्टा प्राह सुरान् इदम् ॥ १६८.१९॥
त्वष्टोवाच ।
गृहीत्वा वारिदर्भांश्च प्रोक्षयध्वं समन्ततः ।
ये निन्दन्ति मखं पुण्यं चमसं सोममेव च ॥ १६८.२०॥
मया त्वपहताः सर्व इत्युक्त्वा परिषिञ्चत ॥ १६८.२१॥
ब्रह्मोवाच ।
तथा चक्रुः सुरगणास्त्वष्टा चापि तथाकरोत् ।
भस्मीभूतास्ततः सर्वे कांदिशीकास्ततोऽभवन् ॥ १६८.२२॥
हता मया महापापा इत्युक्त्वा वार्यवाक्षिपत् ।
ततः क्षीणायुषो दैत्याः प्रातिष्ठन् कुपितास्ततः ॥ १६८.२३॥
यत्रैतत् प्राक्षिपद् वारि त्वष्टा लोकप्रजापतिः ।
त्वाष्ट्रं तीर्थं तद् आख्यातं सर्वपापप्रणाशनम् ॥ १६८.२४॥
त्वष्टुर्वाक्याच्च्युतान् दैत्यान् निजघान यमस्तदा ।
कालदण्डेन चक्रेण कालपाशेन मन्युना ॥ १६८.२५॥
यत्र ते निहता दैत्यास्तत् तीर्थं याम्यमुच्यते ।
यत्राभवत् क्रतुः पूर्णो हुत्वाग्नौ चामृतं बहु ॥ १६८.२६॥
धाराभिः शरमानाभिरखण्डाभिर्महाध्वरे ।
यत्राभवद् धव्यवाहस्तृप्तस्तस्य ह्यभिष्टुतः ॥ १६८.२७॥
अग्नितीर्थं तद् आख्यातमश्वमेधफलप्रदम् ।
इन्द्रो मरुद्भिर्नृपतिं प्राहेदं वचनं शुभम् ॥ १६८.२८॥
त्वं संराड् भविता राजन्न् उभयोरपि लोकयोः ।
सखा मम प्रियो नित्यं भविता नात्र संशयः ॥ १६८.२९॥
स कृतार्थो मर्त्यलोक इन्द्रतीर्थे च तर्पणम् ।
कुर्यात् पितृणां प्रीत्यर्थं यमतीर्थे विशेषतः ॥ १६८.३०॥