अध्याय 159, Verse 1
ब्रह्मोवाच ।
वञ्जरासंगमं नाम तीर्थं त्रैलोक्यविश्रुतम् ।
ऋषिभिः सेवितं नित्यं सिद्धै राजर्षिभिस्तथा ॥ १५९.१॥
Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
वञ्जरासंगमं नाम तीर्थं त्रैलोक्यविश्रुतम् ।
ऋषिभिः सेवितं नित्यं सिद्धै राजर्षिभिस्तथा ॥ १५९.१॥
दासत्वमगमत् पूर्वं नागानां गरुडः खगः ।
मातृदास्यात् तदा दुःख+ ।
परिसंतप्तमानसः ।
कदाचिच्चिन्तयामास रहः स्थित्वा विनिश्वसन् ॥ १५९.२॥
गरुड उवाच ।
त एव धन्या लोकेऽस्मिन् कृतपुण्यास्त एव हि ।
नान्यसेवा कृता यैस्तु न येषां व्यसनागमः ॥ १५९.३॥
सुखं तिष्ठन्ति गायन्ति स्वपन्ति च हसन्ति च ।
स्वदेहप्रभवो धन्या धिग् धिग् अन्यवशे स्थितान् ॥ १५९.४॥
ब्रह्मोवाच ।
इति चिन्तासमाविष्टो जननीमेत्य दुःखितः ।
पर्यपृच्छद् अमेयात्मा वैनतेयोऽथ मातरम् ॥ १५९.५॥
गरुड उवाच ।
कस्यापराधान् मातस्त्वं पितुर्वा मम वान्यतः ।
दासीत्वमाप्ता वद तत्+ ।
कारणं मम पृच्छतः ॥ १५९.६॥
ब्रह्मोवाच ।
साब्रवीत् पुत्रमात्मीयमरुणस्यानुजं प्रियम् ॥ १५९.७॥
विनतोवाच ।
नैव कस्यापराधोऽस्ति स्वापराधो मयोदितः ।
यस्या वाक्यं विपर्येति सा दासी स्यान् मयोदितम् ॥ १५९.८॥
कद्रूश्चापि तथैवाहं सा मया संयुता ययौ ।
कद्र्वा ममाभवद् वादश्छद्मनाहं तया जिता ॥ १५९.९॥
विधिर्हि बलवांस्तात कां कां चेष्टां न चेष्टते ।
एवं दासीत्वमगमं कद्र्वाः कश्यपनन्दन ।
यदा दासी तु जाताहं दासोऽभूस्त्वं द्विजन्मज ॥ १५९.१०॥
ब्रह्मोवाच ।
तूष्णीं तदा बभूवासौ गरुडोऽतीव दुःखितः ।
न किंचिद् ऊचे जननीं चिन्तयन् भवितव्यताम् ॥ १५९.११॥
कद्रूः कदाचित् सा प्राह पुत्राणां हितमिच्छती ।
आत्मनो भूतिमिच्छन्ती विनतां खगमातरम् ॥ १५९.१२॥
कद्रूरुवाच ।
पुत्रः सूर्यं नमस्कर्तुं तव यात्यनिवारितः ।
अहो लोकत्रयेऽप्यस्मिन् धन्यासि बत दास्यपि ॥ १५९.१३॥
ब्रह्मोवाच ।
स्वदुःखं गूहमाना सा कद्रूं प्राह सुविस्मिता ॥ १५९.१४॥
विनतोवाच ।
तव पुत्रास्तु किमिति रविं द्रष्टुं न
कद्रूरुवाच ।
पुत्रान् मदीयान् सुभगे नय नागालयं प्रति ।
समुद्रस्य समीपे तु तद् आस्ते शीतलं सरः ॥ १५९.१६॥
ब्रह्मोवाच ।
सुपर्णस्त्ववहन् नागान् कद्रूं च विनता तथा ।
ततः प्रोवाच मुदिता वैनतेयस्य मातरम् ॥ १५९.१७॥
सुराणां नेतु निलयं गरुडो मत्सुतान् इति ।
पुनः प्राह सर्पमाता गरुडं विनयान्वितम् ॥ १५९.१८॥
सर्पमातोवाच ।
पुत्रा मे द्रष्टुमिच्छन्ति हंसं त्रिजगतां गुरुम् ।
नमस्कृत्वा ततः सूर्यमेष्यन्ति निलयं मम ।
हण्डे त्वं नय पुत्रान् मे सूर्यमण्डलमन्वहम् ॥ १५९.१९॥
ब्रह्मोवाच ।
सा वेपमाना विनता दीना कद्रूमभाषत ॥ १५९.२०॥
विनतोवाच ।
नाहं क्षमा सर्पमातः पुत्रो मे नेष्यते सुतान् ।
दृष्ट्वा दिनकरं देवं पुनरेव प्रयान्तु ते ॥ १५९.२१॥
ब्रह्मोवाच ।
विनता स्वसुतं प्राह विहगानामधीश्वरम् ।
नमस्कर्तुमथेच्छन्ति नागाः स्वामित्वमागताः ॥ १५९.२२॥
भास्वन्तमित्युवाचेयं मां सर्पजननी हठात् ।
तथेत्युक्त्वा स गरुडो मामारोहन्तु पन्नगाः ॥ १५९.२३॥
तदारूढं सर्पसैन्यं गरुडं विहगाधिपम् ।
शनैः शनैरुपगमद् यत्र देवो दिवाकरः ।
ते दह्यमानास्तीक्ष्णेन भानुतापेन विव्यथुः ॥ १५९.२४॥
सर्पा ऊचुः ।
निवर्तस्व महाप्राज्ञ पतंगाय नमो नमः ।
अलं सूर्यस्य सदनं दग्धाः सूर्यस्य तेजसा ।
यामस्त्वया वा गरुड विहाय त्वामथापि वा ॥ १५९.२५॥
ब्रह्मोवाच ।
एवं नागैरुच्यमान आदित्यं दर्शयामि वः ।
इत्युक्त्वा गगनं शीघ्रं जगामादित्यसम्मुखः ॥ १५९.२६॥
दग्धभोगा निपेतुस्ते द्वीपं तं वीरणं प्रति ।
बहवः शतसाहस्राः पीडिता दग्धविग्रहाः ॥ १५९.२७॥
पुत्राणामार्तसंनादं पतितानां महीतले ।
आश्वासितुं समायाता तान् सा कद्रूः सुविह्वला ॥ १५९.२८॥
उवाच विनतां कद्रूस्तव पुत्रोऽतिदुष्कृतम् ।
कृतवान् अतिदुर्मेधा येषां शान्तिर्न विद्यते ॥ १५९.२९॥
नान्यथा कर्तुमायाति स्वामिवाक्यं फणीश्वरः ।
स काश्यपो बृहत्तेजा यद्यत्र स्याद् अनामयम् ॥ १५९.३०॥