अध्याय 161, Verse 1
ब्रह्मोवाच ।
कुशतर्पणमाख्यातं प्रणीतासंगमं तथा ।
तीर्थं सर्वेषु लोकेषु भुक्तिमुक्तिप्रदायकम् ॥ १६१.१॥
Containing 78 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
कुशतर्पणमाख्यातं प्रणीतासंगमं तथा ।
तीर्थं सर्वेषु लोकेषु भुक्तिमुक्तिप्रदायकम् ॥ १६१.१॥
तस्य स्वरूपं वक्ष्यामि शृणु पापहरं शुभम् ।
विन्ध्यस्य दक्षिणे पार्श्वे सह्यो नाम महागिरिः ॥ १६१.२॥
यदङ्घ्रिभ्योऽभवन् नद्यो गोदाभीमरथीमुखाः ।
यत्राभवत् तद् विरजमेकवीरा च यत्र सा ॥ १६१.३॥
न तस्य महिमा कैश्चिद् अपि शक्योऽनुवर्णितुम् ।
तस्मिन् गिरौ पुण्यदेशे शृणु नारद यत्नतः ॥ १६१.४॥
गुह्याद् गुह्यतरं वक्ष्ये साक्षाद् वेदोदितं शुभम् ।
यन् न जानन्ति मुनयो देवाश्च पितरोऽसुराः ॥ १६१.५॥
तद् अहं प्रीतये वक्ष्ये श्रवणात् सर्वकामदम् ।
परः स पुरुषो ज्ञेयो ह्यव्यक्तोऽक्षर एव तु ॥ १६१.६॥
अपरश्च क्षरस्तस्मात् प्रकृत्यन्वित एव च ।
निराकारात् सावयवः पुरुषः समजायत ॥ १६१.७॥
तस्माद् आपः समुद्भूता अद्भ्यश्च पुरुषस्तथा ।
ताभ्यामब्जं समुद्भूतं तत्राहमभवं मुने ॥ १६१.८॥
पृथिवी वायुराकाश आपो ज्योतिस्तथैव च ।
एते मत्तः पूर्वतरा एकदैवाभवन् मुने ॥ १६१.९॥
एतान् एव प्रपश्यामि नान्यत् स्थावरजङ्गमम् ।
नैव वेदास्तदा चासन् नाहं द्रष्टास्मि किंचन ॥ १६१.१०॥
यस्माद् अहं समुद्भूतो न पश्येयं तमप्यथ ।
तूष्णीं स्थिते मयि तदा अश्रौषं वाचमुत्तमाम् ॥ १६१.११॥
आकाशवाग् उवाच ।
ब्रह्मन् कुरु जगत्सृष्टिं स्थावरस्य
ब्रह्मोवाच ।
ततोऽहमब्रवं वाचं परुषां तत्र नारद ।
कथं स्रक्ष्ये क्व वा स्रक्ष्ये केन स्रक्ष्य इदं जगत् ॥ १६१.१३॥
सैव वाग् अब्रवीद् दैवी प्रकृतिर्याभिधीयते ।
विष्णुना प्रेरिता माता जगदीशा जगन्मयी ॥ १६१.१४॥
आकाशवाग् उवाच ।
यज्ञं कुरु ततः शक्तिस्ते भवित्री न संशयः ।
यज्ञो वै विष्णुरित्येषा श्रुतिर्ब्रह्मन् सनातनी ॥ १६१.१५॥
किं यज्वनामसाध्यं स्याद् इह लोके परत्र च ॥ १६१.१६॥
ब्रह्मोवाच ।
पुनस्तामब्रवं देवीं क्व वा केनेति तद् वद ।
यज्ञः कार्यो महाभागे ततः सोवाच मां प्रति ॥ १६१.१७॥
आकाशवाग् उवाच ।
ओंकारभूता या देवी मातृकल्पा जगन्मयी ।
कर्मभूमौ यजस्वेह यज्ञेशं यज्ञपूरुषम् ॥ १६१.१८॥
स एव साधनं ते स्यात् तेन तं यज सुव्रत ।
यज्ञः स्वाहा स्वधा मन्त्रा ब्राह्मणा हविरादिकम् ॥ १६१.१९॥
हरिरेवाखिलं तेन सर्वं विष्णोरवाप्यते ॥ १६१.२०॥
ब्रह्मोवाच ।
पुनस्तामब्रवं देवीं कर्मभूः क्व विधीयते ।
तदा नारद नैवासीद् भागीरथ्यथ नर्मदा ॥ १६१.२१॥
यमुना नैव तापी सा सरस्वत्यथ गौतमी ।
समुद्रो वा नदः कश्चिन् न सरः सरितोऽमलाः ।
सा शक्तिः पुनरप्येवं मामुवाच पुनः पुनः ॥ १६१.२२॥
दैवी वाग् उवाच ।
सुमेरोर्दक्षिणे पार्श्वे तथा हिमवतो गिरेः ।
दक्षिणे चापि विन्ध्यस्य सह्याच्चैवाथ दक्षिणे ।
सर्वस्य सर्वकाले तु कर्मभूमिः शुभोदया ॥ १६१.२३॥
ब्रह्मोवाच ।
तत् तु वाक्यमथो श्रुत्वा त्यक्त्वा मेरुं महागिरिम् ।
तं प्रदेशमथागत्य स्थातव्यं क्वेत्यचिन्तयम् ।
ततो मामब्रवीत् सैव विष्णोर्वाण्यशरीरिणी ॥ १६१.२४॥
आकाशवाग् उवाच ।
इतो गच्छ इतस्तिष्ठ तथोपविश चात्र हि ।
संकल्पं कुरु यज्ञस्य स ते यज्ञः समाप्यते ॥ १६१.२५॥
कृते चैवाथ संकल्पे यज्ञार्थे सुरसत्तम ।
यद् वदन्त्यखिला वेदा विधे तत् तत् समाचर ॥ १६१.२६॥
ब्रह्मोवाच ।
इतिहासपुराणानि यद् अन्यच्छब्दगोचरम् ।
स्वतो मुखे मम प्रायाद् अभूच्च स्मृतिगोचरम् ॥ १६१.२७॥
वेदार्थश्च मया सर्वो ज्ञातोऽसौ तत्क्षणेन च ।
ततः पुरुषसूक्तं तद् अस्मरं लोकविश्रुतम् ॥ १६१.२८॥
यज्ञोपकरणं सर्वं तद् उक्तं च त्वकल्पयम् ।
तदुक्तेन प्रकारेण यज्ञपात्राण्यकल्पयम् ॥ १६१.२९॥
अहं स्थित्वा यत्र देशे शुचिर्भूत्वा यतात्मवान् ।
दीक्षितो विप्रदेशोऽसौ मन्नाम्ना तु प्रकीर्तितः ॥ १६१.३०॥