अध्याय 155, Verse 1
ब्रह्मोवाच ।
कपिलतीर्थमाख्यातं तद् एवाङ्गिरसं स्मृतम् ।
तद् एवादित्यमाख्यातं सैंहिकेयं तद् उच्यते ॥ १५५.१॥
Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
कपिलतीर्थमाख्यातं तद् एवाङ्गिरसं स्मृतम् ।
तद् एवादित्यमाख्यातं सैंहिकेयं तद् उच्यते ॥ १५५.१॥
गौतम्या दक्षिणे पारे आदित्यान् मुनिसत्तम ।
अयाजयन्न् अङ्गिरसो दक्षिणां ते भुवं ददुः ॥ १५५.२॥
अङ्गिरोभ्यस्तदादित्यास्तपसेऽङ्गिरसो ययुः ।
सा भूमिः सैंहिकी भूत्वा जनान् सर्वान् अभक्षयत् ॥ १५५.३॥
तत्रसुस्ते जनाः सर्वे अङ्गिरोभ्यो न्यवेदयन् ।
विभीता ज्ञानतो ज्ञात्वा भुवं तां सैंहिकीमिति ॥ १५५.४॥
आदित्यान् अनुगत्वाथ वाचमङ्गिरसोऽब्रुवन् ।
भुवं गृह्णन्तु या दत्ता नेत्यादित्यास्तदाब्रुवन् ॥ १५५.५॥
निवृत्तां दक्षिणां नैव प्रतिगृह्णन्ति सूरयः ।
स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् ॥ १५५.६॥
षष्टिर्वर्षसहस्राणि विष्ठायां जायते कृमिः ।
भूमेः स्वपरदत्ताया हरणान् नाधिकं क्वचित् ॥ १५५.७॥
पापमस्ति महारौद्रं न स्वीकुर्मः पुनस्तु ताम् ।
एवं यदा स्वदत्ताया हरणे किं तदा भवेत् ॥ १५५.८॥
तथापि क्रयरूपेण गृह्णीमो दक्षिणां भुवम् ।
तथेत्युक्ते तु ते देवाः कपिलां शुभलक्षणाम् ॥ १५५.९॥
गङ्गाया दक्षिणे पारे भुवः स्थाने तु तां ददुः ।
भुक्तिमुक्तिप्रदः साक्षाद् विष्णुस्तिष्ठति मूर्तिमान् ॥ १५५.१०॥
कपिलासंगमं तच्च सर्वाघौघविनाशनम् ।
तत्राभवद् दानतोयाद् आपगा कपिलाभिधा ॥ १५५.११॥
सस्यवत्या अपि भुवो दानाद् गोदानमुत्तमम् ।
लोकरक्षां चकारासौ कृत्वा विनिमयं मुनिः ॥ १५५.१२॥
यत्र तीर्थे च तद् वृत्तं गोतीर्थं तद् उदाहृतम् ।
पुण्यदं तत्र तीर्थानां शतमुक्तं मनीषिभिः ॥ १५५.१३॥
तत्र स्नानेन दानेन भूमिदानफलं लभेत् ।
संगता गङ्गया तच्च कपिलासंगमं विदुः ॥ १५५.१४॥