अध्याय 157, Verse 1
ब्रह्मोवाच ।
किष्किन्धातीर्थमाख्यातं सर्वकामप्रदं नृणाम् ।
सर्वपापप्रशमनं यत्र संनिहितो भवः ॥ १५७.१॥
Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
किष्किन्धातीर्थमाख्यातं सर्वकामप्रदं नृणाम् ।
सर्वपापप्रशमनं यत्र संनिहितो भवः ॥ १५७.१॥
तस्य स्वरूपं वक्ष्यामि यत्नेन शृणु नारद ।
पुरा दाशरथी रामो रावणं लोकरावणम् ॥ १५७.२॥
किष्किन्धावासिभिः सार्धं जघान रणमूर्धनि ।
सपुत्रं सबलं हत्वा सीतामादाय शत्रुहा ॥ १५७.३॥
भ्रात्रा सौमित्रिणा सार्धं वानरैश्च महाबलैः ।
विभीषणेन बलिना देवैः प्रत्यागतो नृपः ॥ १५७.४॥
कृतस्वस्त्ययनः श्रीमान् पुष्पकेण विराजितः ।
यद् आसीद् धनराजस्य कामगेनाशुगामिना ॥ १५७.५॥
अयोध्यामगमन् सर्वे गच्छन् गङ्गामपश्यत ।
रामो विरामः शत्रूणां शरण्यः शरणार्थिनाम् ॥ १५७.६॥
गौतमीं तु जगत्पुण्यां सर्वकामप्रदायिनीम् ।
मनोनयनसंताप+ ंइवारणपरायणाम् ॥ १५७.७॥
तां दृष्ट्वा नृपतिः श्रीमान् गङ्गातीरमथाविशत् ।
तां दृष्ट्वा प्राह नृपतिर्हर्षगद्गदया गिरा ।
हरीन् सर्वान् अथामन्त्र्य हनुमत्प्रमुखान् मुने ॥ १५७.८॥
राम उवाच ।
अस्याः प्रभावाद् धरयो योऽसौ मम पिता प्रभुः ।
सर्वपापविनिर्मुक्तस्ततो यातस्त्रिविष्टपम् ॥ १५७.९॥
इयं जनित्री सकलस्य जन्तोर् ।
भुक्तिप्रदा मुक्तिमथापि दद्यात् ।
पापानि हन्याद् अपि दारुणानि ।
कान्यानयास्त्यत्र नदी समाना ॥ १५७.१०॥
हतानि शश्वद् दुरितानि चैव ।
अस्याः प्रभावाद् अरयः सखायः ।
विभीषणो मैत्रमुपैति नित्यम् ।
सीता च लब्धा हनुमांश्च बन्धुः ॥ १५७.११॥
लङ्का च भग्ना सगणं हि रक्षो ।
हतं हि यस्याः परिसेवनेन ।
यां गौतमो देववरं प्रपूज्य ।
शिवं शरण्यं सजटामवाप ॥ १५७.१२॥
सेयं जनित्री सकलेप्सितानाम् ।
अमङ्गलानामपि संनिहन्त्री ।
जगत्पवित्रीकरणैकदक्षा ।
दृष्टाद्य साक्षात् सरितां सवित्री ॥ १५७.१३॥
कायेन वाचा मनसा सदैनाम् ।
व्रजामि गङ्गां शरणं शरण्याम् ॥ १५७.१४॥
ब्रह्मोवाच ।
एतत् समाकर्ण्य वचो नृपस्य ।
तत्राप्लवन् हरयः सर्व एव ।
पूजां चक्रुर्विधिवत् ते पृथक् च ।
पुष्पैरनेकैः सर्वलोकोपहारैः ॥ १५७.१५॥
सम्पूज्य शर्वं नृपतिर्यथावत् ।
स्तुत्वा वाक्यैः सर्वभावोपयुक्तैः ।
ते वानरा मुदिताः सर्व एव ।
नृत्यं च गीतं च तथैव चक्रुः ॥ १५७.१६॥
