अध्याय 15, Verse 1
लोमहर्षण उवाच ।
क्रोष्टोरथाभवत् पुत्रो वृजिनीवान् महायशाः ।
वार्जिनीवतमिच्छन्ति स्वाहिं स्वाहाकृतां वरम् ॥ १५.१॥
Containing 62 sacred Sanskrit shlokas with multi-author commentaries and translations.
लोमहर्षण उवाच ।
क्रोष्टोरथाभवत् पुत्रो वृजिनीवान् महायशाः ।
वार्जिनीवतमिच्छन्ति स्वाहिं स्वाहाकृतां वरम् ॥ १५.१॥
स्वाहिपुत्रोऽभवद् राजा उषद्गुर्वदतां वरः ।
महाक्रतुभिरीजे यो विविधैर्भूरिदक्षिणैः ॥ १५.२॥
ततः प्रसूतिमिच्छन् वै उषद्गुः सोऽग्र्यमात्मजम् ।
जज्ञे चित्ररथस्तस्य पुत्रः कर्मभिरन्वितः ॥ १५.३॥
आसीच्चैत्ररथिर्वीरो यज्वा विपुलदक्षिणः ।
शशबिन्दुः परं वृत्तं राजर्षीणामनुष्ठितः ॥ १५.४॥
पृथुश्रवाः पृथुयशा राजासीच्छाशिबिन्दवः ।
शंसन्ति च पुराणज्ञाः पार्थश्रवसमन्तरम् ॥ १५.५॥
अन्तरस्य सुयज्ञस्तु सुयज्ञतनयोऽभवत् ।
उषतो यज्ञमखिलं स्वधर्मे च कृतादरः ॥ १५.६॥
शिनेयुरभवत् पुत्र उषतः शत्रुतापनः ।
मरुतस्तस्य तनयो राजर्षिरभवन् नृपः ॥ १५.७॥
मरुतोऽलभत ज्येष्ठं सुतं कम्बलबर्हिषम् ।
चचार विपुलं धर्मममर्षात् प्रत्यभाग् अपि ॥ १५.८॥
स सत्प्रसूतिमिच्छन् वै सुतं कम्बलबर्हिषः ।
बभूव रुक्मकवचः शतप्रसवतः सुतः ॥ १५.९॥
निहत्य रुक्मकवचः शतं कवचिनां रणे ।
धन्विनां निशितैर्बाणैरवाप श्रियमुत्तमाम् ॥ १५.१०॥
जज्ञे च रुक्मकवचात् परजित् परवीरहा ।
जज्ञिरे पञ्च पुत्रास्तु महावीर्याः पराजिताः ॥ १५.११॥
रुक्मेषुः पृथुरुक्मश्च ज्यामघः पालितो हरिः ।
पालितं च हरिं चैव विदेहेभ्यः पिता ददौ ॥ १५.१२॥
रुक्मेषुरभवद् राजा पृथुरुक्मस्य संश्रयात् ।
ताभ्यां प्रव्राजितो राजा ज्यामघोऽवसद् आश्रमे ॥ १५.१३॥
प्रशान्तश्च तदा राजा ब्राह्मणैश्चावबोधितः ।
जगाम धनुरादाय देशमन्यं ध्वजी रथी ॥ १५.१४॥
नर्मदाकूलमेकाकीमेकलां मृत्तिकावतीम् ।
ऋक्षवन्तं गिरिं जित्वा शुक्तिमत्यामुवास सः ॥ १५.१५॥
ज्यामघस्याभवद् भार्या शैब्या बलवती सती ।
अपुत्रोऽपि स राजा वै नान्यां भार्यामविन्दत ॥ १५.१६॥
तस्यासीद् विजयो युद्धे तत्र कन्यामवाप सः ।
भार्यामुवाच संत्रस्तः स्नुषेति स जनेश्वरः ॥ १५.१७॥
एतच्छ्रुत्वाब्रवीद् देवी कस्य देव स्नुषेति वै ।
अब्रवीत् तद् उपश्रुत्य ज्यामघो राजसत्तमः ॥ १५.१८॥
राजोवाच ।
यस्ते जनिष्यते पुत्रस्तस्य भार्योपपादिता ॥ १५.१९॥
लोमहर्षण उवाच ।
उग्रेण तपसा तस्याः कन्यायाः सा व्यजायत ।
पुत्रं विदर्भं सुभागा शैब्या परिणता सती ॥ १५.२०॥
राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकैशिकौ ।
पश्चाद् विदर्भोऽजनयच्छूरौ रणविशारदौ ॥ १५.२१॥
भीमो विदर्भस्य सुतः कुन्तिस्तस्यात्मजोऽभवत् ।
कुन्तेर्धृष्टः सुतो जज्ञे रणधृष्टः प्रतापवान् ॥ १५.२२॥
धृष्टस्य जज्ञिरे शूरास्त्रयः परमधार्मिकाः ।
आवन्तश्च दशार्हश्च बली विषहरश्च सः ॥ १५.२३॥
दशार्हस्य सुतो व्योमा व्योम्नो जीमूत उच्यते ।
जीमूतपुत्रो विकृतिस्तस्य भीमरथः स्मृतः ॥ १५.२४॥
अथ भीमरथस्यासीत् पुत्रो नवरथस्तथा ।
तस्य चासीद् दशरथः शकुनिस्तस्य चात्मजः ॥ १५.२५॥
तस्मात् करम्भः कारम्भिर्देवरातोऽभवन् नृपः ।
देवक्षत्रोऽभवत् तस्य वृद्धक्षत्रो महायशाः ॥ १५.२६॥
देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः ।
मधूनां वंशकृद् राजा मधुर्मधुरवाग् अपि ॥ १५.२७॥
मधोर्जज्ञेऽथ वैदर्भ्यां पुरुद्वान् पुरुषोत्तमः ।
ऐक्ष्वाकी चाभवद् भार्या मधोस्तस्यां व्यजायत ॥ १५.२८॥
सत्वान् सर्वगुणोपेतः सात्वता कीर्तिवर्धनः ।
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः ।
युज्यते परमप्रीत्या प्रजावांश्च भवेत् सदा ॥ १५.२९॥
लोमहर्षण उवाच ।
सत्वतः सत्त्वसम्पन्नान् कौशल्या सुषुवे सुतान् ।
भागिनं भजमानं च दिव्यं देवावृधं नृपम् ॥ १५.३०॥