अध्याय 158, Verse 1
ब्रह्मोवाच ।
व्यासतीर्थमिति ख्यातं प्राचेतसमतः परम् ।
नातः परतरं किंचित् पावनं सर्वसिद्धिदम् ॥ १५८.१॥
Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
व्यासतीर्थमिति ख्यातं प्राचेतसमतः परम् ।
नातः परतरं किंचित् पावनं सर्वसिद्धिदम् ॥ १५८.१॥
दश मे मानसाः पुत्राः स्रष्टारो जगतामपि ।
अन्तं जिज्ञासवस्ते वै पृथिव्या जग्मुरोजसा ॥ १५८.२॥
पुनः सृष्टाः पुनस्तेऽपि यातास्तान् समवेक्षितुम् ।
नैव तेऽपि समायाता ये गतास्ते गता गताः ॥ १५८.३॥
तदोत्पन्ना महाप्राज्ञा दिव्या आङ्गिरसो मुने ।
वेदवेदाङ्गतत्त्वज्ञाः सर्वशास्त्रविशारदाः ॥ १५८.४॥
तेऽनुज्ञाता अङ्गिरसा गुरुं नत्वा तपोधनाः ।
तपसे निश्चिताः सर्वे नैव पृष्ट्वा तु मातरम् ॥ १५८.५॥
सर्वेभ्यो ह्यधिका माता गुरुभ्यो गौरवेण हि ।
तदा नारद कोपेन सा शशाप तदात्मजान् ॥ १५८.६॥
मातोवाच ।
मामनादृत्य ये पुत्राः प्रवृत्ताश्चरितुं तपः ।
सर्वैरपि प्रकारैस्तन् न तेषां सिद्धिमेष्यति ॥ १५८.७॥
ब्रह्मोवाच ।
नानादेशांश्च चिन्वानास्तपःसिद्धिं न यान्ति च ।
विघ्नमन्वेति तान् सर्वान् इतश्चेतश्च धावतः ॥ १५८.८॥
क्वापि तद् राक्षसैर्विघ्नं क्वापि तन् मानुषैरभूत् ।
प्रमदाभिः क्वचिच्चापि क्वापि तद्देहदोषतः ॥ १५८.९॥
एवं तु भ्रममाणास्ते ययुः सर्वे तपोनिधिम् ।
अगस्त्यं तपतां श्रेष्ठं कुम्भयोनिं जगद्गुरुम् ॥ १५८.१०॥
नमस्कृत्वा ह्याङ्गिरसा ह्यग्निवंशसमुद्भवाः ।
दक्षिणाशापतिं शान्तं विनीताः प्रष्टुमुद्यताः ॥ १५८.११॥
आङ्गिरसा ऊचुः ।
भगवन् केन दोषेण तपोऽस्माकं न सिध्यति ।
नानाविधैरप्युपायैः कुर्वतां च पुनः पुनः ॥ १५८.१२॥
किं कुर्मः कः प्रकारोऽत्र तपस्येव भवाम किम् ।
उपायं ब्रूहि विप्रेन्द्र ज्येष्ठोऽसि तपसा ध्रुवम् ॥ १५८.१३॥
ज्ञातासि ज्ञानिनां ब्रह्मन् वक्तासि वदतां वरः ।
शान्तोऽसि यमिनां नित्यं दयावान् प्रियकृत् तथा ॥ १५८.१४॥
अक्रोधनश्च न द्वेष्टा तस्माद् ब्रूहि विवक्षितम् ।
साहंकारा दयाहीना गुरुसेवाविवर्जिताः ।
असत्यवादिनः क्रूरा न ते तत्त्वं विजानते ॥ १५८.१५॥
ब्रह्मोवाच ।
अगस्त्यः प्राह तान् सर्वान् क्षणं ध्यात्वा
अगस्त्य उवाच ।
शान्तात्मानो भवन्तो वै स्रष्टारो ब्रह्मणा कृताः ।
न पर्याप्तं तपश्चाभूत् स्मरध्वं स्मयकारणम् ॥ १५८.१७॥
ब्रह्मणा निर्मिताः पूर्वं ये गताः सुखमेधते ।
ये गताः पुनरन्वेष्टुं ते च त्वाङ्गिरसोऽभवन् ॥ १५८.१८॥
ते यूयं च पुनः काले याता याताः शनैः शनैः ।
प्रजापतेरप्यधिका भवितारो न संशयः ॥ १५८.१९॥
इतो यान्तु तपस्तप्तुं गङ्गां त्रैलोक्यपावनीम् ।
नोपायोऽन्योऽस्ति संसारे विना गङ्गां शिवप्रियाम् ॥ १५८.२०॥
तत्राश्रमे पुण्यदेशे ज्ञानदं पूजयिष्यथ ।
स च्छेदयिष्यत्यखिलं संशयं वो महामतिः ।
न सिद्धिः क्वापि केषांचिद् विना सद्गुरुणा यतः ॥ १५८.२१॥
ब्रह्मोवाच ।
ते तमूचुर्मुनिवरं ज्ञानदः कोऽभिधीयते ।
ब्रह्मा विष्णुर्महेशो वा आदित्यो वापि चन्द्रमाः ॥ १५८.२२॥
अग्निश्च वरुणः कः स्याज्ज्ञानदो मुनिसत्तम ।
अगस्त्यः पुनरप्याह ज्ञानदः श्रूयतामयम् ॥ १५८.२३॥
या आपः सोऽग्निरित्युक्तो योऽग्निः सूर्यः स उच्यते ।
यश्च सूर्यः स वै विष्णुर्यश्च विष्णुः स भास्करः ॥ १५८.२४॥
यश्च ब्रह्मा स वै रुद्रो यो रुद्रः सर्वमेव तत् ।
यस्य सर्वं तु तज्ज्ञानं ज्ञानदः सोऽत्र कीर्त्यते ॥ १५८.२५॥
देशिकप्रेरकव्याख्या+ ।
कृदुपाध्यायदेहदाः ।
गुरवः सन्ति बहवस्तेषां ज्ञानप्रदो महान् ॥ १५८.२६॥
तद् एव ज्ञानमत्रोक्तं येन भेदो विहन्यते ।
एक एवाद्वयः शम्भुरिन्द्रमित्राग्निनामभिः ।
वदन्ति बहुधा विप्रा भ्रान्तोपकृतिहेतवे ॥ १५८.२७॥
ब्रह्मोवाच ।
एतच्छ्रुत्वा मुनेर्वाक्यं गाथा गायन्त एव ते ।
जग्मुः पञ्चोत्तरां गङ्गां पञ्च जग्मुश्च दक्षिणाम् ॥ १५८.२८॥
अगस्त्येनोदितान् देवान् पूजयन्तो यथाविधि ।
आसनेषु विशेषेण ह्यासीनास्तत्त्वचिन्तकाः ॥ १५८.२९॥
तेषां सर्वे सुरगणाः प्रीतिमन्तोऽभवन् मुने ।
स्रष्टृत्वं तु युगादौ यत् कल्पितं विश्वयोनिना ॥ १५८.३०॥