Brahma Purana

अध्याय 165

Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.

Brahma Purana

अध्याय 165, Verse 1

ब्रह्मोवाच ।

भद्रतीर्थमिति प्रोक्तं सर्वानिष्टनिवारणम् ।

सर्वपापप्रशमनं महाशान्तिप्रदायकम् ॥ १६५.१॥

Brahma Purana

अध्याय 165, Verse 2

आदित्यस्य प्रिया भार्या उषा त्वाष्ट्री पतिव्रता ।

छायापि भार्या सवितुस्तस्याः पुत्रः शनैश्चरः ॥ १६५.२॥

Brahma Purana

अध्याय 165, Verse 3

तस्य स्वसा विष्टिरिति भीषणा पापरूपिणी ।

तां कन्यां सविता कस्मै ददामीति मतिं दधे ॥ १६५.३॥

Brahma Purana

अध्याय 165, Verse 4

यस्मै यस्मै दातुकामः सूर्यो लोकगुरुः प्रभुः ।

तच्छ्रुत्वा भीषणा चेति किं कुर्मो भार्ययानया ।

एवं तु वर्तमाने सा पितरं प्राह दुःखिता ॥ १६५.४॥

Brahma Purana

अध्याय 165, Verse 6

विष्टिरुवाच ।

बालामेव पिता यस्तु दद्यात् कन्यां सुरूपिणे ।

स कृतार्थो भवेल्लोके न चेद् दुष्कृतवान् पिता ॥ १६५.६॥

Brahma Purana

अध्याय 165, Verse 7

चतुर्थाद् वत्सराद् ऊर्ध्वं यावन् न दशमात्ययः ।

तावद् विवाहः कन्यायाः पित्रा कार्यः प्रयत्नतः ॥ १६५.७॥

Brahma Purana

अध्याय 165, Verse 8

श्रीमते विदुषे यूने कुलीनाय यशस्विने ।

उदाराय सनाथाय कन्या देया वराय वै ॥ १६५.८॥

Brahma Purana

अध्याय 165, Verse 9

एतच्चेद् अन्यथा कुर्यात् पिता स निरयी सदा ।

धर्मस्य साधनं कन्या विदुषामपि भास्कर ॥ १६५.९॥

Brahma Purana

अध्याय 165, Verse 10

नरकस्येव मूर्खाणां कामोपहतचेतसाम् ।

एकतः पृथिवी कृत्स्ना सशैलवनकानना ॥ १६५.१०॥

Brahma Purana

अध्याय 165, Verse 11

स्वलंकृतोपाधिहीना सुकन्या चैकतः स्मृता ।

विक्रीणीते यश्च कन्यामश्वं वा गां तिलान् अपि ॥ १६५.११॥

Brahma Purana

अध्याय 165, Verse 12

न तस्य रौरवादिभ्यः कदाचिन् निष्कृतिर्भवेत् ।

विवाहातिक्रमः कार्यो न कन्यायाः कदाचन ॥ १६५.१२॥

Brahma Purana

अध्याय 165, Verse 13

तस्मिन् कृते यत् पितुः स्यात् पापं तत् केन कथ्यते ।

यावल्लज्जां न जानाति यावत् क्रीडति पांशुभिः ॥ १६५.१३॥

Brahma Purana

अध्याय 165, Verse 14

तावत् कन्या प्रदातव्या नो चेत् पित्रोरधोगतिः ।

पितुः स्वरूपं पुत्रः स्याद् यः पिता पुत्र एव सः ॥ १६५.१४॥

Brahma Purana

अध्याय 165, Verse 15

आत्मनः सुखितां लोके को न कुर्यात् करोति च ।

यत् कन्यायां पिता कुर्याद् दानं पूजनमीक्षणम् ॥ १६५.१५॥

Brahma Purana

अध्याय 165, Verse 16

यत् कृतं तत् कृतं विद्यात् तासु दत्तं तद् अक्षयम् ।

