अध्याय 16, Verse 1
लोमहर्षण उवाच ।
भजमानस्य पुत्रोऽथ रथमुख्यो विदूरथः ।
राजाधिदेवः शूरस्तु विदूरथसुतोऽभवत् ॥ १६.१॥
Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.
लोमहर्षण उवाच ।
भजमानस्य पुत्रोऽथ रथमुख्यो विदूरथः ।
राजाधिदेवः शूरस्तु विदूरथसुतोऽभवत् ॥ १६.१॥
राजाधिदेवस्य सुता जज्ञिरे वीर्यवत्तराः ।
दत्तातिदत्तौ बलिनौ शोणाश्वः श्वेतवाहनः ॥ १६.२॥
शमी च दण्डशर्मा च दन्तशत्रुश्च शत्रुजित् ।
श्रवणा च श्रविष्ठा च स्वसारौ सम्बभूवतुः ॥ १६.३॥
शमिपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः ।
स्वयम्भोजः स्वयम्भोजाद् भदिकः सम्बभूव ह ॥ १६.४॥
तस्य पुत्रा बभूवुर्हि सर्वे भीमपराक्रमाः ।
कृतवर्माग्रजस्तेषां शतधन्वा तु मध्यमः ॥ १६.५॥
देवान्तश्च नरान्तश्च भिषग्वैतरणश्च यः ।
सुदान्तश्चातिदान्तश्च निकाश्यः कामदम्भकः ॥ १६.६॥
देवान्तस्याभवत् पुत्रो विद्वान् कम्बलबर्हिषः ।
असमौजाः सुतस्तस्य नासमौजाश्च तावुभौ ॥ १६.७॥
अजातपुत्राय सुतान् प्रददावसमौजसे ।
सुदंष्ट्रश्च सुचारुश्च कृष्ण इत्यन्धकाः स्मृताः ॥ १६.८॥
गान्धारी चैव माद्री च क्रोष्टुभार्ये बभूवतुः ।
गान्धारी जनयामास अनमित्रं महाबलम् ॥ १६.९॥
माद्री युधाजितं पुत्रं ततो वै देवमीधुषम् ।
अनमित्रममित्राणां जेतारमपराजितम् ॥ १६.१०॥
अनमित्रसुतो निघ्नो निघ्नतो द्वौ बभूवतुः ।
प्रसेनश्चाथ सत्राजिच्छत्रुसेनाजितावुभौ ॥ १६.११॥
प्रसेनो द्वारवत्यां तु निवसन् यो महामणिम् ।
दिव्यं स्यमन्तकं नाम स सूर्याद् उपलब्धवान् ॥ १६.१२॥
तस्य सत्राजितः सूर्यः सखा प्राणसमोऽभवत् ।
स कदाचिन् निशापाये रथेन रथिनां वरः ॥ १६.१३॥
तोयकूलमपः स्प्रष्टुमुपस्थातुं ययौ रविम् ।
तस्योपतिष्ठतः सूर्यं विवस्वान् अग्रतः स्थितः ॥ १६.१४॥
विस्पष्टमूर्तिर्भगवांस्तेजोमण्डलवान् विभुः ।
अथ राजा विवस्वन्तमुवाच स्थितमग्रतः ॥ १६.१५॥
यथैव व्योम्नि पश्यामि सदा त्वां ज्योतिषां पते ।
तेजोमण्डलिनं देवं तथैव पुरतः स्थितम् ॥ १६.१६॥
को विशेषोऽस्ति मे त्वत्तः सख्येनोपगतस्य वै ।
एतच्छ्रुत्वा तु भगवान् मणिरत्नं स्यमन्तकम् ॥ १६.१७॥
स्वकण्ठाद् अवमुच्याथ एकान्ते न्यस्तवान् विभुः ।
ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा ॥ १६.१८॥
प्रीतिमान् अथ तं दृष्ट्वा मुहूर्तं कृतवान् कथाम् ।
तमभिप्रस्थितं भूयो विवस्वन्तं स सत्रजित् ॥ १६.१९॥
लोकान् भासयसे सर्वान् येन त्वं सततं प्रभो ।
तद् एतन् मणिरत्नं मे भगवन् दातुमर्हसि ॥ १६.२०॥
ततः स्यमन्तकमणिं दत्तवान् भास्करस्तदा ।
स तमाबध्य नगरीं प्रविवेश महीपतिः ॥ १६.२१॥
तं जनाः पर्यधावन्त सूर्योऽयं गच्छतीति ह ।
स्वां पुरीं स विसिष्माय राजा त्वन्तःपुरं तथा ॥ १६.२२॥
तं प्रसेनजितं दिव्यं मणिरत्नं स्यमन्तकम् ।
ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिद् उत्तमम् ॥ १६.२३॥
स मणिः स्यन्दते रुक्मं वृष्ण्यन्धकनिवेशने ।
कालवर्षी च पर्जन्यो न च व्याधिभयं ह्यभूत् ॥ १६.२४॥
लिप्सां चक्रे प्रसेनस्य मणिरत्ने स्यमन्तके ।
गोविन्दो न च तं लेभे शक्तोऽपि न जहार सः ॥ १६.२५॥
कदाचिन् मृगयां यातः प्रसेनस्तेन भूषितः ।
स्यमन्तककृते सिंहाद् वधं प्राप वनेचरात् ॥ १६.२६॥
अथ सिंहं प्रधावन्तम् ऋक्षराजो महाबलः ।
निहत्य मणिरत्नं तद् आदाय प्राविशद् गुहाम् ॥ १६.२७॥
ततो वृष्ण्यन्धकाः कृष्णं प्रसेनवधकारणात् ।
प्रार्थनां तां मणेर्बद्ध्वा सर्व एव शशङ्किरे ॥ १६.२८॥
स शङ्क्यमानो धर्मात्मा अकारी तस्य कर्मणः ।
आहरिष्ये मणिमिति प्रतिज्ञाय वनं ययौ ॥ १६.२९॥
यत्र प्रसेनो मृगयां व्यचरत् तत्र चाप्यथ ।
प्रसेनस्य पदं गृह्य पुरुषैराप्तकारिभिः ॥ १६.३०॥