अध्याय 163, Verse 1
ब्रह्मोवाच ।
सारस्वतं नाम तीर्थं सर्वकामप्रदं शुभम् ।
भुक्तिमुक्तिप्रदं नृणां सर्वपापप्रणाशनम् ॥ १६३.१॥
Containing 53 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
सारस्वतं नाम तीर्थं सर्वकामप्रदं शुभम् ।
भुक्तिमुक्तिप्रदं नृणां सर्वपापप्रणाशनम् ॥ १६३.१॥
सर्वरोगप्रशमनं सर्वसिद्धिप्रदायकम् ।
तत्रेमं शृणु वृत्तान्तं विस्तरेणाथ नारद ॥ १६३.२॥
पुष्पोत्कटात् पूर्वभागे पर्वतो लोकविश्रुतः ।
शुभ्रो नाम गिरिश्रेष्ठो गौतम्या दक्षिणे तटे ॥ १६३.३॥
शाकल्य इति विख्यातो मुनिः परमनैष्ठिकः ।
तस्मिञ् शुभ्रे पुण्यगिरौ तपस्तेपे ह्यनुत्तमम् ॥ १६३.४॥
तपस्यन्तं द्विजश्रेष्ठं गौतमीतीरमाश्रितम् ।
सर्वे भूतगणा नित्यं प्रणमन्ति स्तुवन्ति तम् ॥ १६३.५॥
अग्निशुश्रूषणपरं वेदाध्ययनतत्परम् ।
ऋषिगन्धर्वसुमनः+ ।
सेविते तत्र पर्वते ॥ १६३.६॥
तस्मिन् गिरौ महापुण्ये देवद्विजभयंकरः ।
यज्ञद्वेषी ब्रह्महन्ता परशुर्नाम राक्षसः ॥ १६३.७॥
कामरूपी विचरति नानारूपधरो वने ।
क्षणं च ब्रह्मरूपेण कदाचिद् व्याघ्ररूपधृक् ॥ १६३.८॥
कदाचिद् देवरूपेण कदाचित् पशुरूपधृक् ।
कदाचित् प्रमदारूपः कदाचिन् मृगरूपतः ॥ १६३.९॥
कदाचिद् बालरूपेण एवं चरति पापकृत् ।
यत्रास्ते ब्राह्मणो विद्वाञ् शाकल्यो मुनिसत्तमः ॥ १६३.१०॥
तमायाति महापापी परशू राक्षसाधमः ।
शुचिष्मन्तं द्विजश्रेष्ठं परशुर्नित्यमेव च ॥ १६३.११॥
नेतुं हन्तुं प्रवृत्तोऽपि न शशाक स पापकृत् ।
स कदाचिद् द्विजश्रेष्ठो देवान् अभ्यर्च्य यत्नतः ॥ १६३.१२॥
भोक्तुकामः किलायातस्तत्रायात् परशुर्मुने ।
ब्रह्मरूपधरो भूत्वा शिथिलः पलितोऽबली ।
कन्यामादाय कांचिच्च शाकल्यं वाक्यमब्रवीत् ॥ १६३.१३॥
परशुरुवाच ।
भोजनस्यार्थिनं विद्धि मां च कन्यामिमां द्विज ।
आतिथ्यकाले सम्प्राप्तं कृतकृत्योऽसि मानद ॥ १६३.१४॥
त एव धन्या लोकेऽस्मिन् येषामतिथयो गृहात् ।
पूर्णाभिलाषा निर्यान्ति जीवन्तोऽपि मृताः परे ॥ १६३.१५॥
भोजने तूपविष्टे तु आत्मार्थं कल्पितं तु यत् ।
अतिथिभ्यस्तु यो दद्याद् दत्ता तेन वसुंधरा ॥ १६३.१६॥
ब्रह्मोवाच ।
एतच्छ्रुत्वा तु शाकल्यो ददामीत्येवमब्रवीत् ।
आसने चोपवेश्याथा+ ।
ज्ञानात् तं परशुं द्विजम् ॥ १६३.१७॥
यथान्यायं पूजयित्वा शाकल्यो भोजनं ददौ ।
आपोशनं करे कृत्वा परशुर्वाक्यमब्रवीत् ॥ १६३.१८॥
परशुरुवाच ।
दूराद् अभ्यागतं श्रान्तमनुगच्छन्ति देवताः ।
तस्मिंस्तृप्ते तु तृप्ताः स्युरतृप्ते तु विपर्ययः ॥ १६३.१९॥
अतिथिश्चापवादी च द्वावेतौ विश्वबान्धवौ ।
अपवादी हरेत् पापमतिथिः स्वर्गसंक्रमः ॥ १६३.२०॥
अभ्यागतं पथि श्रान्तं सावज्ञं योऽभिवीक्षते ।
तत्क्षणाद् एव नश्यन्ति तस्य धर्मयशःश्रियः ॥ १६३.२१॥
तस्माद् अभ्यागतः श्रान्तो याचेऽहं त्वां द्विजोत्तम ।
दास्यसे यदि मे कामं तद् भोक्ष्येऽहं न चान्यथा ॥ १६३.२२॥
ब्रह्मोवाच ।
दत्तमित्येव शाकल्यो भुङ्क्ष्वेत्येवाह राक्षसम् ।
ततः प्रोवाच परशुरहं राक्षससत्तमः ॥ १६३.२३॥
नाहं द्विजस्तव रिपुर्न वृद्धः पलितः कृशः ।
बहूनि मे व्यतीतानि वर्षाणि त्वां प्रपश्यतः ॥ १६३.२४॥
शुष्यन्ति मम गात्राणि ग्रीष्मे स्वल्पोदकं यथा ।
तस्मान् नेष्ये सानुगं त्वां भक्षयिष्ये द्विजोत्तम ॥ १६३.२५॥
ब्रह्मोवाच ।
श्रुत्वा परशुवाक्यं तच्छाकल्यो वाक्यमब्रवीत् ॥ १६३.२६॥
शाकल्य उवाच ।
ये महाकुलसम्भूता विज्ञातसकलागमाः ।
तत् प्रतिश्रुतमभ्येति न जात्वत्र विपर्ययम् ॥ १६३.२७॥
यथोचितं कुरु सखे तथापि शृणु मे वचः ।
निहन्तुमप्युद्यतेषु वक्तव्यं हितमुत्तमैः ॥ १६३.२८॥
ब्राह्मणोऽहं वज्रतनुः सर्वतो रक्षको हरिः ।
पादौ रक्षतु मे विष्णुः शिरो देवो जनार्दनः ॥ १६३.२९॥
बाहू रक्षतु वाराहः पृष्ठं रक्षतु कूर्मराट् ।
हृदयं रक्षतात् कृष्णो ह्यङ्गुली रक्षतान् मृगः ॥ १६३.३०॥