अध्याय 154, Verse 1
ब्रह्मोवाच ।
सहस्रकुण्डमाख्यातं तीर्थं वेदविदो विदुः ।
यस्य स्मरणमात्रेण सुखी सम्पद्यते नरः ॥ १५४.१॥
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
सहस्रकुण्डमाख्यातं तीर्थं वेदविदो विदुः ।
यस्य स्मरणमात्रेण सुखी सम्पद्यते नरः ॥ १५४.१॥
पुरा दाशरथी रामः सेतुं बद्ध्वा महार्णवे ।
लङ्कां दग्ध्वा रिपून् हत्वा रावणादीन् रणे शरैः ॥ १५४.२॥
वैदेहीं च समासाद्य रामो वचनमब्रवीत् ।
पश्यत्सु लोकपालेषु तस्याचार्ये पुरः स्थिते ॥ १५४.३॥
अग्नौ शुद्धिगतां सीतां रामो लक्ष्मणसंनिधौ ।
एहि वैदेहि शुद्धासि अङ्कमारोढुमर्हसि ॥ १५४.४॥
नेत्युवाच तदा श्रीमान् अङ्गदो हनुमांस्तथा ।
अयोध्यायां तु वैदेहि सार्धं यामः सुहृज्जनैः ॥ १५४.५॥
तत्र शुद्धिमवाप्याथ पुनर्भ्रातृषु मातृषु ।
लौकिकेष्वपि पश्यत्सु ततः शुद्धा नृपात्मजा ॥ १५४.६॥
अयोध्यायां सुपुण्येऽह्नि अङ्कमारोढुमर्हसि ।
अस्याश्चरित्रविषये संदेहः कस्य जायते ॥ १५४.७॥
लोकापवादस्तद् अपि निरस्यः स्वजनेषु हि ।
तयोर्वाक्यमनादृत्य लक्ष्मणः सविभीषणः ॥ १५४.८॥
रामश्च जाम्बवांश्चैव तामाह्वयन् नृपात्मजाम् ।
स्वस्तीत्युक्ता देवताभी राज्ञोऽङ्कं चारुरोह सा ॥ १५४.९॥
मुदितास्ते ययुः शीघ्रं पुष्पकेण विराजता ।
अयोध्यां नगरीं प्राप्य तथा राज्यं स्वकं तु यत् ॥ १५४.१०॥
मुदितास्तेऽभवन् सर्वे सदा रामानुवर्तिनः ।
ततः कतिपयाहेषु अनार्येभ्यो विरूपिकाम् ॥ १५४.११॥
वाचं श्रुत्वा स तत्याज गुर्विणीं तामयोनिजाम् ।
मिथ्यापवादमपि हि न सहन्ते कुलोन्नताः ॥ १५४.१२॥
वाल्मीकेर्मुनिमुख्यस्य आश्रमस्य समीपतः ।
तत्याज लक्ष्मणः सीतामदुष्टां रुदतीं रुदन् ॥ १५४.१३॥
नोल्लङ्घ्याज्ञा गुरूणामित्यसौ तद् अकरोद् भिया ।
ततः कतिपयाहेषु व्यतीतेषु नृपात्मजः ॥ १५४.१४॥
रामः सौमित्रिणा सार्धं हयमेधाय दीक्षितः ।
तत्रैवाजग्मतुरुभौ रामपुत्रौ यशस्विनौ ॥ १५४.१५॥
लवः कुशश्च विख्यातौ नारदाविव गायकौ ।
रामायणं समग्रं तद् गन्धर्वाविव सुस्वरौ ॥ १५४.१६॥
रामस्य चरितं सर्वं गायमानौ समीयतुः ।
यज्ञवाटं राजसुतौ हेतुभिर्लक्षितौ तदा ॥ १५४.१७॥
रामपुत्रावुभौ शूरौ वैदेह्यास्तनयाविति ।
तावानीय ततः पुत्रावभिषिच्य यथाक्रमम् ॥ १५४.१८॥
अङ्कारूढौ ततः कृत्वा सस्वजे तौ पुनः पुनः ।
संसारदुःखखिन्नानामगतीनां शरीरिणाम् ॥ १५४.१९॥
पुत्रालिङ्गनमेवात्र परं विश्रान्तिकारणम् ।
मुहुरालिङ्ग्य तौ पुत्रौ मुहुः स्वजति चुम्बति ॥ १५४.२०॥
किमप्यन्तर्ध्यायति च निःश्वसत्यपि वै मुहुः ।
एतस्मिन्न् अन्तरे प्राप्ता राक्षसा लङ्कवासिनः ॥ १५४.२१॥
सुग्रीवो हनुमांश्चैव अङ्गदो जाम्बवांस्तथा ।
अन्ये च वानराः सर्वे विभीषणपुरःसराः ॥ १५४.२२॥
ते चागत्य नृपं प्राप्ताः सिंहासनमुपस्थितम् ।
सीतामदृष्ट्वा हनुमान् अङ्गदः कनकाङ्गदः ॥ १५४.२३॥
क्व गतायोनिजा माता एको रामोऽत्र दृश्यते ।
रामेण सा परित्यक्ता इत्यूचुर्द्वारपालकाः ॥ १५४.२४॥
पश्यत्सु लोकपालेषु आर्ये तत्र प्रवादिनि ।
अग्नौ शुद्धिगतां सीतां किं तु राजा निरङ्कुशः ॥ १५४.२५॥
उत्पन्नैर्लौकिकैर्वाक्यै रामस्त्यजति तां प्रियाम् ।
मरिष्याव इति ह्युक्त्वा गौतमीं पुनरीयतुः ॥ १५४.२६॥
रामस्तौ पृष्ठतोऽभ्येत्य अयोध्यावासिभिः सह ।
आगत्य गौतमीं तत्रऽकुर्वंस्ते परमं तपः ॥ १५४.२७॥
स्मारं स्मारं निश्वसन्तस्तां सीतां लोकमातरम् ।
संसारास्थाविरहिता गौतमीसेवनोत्सुकाः ॥ १५४.२८॥
लोकत्रयपतिः साक्षाद् रामोऽनुजसमन्वितः ।
प्राप्तः स्नात्वा च गौतम्यां शिवाराधनतत्परः ॥ १५४.२९॥
परितापं जहौ सर्वं सहस्रपरिवारितः ।
यत्र चासीत् स वृत्तान्तः सहस्रकुण्डमुच्यते ॥ १५४.३०॥