अध्याय 150, Verse 1
ब्रह्मोवाच ।
पैशाचं तीर्थमाख्यातं गङ्गाया उत्तरे तटे ।
पिशाचत्वात् पुरा विप्रो मुक्तिमाप महामते ॥ १५०.१॥
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
पैशाचं तीर्थमाख्यातं गङ्गाया उत्तरे तटे ।
पिशाचत्वात् पुरा विप्रो मुक्तिमाप महामते ॥ १५०.१॥
सुयवस्यात्मजो लोके जीगर्तिरिति विश्रुतः ।
कुटुम्बभारदुःखार्तो दुर्भिक्षेण तु पीडितः ॥ १५०.२॥
मध्यमं तु शुनःशेपं पुत्रं ब्रह्मविदां वरम् ।
विक्रीतवान् क्षत्रियाय वधाय बहुलैर्धनैः ॥ १५०.३॥
किं नामापद्गतः पापं नाचरत्यपि पण्डितः ।
शमितृत्वे धनं चापि जगृहे बहुलं मुनिः ॥ १५०.४॥
विदारणार्थं च धनं जगृहे ब्राह्मणाधमः ।
ततोऽप्रतिसमाधेय+ ंअहारोगनिपीडितः ॥ १५०.५॥
स मृतः कालपर्याये नरकेष्वथ पातितः ।
भोगाद् ऋते न क्षयोऽस्ति प्राक्तनानामिहांहसाम् ॥ १५०.६॥
किंकरैर्यमवाक्येन बहुयोन्यन्तरं गतः ।
ततः पिशाचो ह्यभवद् दारुणो दारुणाकृतिः ॥ १५०.७॥
शुष्ककाष्ठेष्वथारण्ये निर्जले निर्जने तथा ।
ग्रीष्मे ग्रीष्मदवव्याप्ते क्षिप्यते यमकिंकरैः ॥ १५०.८॥
कन्यापुत्रमहीवाजि+ ।
गवां विक्रयकारिणः ।
नरकान् न निवर्तन्ते यावद् आभूतसम्प्लवम् ॥ १५०.९॥
स्वकृताघविपाकेन दारुणैर्यमकिंकरैः ।
संघाते पच्यमानोऽसौ रुरोदोच्चैः कृतं स्मरन् ॥ १५०.१०॥
पथि गच्छन् कदाचित् स जीगर्तेर्मध्यमः सुतः ।
शुश्राव रुदतो वाणीं पिशाचस्य मुहुर्मुहुः ॥ १५०.११॥
पुत्रक्रेतुर्ब्रह्महन्तुर्जीगर्तेस्तु पितुस्तदा ।
पापिनः पुत्रविक्रेतुर्ब्रह्महन्तुः पितुश्च ताम् ॥ १५०.१२॥
शुनःशेपस्तदोवाच को भवान् अतिदुःखितः ।
जीगर्तिरब्रवीद् दुःखाच्छुनःशेपपिता ह्यहम् ॥ १५०.१३॥
पापीयसीं क्रियां कृत्वा योनिं प्राप्तोऽस्मि दारुणाम् ।
नरकेष्वथ पक्वश्च पुनः प्राप्तोऽन्तरालकम् ।
ये ये दुष्कृतकर्माणस्तेषां तेषामियं गतिः ॥ १५०.१४॥
जीगर्तिपुत्रस्तमुवाच दुःखात् ।
सोऽहं सुतस्ते मम दोषेण तात ।
विक्रीत्वा मां नरकान् एवमाप्तस्- ।
ततः करिष्ये स्वर्गतं त्वामिदानीम् ॥ १५०.१५॥
एवं प्रतिज्ञाय स गाधिपुत्र+ ।
पुत्रत्वमाप्तोऽथ मुनिप्रवीरः ।
गङ्गामभिध्याय पितुश्च लोकान् ।
अनुत्तमान् ईहमानो जगाम ॥ १५०.१६॥
अशेषदुःखानलधूपितानाम् ।
निमज्जतां मोहमहासमुद्रे ।
शरीरिणां नान्यद् अहो त्रिलोक्याम् ।
आलम्बनं विष्णुपदीं विहाय ॥ १५०.१७॥
एवं विनिश्चित्य मुनिर्महात्मा ।
समुद्दिधीर्षुः पितरं स दुर्गतेः ।
शुचिस्ततो गौतमीमाशु गत्वा ।
तत्र स्नात्वा संस्मरञ् छम्भुविष्णू ॥ १५०.१८॥
ददौ जलं प्रेतरूपाय पित्रे ।
पिशाचरूपाय सुदुःखिताय ।
तद्दानमात्रेण तदैव पूतो ।
जीगर्तिरावाप वपुः सुपुण्यम् ॥ १५०.१९॥
विमानयुक्तः सुरसंघजुष्टम् ।
विष्णोः पदं प्राप सुतप्रभावात् ।
गङ्गाप्रभावाच्च हरेश्च शम्भोर् ।
विधातुरर्कायुततुल्यतेजाः ॥ १५०.२०॥
ततः प्रभृत्येतद् अतिप्रसिद्धम् ।
पैशाचनाशं च महागदं च ।
महान्ति पापानि च नाशमाशु ।
प्रयान्ति यस्य स्मरणेन पुंसाम् ॥ १५०.२१॥
तीर्थस्य चेदं गदितं तवाद्य ।
माहात्म्यमेतत् त्रिशतानि यत्र ।
तीर्थान्यथान्यानि भवन्ति भुक्ति+ ।
मुक्तिप्रदायीनि किमन्यद् अत्र ॥ १५०.२२॥
सर्वसिद्धिदमाख्यातमित्याद्यत्र शतत्रयम् ।
तीर्थानां मुनिजुष्टानां स्मरणाद् अप्यभीष्टदम् ॥ १५०.२३॥