अध्याय 167, Verse 1
ब्रह्मोवाच ।
विप्रतीर्थमिति ख्यातं तथा नारायणं विदुः ।
तस्याख्यानं प्रवक्ष्यामि शृणु विस्मयकारकम् ॥ १६७.१॥
Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
विप्रतीर्थमिति ख्यातं तथा नारायणं विदुः ।
तस्याख्यानं प्रवक्ष्यामि शृणु विस्मयकारकम् ॥ १६७.१॥
अन्तर्वेद्यां द्विजः कश्चिद् ब्राह्मणो वेदपारगः ।
तस्य पुत्रा महाप्राज्ञा गुणरूपदयान्विताः ॥ १६७.२॥
तेषां कनीयान् यो भ्राता शान्तो गुणगणैर्वृतः ।
आसन्दिव इति ख्यातः सर्वज्ञानो महामतिः ॥ १६७.३॥
विवाहाय पिता तस्मै आसन्दिवाय यत्नवान् ।
एतस्मिन्न् अन्तरे रात्रौ सुप्तं तं द्विजपुत्रकम् ॥ १६७.४॥
अविष्णुस्मरणं सौम्य+ ।
शिरस्कमसमाहितम् ।
आसन्दिवं क्रूररूपा राक्षसी कामरूपिणी ॥ १६७.५॥
तमादायागमच्छीघ्रं गौतम्या दक्षिणे तटे ।
श्रीगिरेरुत्तरे पारे बहुब्राह्मणसेवितम् ॥ १६७.६॥
नगरं धर्मनिलयं लक्ष्म्या निलयमेव च ।
तत्र राजा बृहत्कीर्तिः सर्वक्षत्रगुणान्वितः ॥ १६७.७॥
तस्यामितक्षेमसुभिक्षयुक्तम् ।
निशावसाने द्विजपुत्रयुक्ता ।
सा राक्षसी तत् पुरमाससाद ।
मनोज्ञरूपाणि बिभर्ति नित्यम् ॥ १६७.८॥
सा कामरूपेण चरत्यशेषाम् ।
महीमिमां तेन समं द्विजेन ।
गोदावरीदक्षिणतीरभागे ।
वृद्धाकृतिस्तं द्विजमाह भीमा ॥ १६७.९॥
राक्षस्युवाच ।
एषा तु गङ्गा द्विजमुख्य संध्या ।
उपास्यतां विप्रवरैः समेत्य ।
यथोचितं विप्रवरास्तु काले ।
नोपासते यत्नत एव संध्याम् ॥ १६७.१०॥
नीचास्त एवाभिहिताः सुरेशैर् ।
अन्त्यावसायिप्रवरास्त एते ।
अहं जनित्री तव चेति वाच्यम् ।
नो चेद् इदानीं त्वमुपैषि नाशम् ॥ १६७.११॥
मद्वाक्यकर्तासि यदि द्विजेन्द्र ।
सुखं करिष्ये तव यत् प्रियं च ।
पुनश्च देशं निलयं गुरूंश्च ।
सम्प्रापयिष्ये ननु सत्यमेतत् ॥ १६७.१२॥
ब्रह्मोवाच ।
स प्राह का त्वं द्विजपुंगवोऽपि ।
सोवाच तं राक्षसी कामरूपा ।
विश्वासयन्ती शपथैरनेकैस्- ।
तं भ्रान्तचित्तं मुनिराजपुत्रम् ॥ १६७.१३॥
कङ्कालिनी नाम जगत्प्रसिद्धा ।
विप्रोऽपि तामाह निवेदितं यत् ।
तद् एव कर्तास्मि न संशयोऽत्र ।
यत् तत् प्रियं वच्मि करोमि चैव ॥ १६७.१४॥
ब्रह्मोवाच ।
तद् विप्रवचनं श्रुत्वा राक्षसी कामरूपिणी ।
वृद्धा तथापि चार्वङ्गी दिव्यालंकारभूषणा ॥ १६७.१५॥
द्विजमादाय सर्वत्र मत्सुतोऽयं गुणाकरः ।
एवं वदन्ती सर्वत्र याति वक्ति करोति च ॥ १६७.१६॥
तं विप्रं रूपसौभाग्य+ ।
वयोविद्याविभूषितम् ।
तां च वृद्धां गुणोपेतामस्य मातेति मेनिरे ॥ १६७.१७॥
तत्र द्विजवरः कश्चित् स्वां कन्यां भूषणान्विताम् ।
राक्षसीं तां पुरस्कृत्य प्रादात् तस्मै द्विजातये ॥ १६७.१८॥
सा कन्या तं पतिं प्राप्य कृतार्थास्मीत्यचिन्तयत् ।
स द्विजोऽपि गुणैर्युक्तां पत्नीं दृष्ट्वा सुदुःखितः ॥ १६७.१९॥
द्विज उवाच ।
मामियं भक्षयेद् एव राक्षसी पापरूपिणी ।
किं करोमि क्व गच्छामि कस्यैतत् कथयामि वा ॥ १६७.२०॥
महत् संकटमापन्नं रक्षयिष्यति कोऽत्र माम् ।
भार्या ममेयं कल्याणी गुणरूपवयोयुता ।
एनामप्यशुभाकस्माद् भक्षयिष्यति राक्षसी ॥ १६७.२१॥
ब्रह्मोवाच ।
एतस्मिन्न् अन्तरे तत्र भार्या सा गुणशालिनी ।
वृद्धाप्यतिदुराधर्षा सा गता कुत्रचित् तदा ॥ १६७.२२॥
प्रश्रयावनता भूत्वा बाला चापि पतिव्रता ।
भर्तारं दुःखितं ज्ञात्वा पतिं प्राह रहः शनैः ॥ १६७.२३॥
भार्योवाच ।
कस्मात् ते दुःखमापन्नं स्वामिंस्तत्त्वं
ब्रह्मोवाच ।
शनैः प्रोवाच तां भार्यां यथावत् पूर्वविस्तरम् ।
किमकथ्यं प्रिये मित्रे कुलीनायां च योषिति ॥ १६७.२५॥
भर्तृवाक्यं निशम्येदं प्रोवाच वदतां वरा ॥
भार्योवाच ।
अनात्मनः सर्वतोऽपि भयमस्ति गृहेष्वपि ।
कुतो भयं ह्यात्मवतां किं पुनर्गौतमीतटे ॥ १६७.२७॥
वसतां विष्णुभक्तानां विरक्तानां विवेकिनाम् ।
अत्र स्नात्वा शुचिर्भूत्वा स्तुहि देवमनामयम् ॥ १६७.२८॥
ब्रह्मोवाच ।
एतद् आकर्ण्य गङ्गायां स्नात्वा विगतकल्मषः ।
तुष्टाव गौतमीतीरे द्विजो नारायणं तथा ॥ १६७.२९॥
द्विज उवाच ।
त्वमन्तरात्मा जगतोऽस्य नाथ ।
त्वमेव कर्तास्य मुकुन्द हर्ता ।
त्वं पालकः पालयसे न दीनम् ।
अनाथबन्धो नरसिंह कस्मात् ॥ १६७.३०॥