अध्याय 160, Verse 1
ब्रह्मोवाच ।
देवागमं नाम तीर्थं सर्वकामप्रदं शिवम् ।
भुक्तिमुक्तिप्रदं नृणां पितृणां तृप्तिकारकम् ॥ १६०.१॥
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
देवागमं नाम तीर्थं सर्वकामप्रदं शिवम् ।
भुक्तिमुक्तिप्रदं नृणां पितृणां तृप्तिकारकम् ॥ १६०.१॥
तत्र वृत्तं समाख्यास्ये तव यत्नेन नारद ।
देवानामसुराणां च स्पर्धाभूद् धनहेतवे ॥ १६०.२॥
स्वर्गः सुराणामभवद् असुराणामिलाभवत् ।
कर्मभूमिमवष्टभ्य असुराः सर्वतोऽभवन् ॥ १६०.३॥
देवानां यज्ञभागांश्च दातृन् घ्नन्त्यसुरास्ततः ।
ततः सुरगणाः सर्वे यज्ञभागैर्विना कृताः ॥ १६०.४॥
व्यथिता मामुपाजग्मुः किं कृत्यमिति चाब्रुवन् ।
मया चोक्ताः सुरगणा युद्धे जित्वासुरान् बलात् ॥ १६०.५॥
भुवं प्राप्स्यथ कर्माणि हवींषि च यशांसि च ।
तथेत्युक्त्वा गता देवा भूमिं ते समरार्थिनः ॥ १६०.६॥
दैत्याश्च दानवाश्चैव राक्षसा बलदर्पिताः ।
एकीभूत्वा ययुस्तेऽपि जयिनो युद्धकाङ्क्षिणः ॥ १६०.७॥
अहिर्वृत्रो बलिस्त्वाष्ट्रिर्नमुचिः शम्बरो मयः ।
एते चान्ये च बहवो योद्धारो बलदर्पिताः ॥ १६०.८॥
अग्निरिन्द्रोऽथ वरुणस्त्वष्टा पूषा तथाश्विनौ ।
मरुतो लोकपालाश्च नानायुद्धविशारदाः ॥ १६०.९॥
ते दानवाः सर्व एव याम्यां वै दिशि संगरे ।
अकुर्वन्त महायत्नं दक्षिणार्णवसंस्थिताः ॥ १६०.१०॥
त्रिकूटः पर्वतश्रेष्ठो राक्षसानां पुराभवत् ।
तद्वनेन ययुः सर्वे तैः सार्धं दक्षिणार्णवम् ॥ १६०.११॥
सर्वेषां मेलनं यत्र पर्वतो मलयस्तु सः ।
मलयस्यापि देशोऽसौ देवारीणामभूत् तदा ॥ १६०.१२॥
देवानां गौतमीतीरे तत्र संनिहितः शिवः ।
इति तेषां समायोगो देवानामभवत् किल ॥ १६०.१३॥
देवाः स्वरथमारूढास्तत्र तत्र समागमन् ।
गौतम्याः सरिदम्बायाः पुलिने विमलाशयाः ॥ १६०.१४॥
प्रसन्नाभीष्टदा या स्यात् पितृणामखिलस्य तु ।
ततो देवगणाः सर्वे स्तुत्वा देवं महेश्वरम् ।
अभयं चिन्तयामासुस्ते सर्वेऽथ परस्परम् ॥ १६०.१५॥
देवा ऊचुः ।
अत्राप्युपायः कोऽस्माकं निर्जितानां परैर्हठात् ।
एकमेवात्र नः श्रेयो विजयो वाथवा मृतिः ।
सपत्नैरभिभूतानां जीवितं धिङ् मनस्विनाम् ॥ १६०.१६॥
ब्रह्मोवाच ।
एतस्मिन्न् अन्तरे पुत्र वाग् उवाचाशरीरिणी ॥ १६०.१७॥
आकाशवाग् उवाच ।
क्लेशेनालं सुरगणा गौतमीमाशु गच्छत ।
भक्त्या हरिहरौ तत्र समाराधयतेश्वरौ ॥ १६०.१८॥
गोदावर्यास्तयोश्चैव प्रसादात् किं तु दुष्करम् ॥ १६०.१९॥
ब्रह्मोवाच ।
प्रसन्नाभ्यां हरीशाभ्यां देवा जयमभीप्सितम् ।
अवाप्य सर्वतो जग्मुः पालयन्तो दिवौकसः ॥ १६०.२०॥
यत्र देवागमो जातस्तत् तीर्थं तेन विश्रुतम् ।
देवागमं प्रशंसन्ति मुनयस्तत्त्वदर्शिनः ॥ १६०.२१॥
तत्राशीतिसहस्राणि शिवलिङ्गानि नारद ।
देवागमः पर्वतोऽसौ प्रिय इत्यपि कथ्यते ।
ततः प्रभृति तत् तीर्थं देवप्रियमतो विदुः ॥ १६०.२२॥