अध्याय 164, Verse 1
ब्रह्मोवाच ।
चिच्चिकातीर्थमित्युक्तं सर्वरोगविनाशनम् ।
सर्वचिन्ताप्रहरणं सर्वशान्तिकरं नृणाम् ॥ १६४.१॥
Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
चिच्चिकातीर्थमित्युक्तं सर्वरोगविनाशनम् ।
सर्वचिन्ताप्रहरणं सर्वशान्तिकरं नृणाम् ॥ १६४.१॥
तस्य स्वरूपं वक्ष्यामि शुभ्रे तस्मिन् नगोत्तमे ।
गङ्गाया उत्तरे पारे यत्र देवो गदाधरः ॥ १६४.२॥
चिच्चिकः पक्षिराट् तत्र भेरुण्डो योऽभिधीयते ।
सदा वसति तत्रैव मांसाशी श्वेतपर्वते ॥ १६४.३॥
नानापुष्पफलाकीर्णैः सर्वर्तुकुसुमैर्नगैः ।
सेविते द्विजमुख्यैश्च गौतम्या चोपशोभिते ॥ १६४.४॥
सिद्धचारणगन्धर्व+ ।
किंनरामरसंकुले ।
तत्समीपे नगः कश्चिद् द्विपदां च चतुष्पदाम् ॥ १६४.५॥
रोगार्तिक्षुत्तृषाचिन्ता+ ंअरणानां न भाजनम् ।
एवं गुणान्विते शैले नानामुनिगणावृते ॥ १६४.६॥
पूर्वदेशाधिपः कश्चित् पवमान इति श्रुतः ।
क्षत्रधर्मरतः श्रीमान् देवब्राह्मणपालकः ॥ १६४.७॥
बलेन महता युक्तः सपुरोधा वनं ययौ ।
रेमे स्त्रीभिर्मनोज्ञाभिर्नृत्यवादित्रजैः सुखैः ॥ १६४.८॥
स च एवं धनुष्पाणिर्मृगयाशीलिभिर्वृतः ।
एवं भ्रमन् कदाचित् स श्रान्तो द्रुममुपागतः ॥ १६४.९॥
गौतमीतीरसम्भूतं नानापक्षिगणैर्वृतम् ।
आश्रमाणां गृहपतिं धर्मज्ञमिव सेवितम् ॥ १६४.१०॥
तमाश्रित्य नगश्रेष्ठं पवमानो नृपोत्तमः ।
स विश्रान्तो जनवृत ईक्षां चक्रे नगोत्तमम् ॥ १६४.११॥
तत्रापश्यद् द्विजं स्थूलं द्विमुखं शोभनाकृतिम् ।
चिन्ताविष्टं तथा श्रान्तं तमपृच्छन् नृपोत्तमः ॥ १६४.१२॥
राजोवाच ।
को भवान् द्विमुखः पक्षी चिन्तावान् इव लक्ष्यसे ।
नैवात्र कश्चिद् दुःखार्तः कस्मात् त्वं दुःखमागतः ॥ १६४.१३॥
ब्रह्मोवाच ।
ततः प्रोवाच नृपतिं पवमानं शनैः शनैः ।
समाश्वस्तमनाः पक्षी चिच्चिको निःश्वसन् मुहुः ॥ १६४.१४॥
चिच्चिक उवाच ।
मत्तो भयं न चान्येषां मम वान्योपपादितम् ।
नानापुष्पफलाकीर्णं मुनिभिः परिसेवितम् ॥ १६४.१५॥
पश्येयं शून्यमेवाद्रिं ततः शोचामि मामहम् ।
न लभामि सुखं किंचिन् न तृप्यामि कदाचन ।
निद्रां प्राप्नोमि न क्वापि न विश्रान्तिं न निर्वृतिम् ॥ १६४.१६॥
ब्रह्मोवाच ।
द्विमुखस्य द्विजस्योक्तं श्रुत्वा राजातिविस्मितः ॥ १६४.१७॥
राजोवाच ।
को भवान् किं कृतं पापं कस्माच्छून्यश्च पर्वतः ।
एकेनास्येन तृप्यन्ति प्राणिनोऽत्र नगोत्तमे ॥ १६४.१८॥
किमुतास्यद्वयेन त्वं न तृप्तिमुपयास्यसि ।
किं वा ते दुष्कृतं प्राप्तमिह जन्मन्यथो पुरा ॥ १६४.१९॥
तत् सर्वं शंस मे सत्यं त्रास्ये त्वां महतो भयात् ॥ १६४.२०॥
ब्रह्मोवाच ।
राजानं तं द्विजः प्राह निःश्वसन्न् अथ
चिच्चिक उवाच ।
वक्ष्येऽहं त्वां पूर्ववृत्तं अहं द्विजातिप्रवरो वेदवेदाङ्गपारगः ॥ १६४.२२॥
कुलीनो विदितप्राज्ञः कार्यहन्ता कलिप्रियः ।
वदे पुरस्तथा पृष्ठे अन्यद् अन्यच्च जन्तुषु ॥ १६४.२३॥
परवृद्ध्या सदा दुःखी मायया विश्ववञ्चकः ।
कृतघ्नः सत्यरहितः परनिन्दाविचक्षणः ॥ १६४.२४॥
मित्रस्वामिगुरुद्रोही दम्भाचारोऽतिनिर्घृणः ।
मनसा कर्मणा वाचा तापयामि जनान् बहून् ॥ १६४.२५॥
अयमेव विनोदो मे सदा यत् परहिंसनम् ।
युग्मभेदं गणोच्छेदं मर्यादाभेदनं सदा ॥ १६४.२६॥
करोमि निर्विचारोऽहं विद्वत्सेवापराङ्मुखः ।
न मया सदृशः कश्चित् पातकी भवनत्रये ॥ १६४.२७॥
तेनाहं द्विमुखो जातस्तापनाद् दुःखभाग्यहम् ।
तस्माद् दुःखेन संतप्तः शून्योऽयं पर्वतो मम ॥ १६४.२८॥
अन्यच्च शृणु भूपाल वाक्यं धर्मार्थसंहितम् ।
ब्रह्महत्यासमं पापं तद् विना तद् अवाप्यते ॥ १६४.२९॥
क्षत्रियः संगरं गत्वा अथवान्यत्र संगरात् ।
पलायन्तं न्यस्तशस्त्रं विश्वस्तं च पराङ्मुखम् ॥ १६४.३०॥