Brahma Purana

अध्याय 153

Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.

Brahma Purana

अध्याय 153, Verse 1

ब्रह्मोवाच ।

भावतीर्थमिति प्रोक्तं यत्र साक्षाद् भवः स्थितः ।

अशेषजगदन्तस्थो भूतात्मा सच्चिदाकृतिः ॥ १५३.१॥

Brahma Purana

अध्याय 153, Verse 2

तत्रेमां श‍ृणु वक्ष्यामि कथां पुण्यतमां शुभाम् ।

सूर्यवंशकरः श्रीमान् क्षत्रियाणां धुरंधरः ॥ १५३.२॥

Brahma Purana

अध्याय 153, Verse 3

प्राचीनबर्हिराख्यातः सर्वधर्मेषु पारगः ।

तिस्रः कोट्योऽर्धकोटिश्च वर्षाणां राज्य आस्थितः ॥ १५३.३॥

Brahma Purana

अध्याय 153, Verse 4

तस्येदृशं व्रतं चासीद् यद् अहं यौवनच्युतः ।

भवेयं प्रियया वापि पुत्रैर्वा प्रियवस्तुभिः ॥ १५३.४॥

Brahma Purana

अध्याय 153, Verse 5

वियुज्येयं ततो राज्यं त्यक्ष्येऽहं नात्र संशयः ।

विवेकिनां कुलीनानामिदमेवोचितं नृणाम् ॥ १५३.५॥

Brahma Purana

अध्याय 153, Verse 6

स्थीयते विजने क्वापि विरक्तैर्विभवक्षये ।

तस्मिन् प्रशासति महीं न वियोगः प्रियैः क्वचित् ॥ १५३.६॥

Brahma Purana

अध्याय 153, Verse 7

नाधिव्याधी न दुर्भिक्षं न बन्धुकलहो नृणाम् ।

तस्मिञ् शासति राज्यं तु न च कश्चिद् वियुज्यते ॥ १५३.७॥

Brahma Purana

अध्याय 153, Verse 8

ततः पुत्रार्थमकरोद् यज्ञं राजा महामतिः ।

ततः प्रसन्नो भगवान् वरं प्रादाद् यथेप्सितम् ॥ १५३.८॥

Brahma Purana

अध्याय 153, Verse 9

गौतमीतीरसंस्थाय राज्ञे देवो महेश्वरः ।

पुत्रं देहीति राजा वै भवं प्राह स भार्यया ॥ १५३.९॥

Brahma Purana

अध्याय 153, Verse 10

भवः प्राह नृपं प्रीत्या पश्य नेत्रं तृतीयकम् ।

ततः पश्यति राजेन्द्रे भवस्याक्षि तु मानद ॥ १५३.१०॥

Brahma Purana

अध्याय 153, Verse 11

चक्षुर्दीप्त्याभवत् पुत्रो महिमा नाम विश्रुतः ।

येनाकारि स्तुतिः पुण्या महिम्न इति विश्रुता ॥ १५३.११॥

Brahma Purana

अध्याय 153, Verse 12

किमलभ्यं भगवति प्रसन्ने त्रिपुरान्तके ।

यं नित्यमनुवर्तन्ते हरिब्रह्मादयः सुराः ॥ १५३.१२॥

Brahma Purana

अध्याय 153, Verse 13

प्राप्तपुत्रश्च नृपतिस्तीर्थश्रैष्ठ्यमयाचत ।

महापापमहारोग+ ंअहाव्यसनिनां नृणाम् ॥ १५३.१३॥

Brahma Purana

अध्याय 153, Verse 14

नानाविपद्गणार्तानां सर्वाभिमतलब्धये ।

प्रादाज्ज्यैष्ठ्यं भवश्चापि भावतीर्थं तद् उच्यते ॥ १५३.१४॥

Brahma Purana

अध्याय 153, Verse 15

तत्र स्नानेन दानेन सर्वान् कामान् अवाप्नुयात् ।

भवप्रसादाद् अभवत् सुतः प्राचीनबर्हिषः ॥ १५३.१५॥

Brahma Purana

अध्याय 153, Verse 16

महिमा गौतमीतीरे भावतीर्थं तद् उच्यते ।

तत्र सप्तति तीर्थानि पुण्यान्यखिलदानि च ॥ १५३.१६॥