अध्याय 162, Verse 1
ब्रह्मोवाच ।
मन्युतीर्थमिति ख्यातं सर्वपापप्रणाशनम् ।
सर्वकामप्रदं नृणां स्मरणाद् अघनाशनम् ॥ १६२.१॥
Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
मन्युतीर्थमिति ख्यातं सर्वपापप्रणाशनम् ।
सर्वकामप्रदं नृणां स्मरणाद् अघनाशनम् ॥ १६२.१॥
तस्य प्रभावं वक्ष्यामि शृणुष्वावहितो मुने ।
देवानां दानवानां च संगरोऽभून् मिथः पुरा ॥ १६२.२॥
तत्राजयन् नैव सुरा दानवा जयिनोऽभवन् ।
पराङ्मुखाः सुरगणाः संगराद् गतचेतसः ॥ १६२.३॥
मामभ्येत्य समूचुस्ते देहि नोऽभयकारणम् ।
तान् अहं प्रत्यवोचं वै गङ्गां गच्छत सर्वशः ॥ १६२.४॥
तत्र वै गौतमीतीरे स्तुत्वा देवं महेश्वरम् ।
अनपायनिरायास+ ।
सहजानन्दसुन्दरम् ॥ १६२.५॥
लप्स्यते सर्वविबुधा जयहेतुर्महेश्वरात् ।
तथेत्युक्त्वा सुरगणाः स्तुवन्ति स्म महेश्वरम् ॥ १६२.६॥
तपोऽतप्यन्त केचिद् वै ननृतुश्च तथापरे ।
अस्नापयंश्च केचिच्चऽपूजयंश्च तथापरे ॥ १६२.७॥
ततः प्रसन्नो भगवाञ् शूलपाणिर्महेश्वरः ।
देवान् अथाब्रवीत् तुष्टो व्रियतां यद् अभीप्सितम् ॥ १६२.८॥
देवा ऊचुः सुरपतिं विजयाय ददस्व नः ।
पुरुषं परमश्लाघ्यं रणेषु पुरतः स्थितम् ॥ १६२.९॥
यद्बाहुबलमाश्रित्य भवामः सुखिनो वयम् ।
तथेत्युवाच भगवान् देवान् प्रति महेश्वरः ॥ १६२.१०॥
आत्मनस्तेजसा कश्चिन् निर्मितः परमेष्ठिना ।
मन्युनामानमत्युग्रं देवसैन्यपुरोगमम् ॥ १६२.११॥
तं नत्वा त्रिदशाः सर्वे शिवं नत्वा स्वमालयम् ।
मन्युना सह चाभ्येत्य पुनर्युद्धाय तस्थिरे ॥ १६२.१२॥
युद्धे स्थित्वा तु दनुजैर्दैतेयैश्च महाबलैः ।
विबुधा जातसंनद्धा मन्युमूचुः पुरः स्थिताः ॥ १६२.१३॥
देवा ऊचुः ।
सामर्थ्यं तव पश्यामः पश्चाद् योत्स्यामहे परैः ।
तस्माद् दर्शय चात्मानं मन्योऽस्माकं युयुत्सताम् ॥ १६२.१४॥
ब्रह्मोवाच ।
तद् देववचनं श्रुत्वा मन्युराह स्मयन्न् इव ॥ १६२.१५॥
मन्युरुवाच ।
जनिता मम देवेशः सर्वज्ञः सर्वदृक् प्रभुः ।
यः सर्वं वेत्ति सर्वेषां धामनाम मनःस्थितम् ॥ १६२.१६॥
नैव कश्चिच्च तं वेत्ति यः सर्वं वेत्ति सर्वदा ।
अमूर्तं मूर्तमप्येतद् वेत्ति कर्ता जगन्मयः ॥ १६२.१७॥
परोऽसौ भगवान् साक्षात् तथा दिव्यन्तरिक्षगः ।
कस्तस्य रूपं यो वेद कस्य कर्ता जगन्मयः ॥ १६२.१८॥
एवंविधाद् अहं जातो मां कथं वेत्तुमर्हथ ।
अथवा द्रष्टुकामा वै भवन्तो मानुपश्यत ॥ १६२.१९॥
ब्रह्मोवाच ।
इत्युक्त्वा दर्शयामास मन्यू रूपं स्वकं महत् ।
तार्तीयचक्षुषोद्भूतं भवस्य परमेष्ठिनः ॥ १६२.२०॥
तेजसा सम्भृतं रूपं यतः सर्वं तद् उच्यते ।
पौरुषं पुरुषेष्वेव अहंकारश्च जन्तुषु ॥ १६२.२१॥
क्रोधः सर्वस्य यो भीम उपसंहारकृद् भवेत् ।
तं शंकरप्रतिनिधिं ज्वलन्तं निजतेजसा ॥ १६२.२२॥
सर्वायुधधरं दृष्ट्वा प्रणेमुः सर्वदेवताः ।
वित्रेसुर्दैत्यदनुजाः कृताञ्जलिपुटाः सुराः ॥ १६२.२३॥
भूत्वा मन्युमथोचुस्ते त्वं सेनानीः प्रभो भव ।
त्वया दत्तमिदं राज्यं मन्यो भोक्ष्यामहे वयम् ॥ १६२.२४॥
तस्मात् सर्वेषु कार्येषु जेता त्वं जयवर्धनः ।
त्वमिन्द्रस्त्वं च वरुणो लोकपालास्त्वमेव च ॥ १६२.२५॥
अस्मासु सर्वदेवेषु प्रविश त्वं जयाय वै ।
मन्युः प्रोवाच तान् सर्वान् विना मत्तो न किंचन ॥ १६२.२६॥
सर्वेष्वन्तः प्रविष्टोऽहं न मां जानाति कश्चन ।
स एव भगवान् मन्युस्ततो जातः पृथक् पृथक् ॥ १६२.२७॥
स एव रुद्ररूपी स्याद् रुद्रो मन्युः शिवोऽभवत् ।
स्थावरं जङ्गमं चैव सर्वं व्याप्तं हि मन्युना ॥ १६२.२८॥
तमवाप्य सुराः सर्वे जयमापुश्च संगरे ।
जयो मन्युश्च शौर्यं च ईशतेजःसमुद्भवम् ॥ १६२.२९॥
मन्युना जयमाप्याथ कृत्वा दैत्यैश्च संगमम् ।
यथागतं ययुः सर्वे मन्युना परिरक्षिताः ॥ १६२.३०॥