सुखोषितस्तां रजनीं महात्मा ।
प्रियानुयुक्तः संवृतः प्रेमवद्भिः ।
दुःखं जहौ सर्वममित्रसम्भवम् ।
किं नाप्यते गौतमीसेवनेन ॥ १५७.१७॥
सविस्मयः पश्यति भृत्यवर्गम् ।
गोदावरीं स्तौति च सम्प्रहृष्टः ।
सम्मानयन् भृत्यगणं समग्रम् ।
अवाप रामः कमपि प्रमोदम् ।
पुनः प्रभाते विमले तु सूर्ये ।
विभीषणो दाशरथिं बभाषे ॥ १५७.१८॥
विभीषण उवाच ।
नाद्यापि तृप्तास्तु भवाम तीर्थे ।
कंचिच्च कालं निवसाम चात्र ।
वत्स्याम चात्रैव पराश्चतस्रो ।
रात्रीरथो याम वृतास्त्वयोध्याम् ॥ १५७.१९॥
ब्रह्मोवाच ।
तस्याथ वाक्यं हरयोऽनुमेनिरे ।
तथैव रात्रीरपराश्चतस्रः ।
सम्पूज्य देवं सकलेश्वरं तम् ।
भ्रातृप्रियं तीर्थमथो जगाम ॥ १५७.२०॥
सिद्धेश्वरं नाम जगत्प्रसिद्धम् ।
यस्य प्रभावात् प्रबलो दशास्यः ।
एवं तु पञ्चाहमथोषिरे ते ।
स्वं स्वं प्रतिष्ठापितलिङ्गमर्च्य ॥ १५७.२१॥
शुश्रूषणं तत्र करोति वायोः ।
सुतोऽनुगामी हनुमान् नृपस्य ।
गच्छन् नृपेन्द्रो हनुमन्तमाह ।
लिङ्गानि सर्वाणि विसर्जयस्व ॥ १५७.२२॥
मत्स्थापितान्युत्तममन्त्रविद्भिस्- ।
तथेतरैः शंकरकिंकरैश्च ।
नोद्वास्य पूजां परशंकरेण ।
बाह्यं समायोज्यमहो भवस्य ॥ १५७.२३॥
तिष्ठन्ति सुस्थास्तदनादरेण ।
ते खड्गपत्त्रादिषु सम्भवन्ति ।
येऽश्रद्दधानाः शिवलिङ्गपूजाम् ।
विधाय कृत्यं न समाचरन्ति ॥ १५७.२४॥
यथोचितं ते यमकिंकरैर्हि ।
पच्यन्त एवाखिलदुर्गतीषु ।
रामाज्ञया वायुसुतो जगाम ।
दोर्भ्यां न चोत्पाटयितुं शशाक ॥ १५७.२५॥
ततः स्वपुच्छेन ग्रहीतुकामः ।
संवेष्ट्य लिङ्गं तु विसृष्टकामः ।
नैवाशकत् तन् महद् अद्भुतं स्यात् ।
कपीश्वराणां नृपतेस्तथैव ॥ १५७.२६॥
कश्चालयेल्लब्धमहानुभावम् ।
महेशलिङ्गं पुरुषो मनस्वी ।
तन् निश्चलं प्रेक्ष्य महानुभावो ।
नृपप्रवीरः सहसा जगाम ॥ १५७.२७॥
विप्रान् अथामन्त्र्य विधाय पूजाम् ।
प्रदक्षिणीकृत्य च रामचन्द्रः ।
शुद्धातिशुद्धेन हृदाखिलैस्तैर् ।
लिङ्गानि सर्वाणि ननाम रामः ॥ १५७.२८॥
किष्किन्धवासिप्रवरैरशेषैः ।
संसेवितं तीर्थमतो बभूव ।
अत्राप्लवाद् एव महान्ति पापान्य् ।
अपि क्षयं यान्ति न संशयोऽत्र ॥ १५७.२९॥
पुनश्च गङ्गां प्रणनाम भक्त्या ।
प्रसीद मातर्मम गौतमीति ।
जल्पन् मुहुर्विस्मितचित्तवृत्तिर् ।
विलोकयन् प्रणमन् गौतमीं ताम् ॥ १५७.३०॥