अध्याय 166, Verse 1
ब्रह्मोवाच ।
पतत्रितीर्थमाख्यातं रोगघ्नं पापनाशनम् ।
तस्य श्रवणमात्रेण कृतकृत्यो भवेन् नरः ॥ १६६.१॥
Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
पतत्रितीर्थमाख्यातं रोगघ्नं पापनाशनम् ।
तस्य श्रवणमात्रेण कृतकृत्यो भवेन् नरः ॥ १६६.१॥
बभूवतुः कश्यपस्य सुतावरुणावीश्वरौ ।
सम्पातिश्च जटायुश्च सम्भवेतां तदन्वये ॥ १६६.२॥
तार्क्ष्यप्रजापतेः पुत्रावरुणो गरुडस्तथा ।
तदन्वये सम्भूतः च सम्पातिः पतगोत्तमः ॥ १६६.३॥
जटायुरिति विख्यातो ह्यपरः सोदरोऽनुजः ।
अन्योन्यस्पर्धया युक्तावुन्मत्तौ स्वबलेन तौ ॥ १६६.४॥
संजग्मतुर्दिनकरं नमस्कर्तुं विहायसि ।
यावत् सूर्यस्य सामीप्यं प्राप्तौ तौ विहगोत्तमौ ॥ १६६.५॥
दग्धपक्षावुभौ श्रान्तौ पतितौ गिरिमूर्धनि ।
बान्धवौ पतितौ दृष्ट्वा निश्चेष्टौ गतचेतसौ ॥ १६६.६॥
तावद् दुःखाभिभूतोऽसावरुणः प्राह भास्करम् ।
तौ दृष्ट्वा त्वरुणः सूर्य्ऽम् प्राहेदं पतितौ भुवि ।
आश्वासयैतौ तिग्मांशो यावन् नैतौ मरिष्यतः ॥ १६६.७॥
ब्रह्मोवाच ।
तथेत्युक्त्वा दिनकरो जीवयामास तौ खगौ ।
गरुडोऽपि तयोः श्रुत्वा अवस्थां सह विष्णुना ॥ १६६.८॥
आगत्याश्वासयामास सुखं चक्रे च नारद ।
सर्व एव तदा जग्मुर्गङ्गां तापापनुत्तये ॥ १६६.९॥
जटायुश्चारुणश्चैव सम्पातिर्गरुडस्तथा ।
सूर्यो विष्णुस्तत् प्रययौ तत् तीर्थं बहुपुण्यदम् ॥ १६६.१०॥
पतत्रितीर्थमाख्यातं विषघ्नं सर्वकामदम् ।
स्वयं सूर्यस्तथा विष्णुः सुपर्णेनारुणेन च ॥ १६६.११॥
आसते गौतमीतीरे तथैव वृषभध्वजः ।
त्रयाणामपि देवानां स्थितेस्तत् तीर्थमुत्तमम् ॥ १६६.१२॥
तत्र स्नात्वा शुचिर्भूत्वा नमस्कुर्यात् सुरान् इमान् ।
आधिव्याधिविनिर्मुक्तः स परं सौख्यमाप्नुयात् ॥ १६६.१३॥