Brahma Purana

अध्याय 151

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Brahma Purana

अध्याय 151, Verse 1

ब्रह्मोवाच ।

निम्नभेदमिति ख्यातं सर्वपापप्रणाशनम् ।

गङ्गाया उत्तरे पारे तीर्थं त्रैलोक्यविश्रुतम् ॥ १५१.१॥

Brahma Purana

अध्याय 151, Verse 2

यस्य संस्मरणेनापि सर्वपापक्षयो भवेत् ।

वेदद्वीपश्च तत्रैव दर्शनाद् वेदविद् भवेत् ॥ १५१.२॥

Brahma Purana

अध्याय 151, Verse 3

उर्वशीं चकमे राजा ऐलः परमधार्मिकः ।

को न मोहमुपायाति विलोक्य मदिरेक्षणाम् ॥ १५१.३॥

Brahma Purana

अध्याय 151, Verse 4

सा प्रायाद् यत्र राजासौ घृतं स्तोकं समश्नुते ।

आनग्नदर्शनात् कृत्वा तस्याः कालावधिं नृपः ॥ १५१.४॥

Brahma Purana

अध्याय 151, Verse 5

तां स्वीचकार ललनां यूनां रम्यां नवां नवाम् ।

सुप्तायां शयने तस्यां समुत्तस्थौ पुरूरवाः ॥ १५१.५॥

Brahma Purana

अध्याय 151, Verse 6

विलोक्य तं विवसनं तदैवासौ विनिर्गता ।

विद्युच्चञ्चलचित्तानां क्व स्थैर्यं ननु योषिताम् ॥ १५१.६॥

Brahma Purana

अध्याय 151, Verse 7

ईक्षां चक्रे स शर्वर्यां विवस्त्रो विस्मितो महान् ।

एतस्मिन्न् अन्तरे राजा युद्धायागाद् रिपून् प्रति ॥ १५१.७॥

Brahma Purana

अध्याय 151, Verse 8

ताञ् जित्वा पुनरप्यागाद् देवलोकं सुपूजितम् ।

स चागत्य महाराजो वसिष्ठाच्च पुरोधसः ॥ १५१.८॥

Brahma Purana

अध्याय 151, Verse 9

उर्वश्या गमनं श्रुत्वा ततो दुःखसमन्वितः ।

न जुहोति न चाश्नाति न श‍ृणोति न पश्यति ॥ १५१.९॥

Brahma Purana

अध्याय 151, Verse 10

एतस्मिन्न् अन्तरे तत्र मृतावस्थं नृपोत्तमम् ।

बोधयामास वाक्यैश्च हेतुभूतैः पुरोहितः ॥ १५१.१०॥

Brahma Purana

अध्याय 151, Verse 11

वसिष्ठ उवाच ।

सा मृताद्य महाराज मा व्यथस्व महामते ।

एवं स्थितं तु मा त्वां वै अशिवाः स्पृश्युराशुगाः ॥ १५१.११॥

Brahma Purana

अध्याय 151, Verse 12

न वै स्त्रैणानि जानीषे हृदयानि महामते ।

शालावृकाणां यादृंशि तस्मात् त्वं भूप मा शुचः ॥ १५१.१२॥

Brahma Purana

अध्याय 151, Verse 13

को नाम लोके राजेन्द्र कामिनीभिर्न वञ्चितः ।

वञ्चकत्वं नृशंसत्वं चञ्चलत्वं कुशीलता ॥ १५१.१३॥

Brahma Purana

अध्याय 151, Verse 14

इति स्वाभाविकं यासां ताः कथं सुखहेतवः ।

कालेन को न निहतः कोऽर्थी गौरवमागतः ॥ १५१.१४॥

Brahma Purana

अध्याय 151, Verse 15

श्रिया न भ्रामितः को वा योषिद्भिः को न खण्डितः ।

स्वप्नमायोपमा राजन् मदविप्लुतचेतसः ॥ १५१.१५॥

Brahma Purana

अध्याय 151, Verse 16

सुखाय योषितः कस्य ज्ञात्वैतद् विज्वरो भव ।

विहाय शंकरं विष्णुं गौतमीं वा महामते ।

दुःखिनां शरणं नान्यद् विद्यते भुवनत्रये ॥ १५१.१६॥

Brahma Purana

अध्याय 151, Verse 17

ब्रह्मोवाच ।

एतच्छ्रुत्वा ततो राजा दुःखं संहृत्य यत्नतः ।

गौतम्या मध्यसंस्थोऽसावैलः परमधार्मिकः ॥ १५१.१७॥

Brahma Purana

अध्याय 151, Verse 18

तत्र चाराधयामास शिवं देवं जनार्दनम् ।

ब्रह्माणं भास्करं गङ्गां देवान् अन्यांश्च यत्नतः ॥ १५१.१८॥

Brahma Purana

अध्याय 151, Verse 19

यो विपन्नो न तीर्थानि देवताश्च न सेवते ।

स कालवशगो जन्तुः कां दशामनुयास्यति ॥ १५१.१९॥

Brahma Purana

अध्याय 151, Verse 20

तदीश्वरैकशरणो गौतमीसेवनोत्सुकः ।

परां श्रद्धामुपगतः संसारास्थापराङ्मुखः ॥ १५१.२०॥

Brahma Purana

अध्याय 151, Verse 21

ईजे यज्ञांश्च बहुलान् ऋत्विग्भिर्बहुदक्षिणान् ।

वेदद्वीपोऽभवत् तेन यज्ञद्वीपः स उच्यते ॥ १५१.२१॥

Brahma Purana

अध्याय 151, Verse 22

पौर्णमास्यां तु शर्वर्यां तत्रायाति सदोर्वशी ।

तस्य दीपस्य यः कुर्यात् प्रदक्षिणमथो नरः ॥ १५१.२२॥

Brahma Purana

अध्याय 151, Verse 23

प्रदक्षिणीकृता तेन पृथिवी सागराम्बरा ।

वेदानां स्मरणं तत्र यज्ञानां स्मरणं तथा ॥ १५१.२३॥

Brahma Purana

अध्याय 151, Verse 24

सुकृती तत्र यः कुर्याद् वेदयज्ञफलं लभेत् ।

ऐलतीर्थं तु तज्ज्ञेयं तद् एव च पुरूरवम् ॥ १५१.२४॥

Brahma Purana

अध्याय 151, Verse 25

वासिष्ठं चापि तत् तु स्यान् निम्नभेदं तद् उच्यते ।

ऐले राज्ञि न किंचित् स्यान् निम्नं सर्वेषु कर्मसु ॥ १५१.२५॥

Brahma Purana

अध्याय 151, Verse 26

यद् एतन् निम्नमुर्वश्यां सर्वभावेन वर्तनम् ।

तच्चापि भेदितं निम्नं वसिष्ठेन च गङ्गया ॥ १५१.२६॥

Brahma Purana

अध्याय 151, Verse 27

निम्नभेदमभूत् तेन दृष्टादृष्टेष्टसिद्धिदम् ।

तत्र सप्त शतान्याहुस्तीर्थानि गुणवन्ति च ॥ १५१.२७॥

Brahma Purana

अध्याय 151, Verse 28

तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् ।

स्नानं कृत्वा निम्नभेदे यः पश्यति सुरान् इमान् ॥ १५१.२८॥

Brahma Purana

अध्याय 151, Verse 29

इह चामुत्र वा निम्नं न किंचित् तस्य विद्यते ।

सर्वोन्नतिमवाप्यासौ मोदते दिवि शक्रवत् ॥ १५१.२९॥