अध्याय 152, Verse 1
ब्रह्मोवाच ।
नन्दीतटमिति ख्यातं तीर्थं वेदविदो विदुः ।
तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद ॥ १५२.१॥
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
नन्दीतटमिति ख्यातं तीर्थं वेदविदो विदुः ।
तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद ॥ १५२.१॥
अत्रिपुत्रो महातेजाश्चन्द्रमा इति विश्रुतः ।
सर्वान् वेदांश्च विधिवद् धनुर्वेदं यथाविधि ॥ १५२.२॥
अधीत्य जीवात् सर्वाश्च विद्याश्चान्या महामते ।
गुरुपूजां करोमीति जीवमाह स चन्द्रमाः ।
बृहस्पतिस्तदा प्राह चन्द्रं शिष्यं मुदान्वितः ॥ १५२.३॥
बृहस्पतिरुवाच ।
मम प्रिया तु जानीते तारा रतिसमप्रभा ॥ १५२.४॥
ब्रह्मोवाच ।
प्रष्टुं तां च तदा प्रायाद् अन्तर्वेश्म स चन्द्रमाः ।
तारां तारामुखीं दृष्ट्वा जगृहे तां करेण सः ॥ १५२.५॥
स्ववेश्म प्रति तां लोभाद् बलाद् आकर्षयत् तदा ।
तावद् धैर्यनिधिर्ज्ञानी मतिमान् विजितेन्द्रियः ॥ १५२.६॥
यावन् न कामिनीनेत्र+ ।
वागुराभिर्निबध्यते ।
विशेषतो रहःसंस्थां कामिनीमायतेक्षणाम् ॥ १५२.७॥
विलोक्य न मनो याति कस्य कामेषु वश्यताम् ।
अत एवान्यपुरुष+ ।
दर्शनं न कदाचन ॥ १५२.८॥
कुलवध्वा रहः कार्यं भीतया शीलविप्लुतेः ।
विज्ञाय तत् परिजनात् सहसोत्थाय निर्गतः ॥ १५२.९॥
दृष्ट्वा तद् दुष्कृतं कर्म बृहस्पतिरुदारधीः ।
शशाप कोपाच्चाक्षिप्य वाग्भिर्विप्रियकारिभिः ॥ १५२.१०॥
पराभिभूतामालोक्य कान्तां कः सोढुमीश्वरः ।
युयुधे तेन जीवोऽपि देवश्चन्द्रमसा रुषा ॥ १५२.११॥
न शापैर्हन्यते चन्द्रो नायुधैः सुरमन्त्रितैः ।
बृहस्पतिप्रणीतैश्च न मन्त्रैर्हन्यते शशी ॥ १५२.१२॥
तदा चन्द्रस्तु तां तारां नीत्वा संस्थाप्य मन्दिरे ।
बुभुजे बहुवर्षाणि रोहिणीं चाकुतोभयः ॥ १५२.१३॥
न जीयेत तदा देवैर्न कोपैः शापमन्त्रकैः ।
न राजभिर्न ऋषिभिर्न साम्ना भेददण्डनैः ॥ १५२.१४॥
यदा भार्यां न लेभेऽसौ गुरुः सर्वप्रयत्नतः ।
सर्वोपायक्षये जीवस्तदा नीतिमथास्मरत् ॥ १५२.१५॥
अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः ।
स्वार्थमुद्धरते प्राज्ञः स्वार्थभ्रंशो हि मूर्खता ॥ १५२.१६॥
साध्यं केनाप्युपायेन जानद्भिः पुरुषैः फलम् ।
वृथाभिमानिनः शीघ्रं विपद्यन्ते विमोहिताः ॥ १५२.१७॥
एवं निश्चित्य मेधावी शुक्रं गत्वा न्यवेदयत् ।
तमागतं कविर्ज्ञात्वा सम्मानेनाभ्यनन्दयत् ॥ १५२.१८॥
उपविष्टं सुविश्रान्तं पूजितं च यथाविधि ।
पर्यपृच्छद् दैत्यगुरुस्तदागमनकारणम् ॥ १५२.१९॥
गृहागतस्य विमुखाः शत्रवोऽप्युत्तमा नहि ।
तस्मै स विस्तरेणाह भार्याहरणमादितः ॥ १५२.२०॥
बृहस्पतेस्तदा वाक्यं श्रुत्वा कोपान्वितः कविः ।
अपराधं तु चन्द्रस्य मेने शिष्यस्य नारद ।
अतिक्रममिमं श्रुत्वा कोपात् कविरथाब्रवीत् ॥ १५२.२१॥
शुक्र उवाच ।
तदा भोक्ष्ये तदा पास्ये तदा स्वप्स्ये तदा वदे ।
यदानये प्रियां भ्रातस्तव भार्यां परार्दिताम् ॥ १५२.२२॥
तामानीय भवं पूज्य चन्द्रं शप्त्वा गुरुद्रुहम् ।
पश्चाद् भोक्ष्ये महाबाहो शृणु वाचं ग्रहेश्वर ॥ १५२.२३॥
ब्रह्मोवाच ।
एवमुक्त्वा स जीवेन दैत्याचार्यो जगाम ह ।
शिवमाराध्य यत्नेन परं सामर्थ्यमाप्तवान् ॥ १५२.२४॥
वरान् अवाप्य विविधाञ् शंकराद् भावपूजितात् ।
शिवप्रसादात् किं नाम देहिनामिह दुर्लभम् ॥ १५२.२५॥
जगाम शुक्रो जीवेन तारया यत्र चन्द्रमाः ।
वर्तते तं शशापोच्चैः शृणु त्वं चन्द्र मे वचः ॥ १५२.२६॥
यस्मात् पापतरं कर्म त्वया पाप मदात् कृतम् ।
कुष्ठी भूयास्ततश्चन्द्रं शशापैवं रुषा कविः ॥ १५२.२७॥
कविशापप्रदग्धोऽभूत् तदैव मृगलाञ्छनः ।
प्रापुः क्षयं न के नाम गुरुस्वामिसखिद्रुहः ॥ १५२.२८॥
तत्याज तां स चन्द्रोऽपि तां तारां जगृहे कविः ।
शुक्रोऽपि देवान् आहूय ऋषीन् पितृगणांस्तथा ॥ १५२.२९॥
नदीर्नदांश्च विविधान् ओषधीश्च पतिव्रताः ।
ततः सम्प्रष्टुमारेभे तारावृत्तविनिष्क्रयम् ॥ १५२.३०॥