यद् दत्तं तासु कन्यासु तद् आनन्त्याय कल्पते ॥ १६५.१६॥

Brahma Purana

अध्याय 165, Verse 17

पुत्रेषु चैव पौत्रेषु को न कुर्यात् सुखं रवे ।

करोति यः कन्यकानां स सम्पद्भाजनं भवेत् ॥ १६५.१७॥

Brahma Purana

अध्याय 165, Verse 18

ब्रह्मोवाच ।

एवं तां वादिनीं कन्यां विष्टिं प्रोवाच

Brahma Purana

अध्याय 165, Verse 19

सूर्य उवाच ।

किं करोमि न गृह्णाति त्वां कश्चिद् भीषणाकृतिम् ।

कुलं रूपं वयो वित्तं विद्यां वृत्तं सुशीलताम् ॥ १६५.१९॥

Brahma Purana

अध्याय 165, Verse 20

मिथः पश्यन्ति सम्बन्धे विवाहे स्त्रीषु पुंसु च ।

अस्मासु सर्वमप्यस्ति विना तव गुणैः शुभे ।

किं करोमि क्व दास्यामि वृथा मां धिक् करोषि किम् ॥ १६५.२०॥

Brahma Purana

अध्याय 165, Verse 21

ब्रह्मोवाच ।

एवमुक्त्वा पुनस्तां च विष्टिं प्रोवाच भास्करः ॥ १६५.२१॥

Brahma Purana

अध्याय 165, Verse 22

सूर्य उवाच ।

यस्मै कस्मै च दातव्या त्वं वै यद्यनुमन्यसे ।

दीयसेऽद्य मया विष्टे अनुजानीहि मां ततः ॥ १६५.२२॥

Brahma Purana

अध्याय 165, Verse 23

ब्रह्मोवाच ।

पितरं प्राह सा विष्टिर्भर्ता पुत्रा धनं सुखम् ।

आयू रूपं च सम्प्रीतिर्जायते प्राक्तनानुगम् ॥ १६५.२३॥

Brahma Purana

अध्याय 165, Verse 24

यत् पुरा विहितं कर्म प्राणिना साध्वसाधु वा ।

फलं तदनुरोधेन प्राप्यतेऽपि भवान्तरे ॥ १६५.२४॥

Brahma Purana

अध्याय 165, Verse 25

स्वदोष एव तत् पित्रा परिहर्तव्य आदरात् ।

तादृग् एव फलं तु स्याद् यादृग् आचरितं पुरा ॥ १६५.२५॥

Brahma Purana

अध्याय 165, Verse 26

तस्मात् तद्दानसम्बन्धं स्ववंशानुगतं पिता ।

करोति शेषं दैवेन यद् भाव्यं तद् भविष्यति ॥ १६५.२६॥

Brahma Purana

अध्याय 165, Verse 27

ब्रह्मोवाच ।

तच्छ्रुत्वा दुहितुर्वाक्यं त्वष्टुः पुत्राय भीषणाम् ।

विश्वरूपाय तां प्रादाद् विष्टिं लोकभयंकरीम् ॥ १६५.२७॥

Brahma Purana

अध्याय 165, Verse 28

विश्वरूपोऽपि तद्वच्च भीषणो भीषणाकृतिः ।

एवं मिथः संचरतोः शीलरूपसमानयोः ॥ १६५.२८॥

Brahma Purana

अध्याय 165, Verse 29

प्रीतिः कदाचिद् वैषम्यं दम्पत्योरभवन् मिथः ।

गण्डो नामाभवत् पुत्रो ह्यतिगण्डस्तथैव च ॥ १६५.२९॥

Brahma Purana

अध्याय 165, Verse 30

रक्ताक्षः क्रोधनश्चैव व्ययो दुर्मुख एव च ।

तेभ्यः कनीयान् अभवद् धर्षणो नाम पुण्यभाक् ॥ १६५.३०॥

Brahma Purana

अध्याय 165, Verse 31

सुतः सुशीलः सुभगः शान्तः शुद्धमतिः शुचिः ।

स कदाचिद् यमगृहं द्रष्टुं मातुलमभ्यगात् ॥ १६५.३१॥